संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६३

खण्डः १ - अध्यायः ०६३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥शङ्कर उवाच॥
पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा॥
निवेद्य दर्पणं देवे ततो मात्रां निवेदयेत ॥१॥
बीजैस्तु परिधानार्थं प्रयतः सुसमाहित॥
तैलमुद्वर्तनं चैव चमसीं चाप्यनन्तरम् ॥२॥
ततो निष्पुंसनं कृत्वा देयान्याचमनानि च॥
रोप्रं कालीयकं चैव तथा वै बीजपूरकम् ॥३॥
वर्णकं तगरं चैव प्रियङ्गुं गौरसर्षपाः॥
सर्वौषधीर्वृक्षबीजं सर्वगन्धांश्च भार्गव ॥४॥
रत्नोदकं च विविधं स्नानीयमुदकं तथा॥
स्नानीयं च ततो राम सुसुगन्धं च दापयेत् ॥५॥
ततः सुघर्मणार्थीयाः कलशा सुमनोहरा॥
स्वलंकृता प्रदातव्या फलपल्लवपूरिताः ॥६॥
पुष्पगन्धयुता राम पवित्रेण पवित्रिताः॥
शुभानां तीर्थसरितां राम पुण्यजलैः शुभैः ॥७॥
यथाविभवतस्तेषां बहुत्वमपि कारयेत्॥
तस्मिन्काले तथा कार्ये क्ष्वेडितोत्कृष्टनिःस्वनम् ॥८॥
जयशब्दं च विपुलं शङ्खभेरीविमिश्रितम्॥
उदकग्रहणार्थीय ततो दद्याच्च शाटकम् ॥९॥
ततो राम प्रदातव्यं धौतवासायुगं शुभम्॥
ततस्तु पूर्णकलशमासनानां प्रदक्षिणम् ॥१०॥
कृत्वा राम क्षिपेद्वेद्यां पुष्पपल्लवशोभितम्॥
ततस्त्वाचमनीयं च पूर्ववद्विनिवेदयेत् ॥११॥
मङ्गलानि च मुख्यानि ततो दद्याद्विचक्षणः॥
सत्यासनस्थं देवेशमर्चयिष्याम्यतः परम् ॥१२॥
स्नानासनानि त्यज्यन्तामित्येवं परिकीर्तयेत्॥
मार्गत्रयादथारभ्य पादपीठान्तकं पुनः ॥१३॥
कर्तव्यं सकलं कर्म त्वावाहनविसर्जनम्॥
ततोऽनुलेपनं दद्याद्व्यजनेन च वीजयेत् ॥१४॥
ततश्च वीटकं दद्यात्तथा कूर्चप्रसादनम्॥
वस्त्रं विभूषणं चैव पुष्पाणि विविधानि च ॥१५॥
वेष्टनं च स्रजं चैव कङ्कणं च मनोहरम्॥
तथा रम्यं प्रतिसरं सुपिष्टं च तथाञ्जनम् ॥१६॥
दर्पणं चोपचारं च प्रदीपं धूपमेव च॥
तथैवाचमनीयं च गीतवाद्यस्वरं तथा ॥१७॥
पुण्याहजयशब्दं च स्तोत्रोदीरणमेव च॥
तथैवोपानहौ देये छत्रं चामरमेव च ॥१८॥
यानं च वाहनं चैव पताकाश्च ध्वजानि च॥
भोगानां पूरणार्थीयां ततो मात्रां निवेदयेत् ॥१९॥
भोगानां सर्जनं कृत्वा यथाशक्तया द्विजोत्तम॥
अविद्यमाना ये भोगा मात्रास्वेव प्रकल्पयेत् ॥२०॥
एवमभ्यर्च्य देवेशं सर्वभोगैस्समाहितः॥
अर्चयेन्मधुपर्केण पशुयागो न चेद्भवेत् ॥२१॥
पशुयागाभिगमने मधुपर्को विधीयते॥
अभ्यर्च्य मधुपर्केण ततस्त्वन्येन पूजयेत् ॥२२॥|
अत्रासनान्यपीच्छन्ति केचिदप्यपराणि तु॥
आदौ स्थालीं च तेनाथ प्रदद्यादर्हणीं ततः ॥२३॥
अन्नं हरितकोपेतं भक्ष्यं व्यञ्जनसंयुतम्॥
निवेद्य दर्पणं दद्यात्तथा निष्पुंसनं ततः ॥२४॥
कृत्वा ह्याचमनीयं तु मात्रां च तदनन्तरम्॥
ततस्तु संविभागार्थं दातव्यं त्वर्हणं ततः ९॥
भूयो निवेदयेदन्नं पूर्ववत्सुसमाहितः॥
दर्पणं च ततो दद्यात्पाद्यं निष्पुंसनं ततः ॥२६ ।॥
दत्त्वा चाचमनीयं च शाटकं च निवेदयेत्॥
हस्तनिष्पुंसनार्थाय मात्रां च तदनन्तरम् ॥२७॥
निवेद्य पश्चात्ताम्बूलं देवं वह्नौ समर्चयेत्॥
वह्निसंपूजनं कृत्वा कार्यकारिसमर्पणम् ॥२८॥
अतिथीनां ततः कार्यं भर्तव्यानां च भार्गव॥
ततोऽनुयागकाले तु पवित्रेण समुत्क्षिपेत् ॥२९॥
आसनं भाजनं चैव सान्नं प्रयतमानसः॥
उपविश्य ततः पश्चात्प्रभवेनाप्ययेन च ॥३०॥
इदमग्नेतिमन्त्रेण प्राच्यां ग्रासाष्टकं भवेत्॥
ततस्तु प्रयतो भूत्वा विशेद्देवगृहं ततः ॥३१॥
इज्याकालानुसंधानं ततः कुर्यात्समाहितः॥
कुर्यात्स्वन्यायकालस्य चोपादानमनन्तरम् ॥३२॥
विसर्जनं ततः कुर्यात्प्रयतेनान्तरात्मना॥
इज्याकालविधिस्त्वेष मया ते राम कीर्तितः ॥३३॥
भगवान्वासुदेवस्तु देवस्संकर्षणस्ततः॥
प्रद्युम्नश्चानिरुद्धश्च प्रभावोऽयमुदाहृतः ॥३४॥
संकर्षणस्तथाव्यक्त आत्मा प्रद्युम्न उच्यते॥
देवस्तत्त्वगतस्सर्वं अनिरुद्धो महायशाः ॥३५॥
स नाथस्सर्वलोकानां सृष्टिसंहारकारकः॥
(पुरुषोऽपि तथा सत्य अच्युतश्च द्विजोत्तम ॥३६॥
भगवान्वासुदेवश्च त्वव्ययोऽयमुदाहृतः॥
चत्वार एते धर्मज्ञ वासुदेवाः प्रकीर्तिताः ॥३७॥
भगवच्छब्दवाच्याश्च सर्वभूतभवोद्भवाः॥
यः परः पुरुषो राम वासुदेवः प्रकीर्तितः ॥३८॥
भगवच्छब्दवाच्यश्च सर्वभूतभवोद्भवः॥
शेषतत्त्वं गतः सर्वमनिरुद्धो महायशाः ॥३९॥
स नाथः सर्वलोकानां सृष्टिसंहारकारणः ॥)
तदेतत्पठ्यते सूक्ते पौरुषे द्विजसत्तम ॥४०॥
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥
भुजिः प्रीतिस्तथैवार्चिः प्राणस्तर्पणमर्हणम् ॥४१॥
निवेदनञ्चाचमनमष्टधा मन्त्रनिर्णयः॥
मन्त्रेण चार्हणान्तेन प्रदद्यादर्हणं पुनः ॥४२॥
तथैवाचमनान्तेन देयमाचमनं भवेत्॥
प्राशनान्तेन मन्त्रेण तर्पणं विनिवेदयेत् ॥४३॥
प्रतिग्रहेषु मात्रासु पादुकासु च दर्पणे॥
छत्रे च वालव्यजने तालवृन्ते तथैव च ॥४४॥
उपानत्सु तथा याने वाहनेषु भृगूत्तम॥
अब्धिध्वजेषु च तथा पताकासु च कीर्तिताः ॥४५॥
शेषाणां कामभोगानां नित्यं संकीर्तयेत्तु वै॥
सर्वत्रप्रीणनं कार्यमेतावान्मन्त्रनिर्णयः ॥४६॥
देवानां पादपीठानां कलशानां तथैव च॥
वह्नेस्तथासनानां च चतुष्ट्वं विनिवर्तते ॥४७॥
कलशासनवह्नीनां संकरं तु न कारयेत्॥
तथैव पदपीठानां तेषां चिह्नं च कारयेत् ॥४८॥
प्रापणे मधुपर्के च मात्रासु च भृगूत्तम॥
सुमनस्तु सदा राम यत्नः कार्यः समर्चने ॥४९॥
सौमनस्यं परं राम देवदेवे निवेदितम्॥
यस्मात्तु वर्तते तस्मात्प्रोक्ताः सुमनसः सदा ॥५०॥
मां त्रास्यति भयाद्घोरात्तस्मान्मात्रा प्रकीर्तिता॥
प्रापयिष्यति च स्थाने नित्यं दुःखविवर्जिते ॥५१॥
यस्मात्तस्माद्द्विजश्रेष्ठ प्रोक्तं प्रापणकं सदा॥
परमं यत्परं राम मधुसंज्ञं तदुच्यते ॥५२॥
तदाप्यते यदा तेन मधुपर्कस्तदा स्मृतः॥
इज्याविधानोऽयमुदीरितस्ते समासतो भार्गववंशचन्द्र॥
अतः परं राम निबोध पुण्यं स्वाध्यायकाले गदतो ममाद्य ॥५३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु इज्याका लविधिर्नाम त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP