संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६४

खण्डः १ - अध्यायः ०६४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥शङ्कर उवाच॥
आदौ देशे तथा राम प्रयतः सुसमाहितः॥
स्वाध्यायेनार्चयेद्देवं प्रयतेनान्तरात्मना ॥१॥
तावत्कार्यं द्विजश्रेष्ठ स्वाध्यायं विधिवत्सदा॥
यावदस्तं गतो राम सविता दीप्तदीधितिः ॥२॥
ततस्त्वस्तं गते सूर्ये स्वाचान्तः सुसमाहितः॥
प्रविश्य देवतावेश्म नैराज्यं कर्म कारयेत् ॥३॥
पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा॥
अर्घ्यमाचमनीयं च दत्त्वा पाद्यं च भार्गव ॥४॥
स्थालीमक्लिन्ननैवेद्यादारभ्याभिहितं ततः॥
कर्तव्यमनुयागान्तं प्रयतः सुसमाहितः ॥५॥
कृत्वानुयागं विधिवत्प्रविश्य सुरमन्दिरम्॥
स्वाध्यायस्यानुसंधानं ततः कुर्यात्समाहितः ॥६॥
योगकालमुपादाय पश्चात्कुर्याद्विसर्जनम्॥
कृत्वा विसर्जनं युक्तस्तिष्ठेद्याममतन्द्रितः ॥७॥
योगादनन्तरं स्वप्यादेवं युक्तस्य भार्गव॥
स्वयं कालोऽपि सततं योगमध्येऽभिधीयते ॥८॥
स्नानार्हकत्वं यदि नास्ति तस्य यामे विबुद्धस्तु तथा चतुर्थे॥
युञ्जीत योगं रिपुकालभूतं योगेन बुद्धिः समुपैति सर्गम् ॥९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शङ्करगीतासु स्वाध्यायकालकथनं नाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP