संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७६

खण्डः ३ - अध्यायः १७६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
क्रतुर्दक्षो रिपुः सत्यः कालकामौ ध्वनिस्तथा॥
कुलवान्मनुजो विश्वो रोचमानश्च ते दश ॥१॥
विश्वेदेवा समाख्याता दशात्मा केशवो विभुः॥
तस्य संपूजनं कार्यं सितपक्षे नराधिप ॥२॥
आरभ्य कार्तिकान्मासाद्दशम्यां नृपपुङ्गव॥
मण्डलेषु च मुख्येषु यदि वार्चासु यादव ॥३॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
व्रतान्ते कनकं दद्याद्यथाशक्ति द्विजातये ॥४॥
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां सुचिरं च लोकान्॥
तत्रोष्य लोके पुरुषत्वमेत्य राजा भवेद्ब्राह्मणपुङ्गवो वा ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विश्वेदेवदशमीपूजावर्णनो नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥१७६॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP