संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६२

खण्डः १ - अध्यायः ०६२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥शङ्कर उवाच॥
भोगानामर्जनं कार्यं ततो राम स्वकर्मणा॥
स्थिराणामस्थिराणां च यथावद्भृगुनन्दन ॥१॥
आसनाद्यास्तु ये भोगाः कालेनाप्यविनाशिनः॥
स्थिरास्ते राम निर्दिष्टा परिशिष्टास्तथा चराः ॥२॥
पुष्पं पत्रं फलं मूलं तथा हरितकं शुभम्॥
उदकं चार्चनीयं स्यात्तस्मिन्नहनि भार्गव् ॥३॥
उपादानाय निष्क्रान्ते कुटुम्बिन्यथ सत्वरम्॥
कुटुम्बिनी सुप्रयाता धौतोपस्करभाजना ॥४॥
साध्यानां राम बीजानां पशोश्च सुकृतस्य च॥
शाकानां व्यञ्जनानां च स्वर्जितानां गतेऽहनि ॥५॥
शक्तिं कुर्यात्सदा तस्य वह्निनोपदमेन च॥
देशे शुचौ सुप्रयाता सुसहायगुणान्विता ॥६॥
सर्वं प्रक्षालितं कार्यं केशकीटादिवर्जितम्॥
भूमावनुपलिप्तायां स्थाप्यं राम न किञ्चन ॥७॥
सर्वं साध्यमथान्नाद्यं गन्धवर्णरसान्वितम्॥
नित्यं परिपचेद्राम नास्वाद्यं केनचित् क्वचित् ॥८॥
उपादानमथादाय प्रविश्य च गृही गृहम्॥
शुचौ प्रक्षालितं सर्वं चोपादानमुपन्यसेत् ॥९॥
सुप्रक्षाल्य तथा भागं पवित्रेण समुत्क्षिपेत्॥
एवं कृत्वा ह्युपादानं स्नायात्तु विधिना ततः ॥१०॥
धौतवासा सुप्रयतः स्वाचान्तः सुसमाहितः॥
प्रविश्य देवतावेश्म प्राग्वद्भृगुकुलोद्वह ॥११॥
नमस्कारादिकं सर्वं प्रयुञ्जीत समाहितः॥
उपादानानुसंधानं त्वादानं चाप्यनन्तरम् ॥१२॥
इज्याकालस्य धर्मज्ञ कुर्यात्प्रयतमानसः ॥१३॥
आसन्नभोगः प्रयनान्तरात्मा कुर्यादथेज्यां रणचण्डवेग॥
क्रोधं नियम्यात्महिते निविष्टस्तद्भावभावोपहितश्च नित्यम् ॥१४॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शङ्करगीतासूपादानकरणो नाम द्विषष्टितमोऽध्याय ॥६२॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP