संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
द्वादशोऽध्यायः

प्रथम खण्डः - द्वादशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


॥वज्र उवाच ॥
भारतस्यास्य वर्षस्य भेदेऽस्मिन्नवमे प्रभो ॥
किमर्थं सागरः खातः स कृतः सगरैस्तथा ॥१॥
मार्कण्डेय उवाच ॥
भारतस्यास्य वर्षस्य भेदेऽस्मिन्नवमे नृप! ॥
नवमे च दिशां भागे पूर्वस्यां दिशि यादव ॥२॥
कोशलो नाम विषयः प्रभूतधनधान्यवान् ॥
स्फीतग्रामगुणाढ्योऽस्ति नित्यं मुदित मानवः ॥३॥
पयस्विन्यः पयस्विन्यो यत्र सस्यधरा धरा ॥
मनोऽभिरामा रामाश्च पुरुषाः पौरुषाग्रगाः ॥४॥
विदग्धजनभूयिष्ठा सर्वपुण्य समाकुला ॥
नगरैर्न विशिष्यन्ते यत्र ग्रामा मनोहराः ॥५॥
गवां प्रवेशे सायाह्ने यत्र ग्रामेषु भास्करः ॥
धूलिपुञ्जपरिक्षिप्तः वनसानुविराजितः ॥६॥
पश्चिमे प्रथमे चैव यत्र यामे विराजितः ॥
रात्रौ ब्रह्मध्वनिस्तत्र तिष्ठतीव नभस्तलम् ॥७॥
फलावनतशाखाढ्याश्छायाद्रुमसमा कुलाः ॥
प्रपाकूपतडागाढ्या पन्थानो यत्र यादव ॥८॥
व्याधितस्करदुर्भिक्षपरराष्ट्रभयानि च ॥
जना यत्र न जानन्ति नाकालमरणं तथा ॥९॥
यूपचिह्ना मही यत्र देववेश्मावतंसिका ॥
यत्रोत्पलसमाकीर्णवरवापीविभूषिता ॥१०॥
उद्यानेषु सदा यत्र वेणुगान्धर्वनिःस्वनम् ॥
शिलीमुखरवैर्मिश्रं यात्यसंबाधतां गुणैः ॥११॥
यस्मिन्न कश्चिच्च्यवते स्वधर्माद्दीनो जनो यत्र न चास्ति कश्चित् ॥
न नेत्रहीनो विकलेन्द्रियो वा वसुन्धरा यत्र यथार्थनामा ॥१२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कोसलवर्णनो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP