संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
तृतीयोऽध्यायः

प्रथम खण्डः - तृतीयोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


॥ मार्कण्डेय उवाच ॥
ब्रह्मरात्र्यां व्यतीतायां विबुद्धे पद्मसम्भवे ॥
विष्णुः सिसृक्षुर्भूतानां ज्ञात्वा भूमिं जलान्तगाम् ॥१॥
जलक्रीडारुचि शुभं कल्पादिषु यथा पुरा ॥
वाराहमास्थितो रूपमुज्जहार वसुन्धराम् ॥२॥
वराहमंदिरम्, खजुराहो
वेदपाद्यूपदंष्ट्रश्च चतुर्वक्त्रश्चतुर्मुखः ॥
वराह मूर्ति, खजुराहो
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥३॥
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥४॥
धर्मः सत्यमहाः श्रीमान्कर्मविक्रमसत्कृतः ॥
प्रायश्चित्तमयो धीरः प्रांशुजानुर्महायशाः ॥
उद्गात्रंत्रो होमलिङ्गः फलबीजमहौषधिः ॥५॥
वाय्वन्तरात्मा मन्त्रास्थिर्विकृतः सोमशोणितः ॥
वेदस्कंधो हविर्गन्धो हव्यकव्यातिवेगवान् ॥६॥
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥
दक्षिणाहृदयो योगी महाक्रतुमयो महान् ॥७॥
उपाकर्मेष्टिरुचिरः प्रवर्ग्यावर्तभूषणः॥
मायापत्नीसहायो वै महाशृंङ्ग इवोदिताम् ॥६॥
महीं सागर पर्यन्तां सशैलवनकाननाम् ॥
एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥९॥
दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ॥
आदिदेवो महायोगी चकार जगतीं पुनः ॥१०॥
एवं ज्ञात्वा वराहेण भूत्वा भूतहितार्थिना ॥
उद्धृता पृथिवी देवी जलमध्यगता पुरा ॥११॥
उद्धृत्य भूमिं स विभुर्महात्मा वराहरूपेण जलान्तरस्थाम् ॥
चक्रे विभागं जगतस्तदीशो यथायथा तच्छृणु राजसिंह ॥१२॥
इति श्रीविष्णुधर्मोऽत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वराहप्रादुर्भावो नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP