संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७८

खण्डः ३ - अध्यायः १७८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शुक्लपक्षे दशम्यां तु सोपवासस्तथा नरः॥
मार्गशीर्षादथारभ्य नित्यमेतदरिन्दम ॥१॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
घृतेन जुहुयाद्वह्निं ब्राह्मणाँश्चात्र च पूजयेत् ॥२।
व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम्॥
व्रतमेतद्विनिर्दिष्टमश्वमेधफलप्रदम् ॥३॥
कृष्णपक्षे तथाप्येतत्कृत्वा संवत्सरं व्रतम्॥
राजसूयमवाप्नोति फलमुद्धरति स्वकम् ॥४॥
कृत्वा पक्षद्वयेप्येतद्व्रतं मनुजसत्तम॥
राजसूयाश्वमेधानां फलं प्राप्नोत्यसंशयम्।५।
स्वर्गलोकमवाप्नोति कुलमुद्धरति स्वकम्॥
धर्मे मतिर्भवेत्तस्य धर्ममाप्नोत्यसंशयम्।६॥
यत्रयत्राभिजायेत तत्र धर्मपरो भवेत्॥
प्रधानं तं तया राजन्यत्र धर्मपरो भवेत् ॥७॥
आरोग्यमायुष्यकरं यशस्यं स्थानप्रदं पापविनाशकारि॥
कर्तव्यमेतत्पुरुषैर्यथावत्पूज्यो हि विष्णुर्भगवान्सधर्मः ॥८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे धर्मव्रतवर्णनो नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥१७८॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP