संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः| एकोनचत्वारिंशत्तमोऽध्यायः प्रथम खण्डः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशत्तमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः एकोनत्रिंशत्तमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षट्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टात्रिंशत्तमोऽध्यायः एकोनचत्वारिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्त्वारिंशतत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षट्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकविंशतितमोऽध्यायः अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०७१ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७१ अध्यायः ०७२ प्रथम खण्डः - एकोनचत्वारिंशत्तमोऽध्यायः विष्णुधर्मोत्तर पुराण एक उपपुराण आहे. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत एकोनचत्वारिंशत्तमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाच ॥एवमुक्त्वा गते शुक्रे गविष्ठो वाक्यमब्रवीत् ॥राजञ्छुक्रस्य वचनं क्रियतामविचारयन् ॥१॥स्वप्ना हि सुमहाघोरा दृश्यन्ते भयवर्धनाः ॥भवतां हि विनाशाय रात्र्यन्ते सततं विभो ॥२॥भवान्स्वप्ने मया दृष्टो रक्त स्रगनुलेपनः ॥उष्ट्रेण शिशुमारेण वराहेण तथा व्रजन् ॥३॥तैलाक्ताश्चापरे दैत्याः खरयानमुपाश्रिताः ॥पतन्तः पर्वता दृष्टा राजँस्ते भयकारणम् ॥४॥केचित्कृष्णांबरधराः केचित्कृसरभोजिनः॥केचित्पङ्कगता दृष्टाः केचिद्भस्मशया गताः ॥५॥केचिद्विवस्त्रया नार्या कृष्यन्ते दक्षिणां दिशम् ॥काचिद्रक्ताम्बरा नारी नीयते दक्षिणां दिशम् ॥६॥केचिन्नृत्यन्ति भूपाला हसन्ति च तथाऽपरे ॥केचिन्मुण्डा मया दृष्टाः केचित्काषायवाससः ॥७॥चण्डालस्कन्धगाः केचित्केचित्किंशुकसंस्थिताः ॥गजाश्वपत्तिसैन्येन सर्वेण च भवान्युतः ॥८॥वापीं सुकलुषां प्राप्य निमग्नो गोमये ह्रदे ॥राजश्रीश्च मया दृष्टा शक्रालिङ्गनतत्परा ॥९॥तस्य मे रोचते सन्धिस्तव शक्रेण पार्थिव ॥प्राणान्रक्षत भो राजञ्जीवन्भद्राण्युपाश्नुते ॥१०॥साल्व उवाच ॥यदैव भगवान्विष्णुः श्रुतः शत्रुर्मयाऽनघ ॥तत्रैव देव तच्छ्रुत्वा राज्यं त्यक्तं तथा मया ॥११॥इष्टं यज्ञैस्तपस्तप्तं राज्यं कृतमकण्टकम् ॥मूर्ध्नि स्थितममित्राणां सुहृदः परिपालिताः ॥१२॥धृतो भृत्यजनः सर्वः कृतकृत्यास्ततो वयम् ॥गोविन्दान्मरणं प्राप्य भूयो राज्यं भविष्यति ॥१३॥मार्कण्डेय उवाच ॥इत्येव वाक्यं तु निशम्य राज्ञो मेने तदायुक्ततमं गविष्ठः ॥तूष्णीं बभूवाऽथ सुनिश्चितात्मा मेने च दैत्यान्समरे विनष्टान् ॥१४॥इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वप्नाध्यायो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : July 23, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP