संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२८

खण्डः ३ - अध्यायः २२८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥१॥
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः॥
अभिगम्य गुरोः कुर्यात्प्रयतस्त्वभिवादनम् ॥२॥
अनुज्ञातस्तु गुरुणा ततोध्ययनमाचरेत्॥
भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥३॥
गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया॥
हितप्रिये गुरोः कार्ये भक्त्याहङ्कारवर्जितः ॥४॥
मधुमांसाञ्जनं श्राद्धं नृत्तं गीतं च साहसम्॥
हिंसा परापवादं च मण्डनं च विवर्जयेत् ॥५॥
मेखलामजिनं दण्डं धारयेत्प्रयतः सदा॥
विनष्टान्यप्सु विक्षिप्य तथान्यानपि धारयेत् ॥६॥
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः॥
एवं व्रतस्तु कुर्वीत वेदस्वीकरणं बुधः ॥७॥
गुरवे वचनं दत्त्वा स्नायाच्च तदनुज्ञया॥
आशरीरविमोक्षाद्वा वसद्गुरुकुले द्विजाः ॥८॥
एवं व्रतान्ते गुरुवे च दत्त्वा वरं यथावत्परिपूर्णविद्यः।
गृहाश्रमी स्याद्विधिवद्दिजेन्द्रो यात्रास्यलोकद्वितीयं प्रदिष्टम् ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतायां ब्रह्मचारिव्रतवर्णनो नामाष्टाविंशदुत्तरद्विशततमोऽध्यायः ॥२२८॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP