संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकोनत्रिंशत्तमोऽध्यायः

प्रथम खण्डः - एकोनत्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
गते सुरेश्वरे देवे शक्रे च सपुरोहिते ॥
जगत्याञ्च प्रयातायां देवदेवो महेश्वरः ॥१॥
अङ्गुष्ठमात्रको भूत्वा गङ्गातोये न्यमज्जत ॥
सोऽवगाह्य स्वलोकस्थां गङ्गां सर्वगतां नदीम् ॥२॥
तयोह्यमानः प्रययौ विस्तीर्णं चन्द्रमण्डलम् ॥
नवयोजनसाहस्रो विष्कम्भो यस्य कीर्तितः ॥३॥
विस्ताराद्द्विगुणश्चैव परिणाहः समन्ततः ॥
तोयसारमयं पिण्ड पितॄणां धाममध्यगम् ॥४॥
प्रजानां भावनं सर्वं चाधारं जगतामपि ॥
शरीरिणां शरोरेषु रसं पञ्चात्मकं स्मृतम् ॥५॥
आलम्बकं क्लेदकं च तथा चैवावबोधकम् ॥
संघातकं तर्पकञ्च देहिनां देहगोचरम् ॥६॥
मनःसर्वेन्द्रियाणाञ्च सर्वेषां नाथकं तथा ॥
ओषधीशं जगद्योनिममृताधारमव्ययम् ॥७॥
यं पिबन्ति सदा देवाः पितरश्चामृतार्थिनः ॥
यश्चक्षुर्देवदेवस्य विष्णोर्वा स प्रकीर्तितः ॥८॥
हव्यकव्याशनो देवो भूतात्मा भूतभावनः ॥
प्रविश्य मण्डलं तस्य देवदेवो महेश्वरः ॥९॥
तस्य यद्व्यापकं तेजः सूक्ष्ममन्नरसं हि तम् ॥
अङ्गुष्ठमात्रं पुरुषं यं बुधाः के शिवं विदुः ॥१०॥
चक्षुर्गोलकमध्यस्था दृक्शक्तिरिव यः स्थितः ॥
चन्द्रगोलकमध्यस्थः पुरुषः स परः स्मृतः ॥११॥
कर्मसाक्षी स लोकानां स चाधारः परः स्मृतः ॥
आदित्यरश्मयश्चंद्रे तमःसंमूर्च्छितं क्षितौ ॥१२॥
क्षपयिष्यंति यन्नैशं शीतांशुस्तस्य तेजसी ॥
यस्य रूपमनिर्देश्यं यस्य तेजः सुदुःसहम् ॥१३॥
तं तु देववरं दृष्ट्वा तुष्टाव त्रिपुरान्तकः ॥
ईश्वर उवाच ॥
अग्नीषोममयं चैतज्जगदेतत्प्रकीर्तितम् ॥
अग्नीषोमौ जगन्नाथौ देवदेवो जनार्दनः ॥१४॥
तस्याग्नेयी तनुर्या च सोऽहं स च दिवाकरः ॥
सौम्या तु या तनुस्तस्य स भवान् स पितामहः ॥१५॥
त्वयेदं धार्यते सर्वं नान्यत्पश्यामि कारणम् ॥
त्वद्बिम्बे निर्मले पृथ्वी सशैलव॥नकानना ॥१६॥
शशाकृतिः सदा दृश्या शशलक्ष्माऽसि चानघ ॥
तेनैव कारणेन त्वमुच्यसे मृगलाञ्छनः ॥१७॥
शशी शशत्वसंबन्धात्सौम्यत्वात्सोम उच्यते ॥
शीतांशुत्वाच्च शीतांशुः निशेशे त्वद्विराजनात् ॥१८॥
नक्षत्रनाथस्तत्स्वाम्याद्राजत्वात्त्वं द्विजेश्वरः ॥
वसन्ति ते पितृगणाः पितृनाथस्ततो भवान् ॥१९॥
बह्वर्थश्चन्द्र इत्येष धातुरुक्तो मनीषिभिः ॥
शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्रादनेऽपि च ॥२०॥
तेन ते चन्द्रताख्याता सततं धर्मवत्सल! ॥
सर्वे चाह्लादमायन्ति दृष्टे त्वयि महाद्युते ॥२१॥
प्रजाकार्यं त्वदायत्तं तत्कुरुष्व जगत्प्रभो ॥
दत्तात्रेयत्वमासाद्य त्वया दत्तवरो नृपः ॥२२॥
कार्तवीर्यार्जुनो नाम दानवास्तमुपाश्रिताः ॥
सर्वे क्षत्त्रियतां प्राप्य तद्वधे यत्नवान् भव ॥२३॥
त्वया दत्तवरं हन्तुं नान्यः शक्नोति कश्चन॥
अवश्यं च त्वया कार्यं देवकार्यं सदा विभो ॥२४॥
मार्कण्डेय उवाच ॥
शंकरेणैवमुक्तस्तु प्रतिपूज्य च शंकरम् ॥
उवाच देवदेवेशं प्रणतार्तिहरं हरम् ॥२५॥
चन्द्र उवाच ॥
इयं शङ्कर सौम्या मे तनुः सुविहिता तव ॥
तस्मादर्कस्थितां गच्छ सा ते कामं करिष्यति ॥२६॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तस्त्रिपुरान्तकारी सोमेन राज्ञा परमेश्वरेण ॥
संपूज्य देवं प्रययौ स शीघ्रं तेजोमयं मंडलमाशु राजन् ॥२७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चन्द्रमण्डलदर्शनं नामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP