संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
त्रयोदशोऽध्यायः

प्रथम खण्डः - त्रयोदशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
कोसलाविषये स्फीते तस्मिन्मनुजपुङ्गव ॥
देवानामप्ययोध्यास्ति त्वयोध्यानामतः पुरी ॥१॥
प्राकारपरिखोपेता सरयूतीरशोभिता ॥
शोभिता भवनैर्मुख्यैः सुविभभक्तमहापथा ॥२॥
नित्यप्रसन्नैर्मातङ्गैरंजनाचलसन्निभैः ॥
देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिता ॥३॥
निर्मांसवक्रैस्तुरगैः सुकर्णैश्च मनोजवैः ॥
दीर्घग्रीवाक्षकूटैश्च महोरुजघनैर्वृता॥४॥
पद्मगर्भसवर्णाङ्ग्यः पूर्णचन्द्रनिभाननाः ॥
संलापोल्लासकुशला यत्र वेश्याः सहस्रशः ॥५॥
न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा क्रिया ॥
अयोध्यां प्राप्य यस्यार्थी निराशः प्रतिगच्छति ॥६॥
उद्यानशतसंबाधा समाजोत्सवशालिनी ॥
अरोगवीरपुरुषा सर्वतर्कविवर्जिता ॥७॥
वीणावेणुमृदङ्गानां शब्दैः सततनादिता ॥
सदा प्रहृष्टमनुजा बहुरत्नोपशोभिता ॥८॥
ब्रह्मघोषमहाघोषा द्विजवृन्दोपशोभिता ॥
साज्यधूमोद्गमाढ्येन वायुना नष्टकिल्बिषा ॥९॥
सुगन्धिधूपविक्षेप सुरभीकृतमारुता ॥
सुगन्धिमनुजाकीर्णा नित्यमापणवीथिपु ॥१०॥
यत्र दीनो जनो नास्ति मलिनः कृशितोऽपि वा ॥
वेदनिन्दापरः क्षुद्रो भिन्नसेतुर्न नास्तिकः ॥११॥
विस्तीर्णा दश मध्ये च योजनानां महापुरी ॥
सरयूतीरमाश्रित्य योजनत्रयमायता ॥१२॥
मन्वन्तरेऽस्मिन्पुनरेव राज्ञा विनिर्मिता सा मनुना नृवीर! ॥
मन्वन्तरं येन जगत्समग्रं पाल्यं यथावद्यदुवृन्दनाथ! ॥१३॥
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अयोध्यावर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP