संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३२

खण्डः ३ - अध्यायः ३३२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
शीलाढ्ये कुलजे शक्तः निक्षेपे निक्षिपेद्बुधः॥
याच्यमानं तथैवासौ तस्य तद्दातुमर्हति ॥१॥
याचते यश्च निक्षिप्य निक्षिप्तं न प्रयच्छति॥
तावुभौ चौरवच्छास्यौ धर्म्मज्ञेन महीक्षिता ॥२॥
निक्षेपोपनिधी चैव न देयौ प्रत्यनन्तरे॥
नश्येते वनिपातेतावनिपाते त्वनाशिना ॥३॥
यस्य हस्ते विनिक्षिप्तं तस्य हस्ते तथा विना॥
नष्टं तु यदि निक्षिप्तं नासौ दद्यात्कथञ्चन ॥४॥
निक्षेपभोगी दण्ड्यः स्याद्भोगमूल्यन्तु षड्गुणम्॥
एष एव विधिर्दृष्टो याचितान्वाहितेषु च॥
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥५॥
प्रतिगृह्णाति यो गण्डं यश्च स प्रधने नरः॥
तस्याप्येष भवेद्धर्म्मः षडेते निधनाः स्मृताः ॥६॥
निक्षेपरक्षा पुरुषेण कार्या यत्नेन विप्रप्रवरास्सदैव॥
निक्षेपहर्त्ता नरकं प्रयाति कल्पावशेषं निहितस्तु सर्वैः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु निक्षेपरक्षावर्णनो नाम द्वात्रिंशदधिकत्रिशत तमोऽध्यायः ॥३३२॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP