संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः| द्वितीयोऽध्यायः प्रथम खण्डः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशत्तमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः एकोनत्रिंशत्तमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षट्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टात्रिंशत्तमोऽध्यायः एकोनचत्वारिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्त्वारिंशतत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षट्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकविंशतितमोऽध्यायः अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०७१ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७१ अध्यायः ०७२ प्रथम खण्डः - द्वितीयोऽध्यायः विष्णुधर्मोत्तर पुराण एक उपपुराण आहे. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत द्वितीयोऽध्यायः Translation - भाषांतर ॥ मार्कण्डेय उवाच ॥नारायणं नमस्कृत्य सर्वभूतपरायणम् ॥लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ॥१॥जगतोऽस्य समुत्पत्तिस्थितिनाशैककारणम् ॥ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ॥२॥वक्ष्यामि जगतां राजन्समुत्पत्तिं निबोध ताम् ॥सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ॥३॥नारायणोऽस्य जगतः सृष्टिसंहारपालनम् ॥करोति जगतीपाल यस्य सर्वमिदं महान् ॥४॥वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ॥अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥५॥यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ॥निमेषस्तु तथा रात्रिस्तच्च कल्पं प्रकीर्तितम् ॥६॥पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ॥न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ॥७॥न तस्य परिमाणं वा न चादिर्निधनं कुतः ॥सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ॥८॥सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥९॥असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥तं च प्राप्य भवन्तीह ये मुक्ताः पुरुषोत्तमाः ॥१०॥सुगतिर्योगसिद्धानां तस्मात्सर्वस्य सम्भवः ॥तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ॥११॥तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥तस्मात्तेजस्ततस्त्वापस्तेभ्योण्डमभवत्किल ॥१२॥अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ॥शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥१३॥ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ॥शरीरग्रहणं कृत्वा सृजतीदं चराचरम् ॥१४॥अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥सप्तलोकान् सपातालान्सप्तद्वीपार्णवां महीम् ॥१५॥सृष्टिं कृत्वा स भगवान् सात्त्विकीमास्थितस्तनुम् ॥क्षीरोदे केशवो भूत्वा शेषभोगमयः प्रभुः ॥१६॥लक्ष्मीसहायो लोकांस्तु सर्वान्पालयते सदा ॥योगनिद्रां समास्थाय सर्वसत्त्वशरीरगः ॥१७॥शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ॥अन्तकाले हरो भूत्वा जगत्संहरते पुनः ॥१८॥तामसीं तनुमास्थाय लीलयैव महायशाः ॥ब्रह्मातो सृष्टिकाले तु जलमध्यगतां महीम् ॥१९॥दृष्ट्वोद्धरति यज्ञात्मा वाराहीमास्थितस्तनुम् ॥ब्रह्मास्य सर्गे परिपालने च विष्णुर्महात्मा भवतीह नित्यम् ॥संहारकाले च हरत्वमेति त्रैधं विधत्ते स त्रिकालयोगात् ॥२०॥इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्तिकथनो नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : July 22, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP