संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६६

खण्डः १ - अध्यायः ०६६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
कैलासशिखरे रम्ये रामस्य रमतस्तदा॥
आजगाम हरं द्रष्टुं देवदेवः पुरन्दरः ॥१॥
स समासाद्य देवेशं प्रणम्य वृषभध्वजम्॥
उवाच वचनं सम्यङ्मुदा रामस्य सन्निधौ ॥२॥
शक्र उवाच॥
त्वत्प्रसादेन देवेश मया प्राप्तं त्रिविष्टपम्॥
रामेण घातिताः सर्वे यथा मे देवशत्रवः ॥३॥
अवध्यास्त्रिदशानां ये वरदानबलोद्धताः॥
नरवध्याः कृतास्ते हि ब्रह्मणा सुमहात्मना ॥४॥
पातालनिलया देव अवध्या देवतागणैः॥
बाधन्ते नरवध्या मे लोकानां च जगत्पते ॥५॥
तांश्च घातय देवेश रामेणाक्लिष्टकर्मणा॥
मार्कण्डेय उवाच॥
एवं करिष्यतीत्युक्त्वा विसृज्य त्रिदशेश्वरम् ॥६॥
उवाच वचनं रामं भार्गवं पुरतः स्थितम्॥
शङ्कर उवाच॥
गच्छ भार्गव पातालं पातालनिलयाञ्जहि ॥७॥
शक्रशत्रून्दुराचारान्नरवध्यान्महासुरान्॥
वैष्णवं चापरत्नं ते मया न्यस्तं पितुः करे ॥८॥
तदादाय शरैस्तीक्ष्णैर्जहि तान्राम दानवान्॥
अक्षयं तूणमादाय शरपूर्णमिदं तथा ॥९॥
मार्कण्डेय उवाच॥
एवमुक्त्वा ददौ चास्य तूणमक्षयसायकम्॥
दत्त्वा च भगवानाह रामं परबलार्दनम् ॥१०॥
शङ्कर उवाच॥
तूणमेतत्प्रदातव्यं त्वयागस्त्याय भार्गव॥
चापरत्नं च रामाय कृते कर्मणि सुव्रत ॥११॥
अगस्त्योऽपि महातेजास्तूणमक्षयसायकम्॥
राघवायातियशसे रामायैव प्रदास्यति ॥१२॥
रामसंदर्शनादूर्ध्वं मा कृथाः शस्त्रधारणम्॥
रामसंदर्शने राम तव तेजो हि वैष्णवम् ॥१३॥
रामं प्रवेक्ष्यति तदा सुरकार्यार्थमूर्जितम्॥
यावत्त्वं तेजसा युक्तो वैष्णवेन परंतप ॥१४॥
तावच्छत्रुगणान्सर्वान्समरेषु विजेष्यसि॥
स्थातुं न शक्तास्तव दैत्यसेना अस्तायुधस्य प्रमुखे द्विजेन्द्र॥
आदाय चापं युधि वैष्णवं तत्तूणं तथेमं जहि देवशत्रून् ॥१९॥
इति श्रीविष्णुधर्मोत्तरे मा० सं० प्रथमखण्डे रामं प्रति शङ्करानुशासने षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP