संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
चत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - चत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
एतस्मिन्नेव काले तु साल्वस्य च महात्मनः ॥
शीर्षमात्रावशिष्टस्तु ददृशे चाग्रजस्य च ॥१॥
राहुरित्येव विख्यातः पूजयामास तं नृपः ॥
यथार्हं पूजितो राज्ञा निषण्णो वाक्यमब्रवीत् ॥२॥
राहुरुवाच॥
न हि मे रोचते वैरं विष्णुना प्रभविष्णुना॥
यस्य क्रोधादनङ्गोहं जातः परबलार्दनः ॥३॥
प्रसादाच्च तथा यस्य ग्रहत्वमुपलब्धवान् ॥
किमन्यैः कीर्तितैस्तस्य कर्मभिस्तेऽसुरात्मज ॥४॥
साल्व उवाच ॥
भगवञ्छ्रोतुमिच्छामि कथं तेन महात्मना ॥
अनंगस्त्वं कृतो वीर ग्रहेशश्च कथं कृतः ॥५॥
राहुरुवाच ॥
अमरत्वमभीप्संतः पुरा देवा सवासवाः
केशवं शरणं गताः ॥६॥
देवा ऊचुः ॥
भगवन् देवदेवेश जगतामार्तिनाशन ॥
निर्विशेषा वयं मर्त्यैस्त्राता तत्रास्तु नो भवान् ॥७॥
श्रीभगवानुवाच ॥
क्षीरोदमथने यत्नं त्रिदशाः कर्तुमर्हथ ॥
दानवैः सहिता भूत्वा ततः श्रेयोऽप्यवाप्स्यथ ॥८॥
राहुरुवाच ॥
एवमुक्ताः सुराः सर्वे देवदेवेन शार्ङ्गिणा ॥
दानवैः सहिता भूत्वा ममन्थुर्वरुणालयम् ॥९॥
साहाय्यमकरोत्तेषां तत्र कर्मणि पार्थिव ॥
विना विष्णुसहायेन न शक्ताः ससुरासुराः ॥१०॥
अनन्तः स ततो भूत्वा चांशः संकर्षणस्य च ॥
उत्पाट्य मंदिरं दोर्भ्यां चिक्षेप पयसां निधौ ॥११॥
अकूपारे ततो भूत्वा कूर्मरूपी जनार्दनः ॥
मन्दरं धारयामास क्षीराब्धिगतमञ्जसा ॥१२॥
स्वनैव तेजसा नागं तथा संयोज्य वासुकिम् ॥
चक्रे स नेत्रतां तत्र तत्र कर्मणि दानव ॥१३॥
ततो ममन्थुः सहसा समुद्रं देवदानवाः ॥
यतो मुखं ततो दैत्या यतः पुच्छं ततः सुराः ॥१४॥
वासुकेरभवद्दैत्या मथ्यमाने महोदधौ ॥
मुखश्च नागराजस्य करेण धृतवान्स्वयम् ॥१५॥
आकाशाभिमुखं कृत्वा देवदेवो जनार्दनः ॥
मुखे निःश्वासवातेन सविषेण हि भूपते ॥१६॥
अन्यथा दैत्यसंघानां विनाशमभविष्यत ॥
हिमाचलाभाः काल्लोलाः क्षीराब्धेर्गगनस्पृशः ॥१७॥
उत्पेतुर्मथ्यमानस्य बलिभिदेवदानवैः ॥१८॥
शृङ्गाणि निपतन्ति स्म मन्दरस्य महोदधौ ॥
रत्नचित्राणि रम्याणि शतशोऽथ सहस्रशः ॥१९॥
द्रुमाश्च शतशः पेतुर्मृगाः पेतुः सहस्रशः ॥
त्रैलोक्यं पूरयन्नादै ररास पयसां निधिः ॥२०॥
क्षीरकल्लोलवसनः श्वेतमेघकृतांशुकः ॥
राजते मन्दराद्रिस्स नानाधातुविभूषितः ॥२१॥
चलन्मेघांशुको घूर्णन्नत्यर्थं वायुपूरितैः ॥
गुहामुखैः सप्रणतं गिरिर्मत्तैरिवार्णवः ॥२२॥
निर्झराश्रुर्महानादः शृङ्गोच्छ्रितमहाभुजः ॥
अनिशं स गिरिश्रेष्ठः स्थानहान्येव रोदिति ॥२३॥
देवोपभोग्यान्सकलान्महान्त इति चिन्तयन् ॥
वाद्यत्सु देववाद्येषु नृत्यतीव स मन्दरः ॥२४॥
एवं हि मथ्यमानस्य क्षीराब्धेः सुमहात्मनः ॥
प्रादुर्भूतं विषं घोरं कालानलसमप्रभम् ॥२५॥
येन प्रोद्भूतमात्रेण विषण्णा देवदानवाः ॥
तत्पपौ भगवाञ्छंभुस्त्रैलोक्यहितकाम्यया ॥२६॥
विषे कण्ठमनुप्राप्ते नीलकण्ठत्वमागतः ॥
धारयामास तत्कण्ठे शोभार्थं सुरवारितः ॥२७॥
ततश्चन्द्रकला जाता त्रैलोक्यस्यैव सुन्दरी ॥
जटाजूटेन तां चक्रे देवदेवो महेश्वरः ॥२८॥
रश्मिज्वालावलीपुञ्जविभासितजगत्त्रयम् ॥
वैडूर्यकौस्तुभं जातं यं बभार हृदा हरिः ॥२९॥
वातरंहो महाकायः शशाङ्कसदृशच्छविः ॥
उच्चैश्रवाहयो जातस्स च देवानुपाश्रितः ॥३०॥
ततः सुरा समुत्पन्ना सा च पीता महासुरैः ॥
ततस्त्वप्सरसो जाता देवरामा मनोरमाः ॥३१॥
देवी लक्ष्मीस्ततो जाता रूपेणाऽप्रतिमा शुभा॥३२॥
यस्याः शुभौ तामरसप्रकाशौ पादाम्बुजौ स्पृष्टतलाङ्गुलीकौ ॥
जङ्घे शुभे रोमविवर्जिते च गूढास्थिकं जानुयुगं सुरम्यम् ॥३३॥
सुवर्णदण्डप्रतिमौ तथोरू चाभोग्यरम्यं जघनं घनं च ॥
मध्यं सुवृत्तं कुलिशोदराभं वलित्रयं चारु शुभं दधानम् ॥३४॥
उत्तुङ्गमाभोगि समं विशालं स्तनद्वयं चारुसुवर्णवर्णम् ॥
बाहू सुवृत्तावतिकोमलौ च करद्वयं पद्मदलाग्रकान्ति ॥३५॥
कण्ठञ्च शङ्खाग्रनिभं सुरम्यं पृष्ठं समं चारु सिराविहीनम् ॥
कर्णौ शुभौ चारुशुभप्रमाणौ सम्पूर्णचन्द्रप्रतिमञ्च वक्त्रम् ॥३६॥
कुन्देन्दुतुल्या दशनास्तथोष्ठौ प्रवालकानां प्रतिपक्षभूतौ ॥
स्पष्टा च नासा चिबुकं च रम्यं कपोलयुग्मं शशितुल्यकान्ति ॥३७॥
उन्निद्रनीलोत्पलसन्निकाशं त्रिवर्णमाकर्णिकमक्षियुग्मम् ॥
शिरोरुहाः कुञ्चितनीलदीर्घा वीणेव वाणी मधुरा शुभा च ॥३८॥
वस्त्रे सुसूक्ष्मे विमले दधाना चन्द्रांशुतुल्येऽतिमनोभिरामे ॥
श्रोत्रद्वयेनाप्यथ कुण्डले च संतानकानां शिरसा च मालाम् ॥३९॥
गङ्गाप्रवाहप्रतिमञ्च हारं कण्ठेन शुभ्रं दधती सुवृत्तम् ॥
तथाङ्गदौ रत्नसहस्रचित्रौ हंसस्वनौ चाऽप्यथ नूपूरौ च ॥४०॥
करेण पद्मं भ्रमरोपगीतं वैडूर्यनालञ्च शुभं गृहीत्वा ॥
स्वरूपमूढेषु सुरासुरेषु दृष्टिं ददौ चारुमनोभिरामा ॥४१॥
सा देवसंघानसुरांश्च दृष्ट्वा ददर्श देवं जगतां प्रधानम् ॥
देवासुरेभ्यस्त्वतिरिक्तरूपं सूर्यायुताभं भुवनेष्वजेयम् ॥४२॥
उन्निद्रनीलनलिनद्युतिचारुवर्णं संतप्तहाटकनिभे वसने वसानम् ॥
दृष्ट्वैव जातपुलकोद्गममात्रकम्पा क्षीराब्धिजा मदनबाणवशं जगाम ॥४३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे समुद्रमथने लक्ष्मीसमुद्भवो नाम चत्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP