संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२०

खण्डः ३ - अध्यायः ३२०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
पुण्ययज्ञक्रियाः प्रोक्ता ये नरा धनसंयुताः॥
तथा मध्यमवृत्तानां दानानि विविधानि च ॥१॥
कथितान्यल्पवृत्तानां दानानि विविधानि च॥
ये नरा वित्तरहितास्तेषां धर्मक्रियां वद ॥२॥
हंस उवाच॥
उपवासक्रिया तेषां परमं धर्मकारणम्॥
वित्तान्वितानाञ्च तथा प्रशस्ता सा महाफला ॥३॥
सायं प्रातस्तु भुञ्जानो नान्तरातूदकम्पिबन्॥
षड्भिर्वर्षैर्नरो लोकं प्राप्नोति मनसेप्सितम् ॥४॥
शुभानामुत्तमं चैतद्धन्यं नित्यकृतं भवेत्॥
यथेष्टलोकदं पुण्यं मानुष्येपि महाफलम् ॥५॥
उपवासं नरः कुर्वन्मासिमासि द्विजोत्तमाः॥
उषित्वा सुचिरं लोके मानुष्ये जायते यदा ॥६॥
तदा भवति दीर्घायुर्धनवान्रूपसंयुतः॥
पक्षेपक्षे तथा कुर्वन्द्विगुणं फलमश्नुते ॥७॥
मासेमासे त्रिरात्रन्तु यः कुर्यान्मानवोत्तमः॥
गाणपत्यमवाप्नोति स्वर्गलोकपरिच्युतः ॥८॥
पक्षेपक्षे त्रिरात्रन्तु कृत्वा भवति पार्थिवः॥
स्वर्गलोकात्परिभ्रष्टः सुचिरेण महाबलः ॥९॥
द्विजस्त्रिरात्रं कुर्वीत न तु शूद्रः कथञ्चन॥
षष्ठकालाशनं तस्य तपः परमिहोच्यते ॥१०॥
शूद्रस्त्रिरात्रं कुरुते विषये यस्य भूपतेः॥
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ॥११॥
तपः कुर्वीत शूद्रस्तु चैकद्विदिवसान्तरम्॥
यथाशक्ति द्विजश्रेष्ठास्तेन कामानुपाश्नुते ॥१२॥
अतः परन्तु वर्णानां मासेमासे द्विजोत्तमाः॥
एक कालाशनानान्तु शृणुध्वं फलमुत्तमम् ॥१३॥
चैत्रन्तु नियतो मासं चैकभक्तेन यः क्षिपेत्॥
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥१४॥
निरस्येदेकभक्तेन वैशाखं यो द्विजोत्तमः॥
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥१५॥
ज्येष्ठामूलं तु यो मासमेकभक्तेन वर्तयेत्॥
ऐश्वर्यमतुलं श्रेष्ठं पुमांस्त्री वाभिजायते ॥१६॥
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः॥
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥१७॥
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत्॥
यत्र तत्राभिषेकेन युज्यते ज्ञातिवर्धनः ॥१८॥
प्रोष्ठपादन्तु यो मासं यः कुर्यादेकभोजनम्॥
धनाढ्यः स्फीतमतुलं चैश्वर्यं प्रतिपद्यते ॥१९॥
तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत्॥
मेधावी वाहनाढ्यश्च बहुपुत्रश्च जायते ॥२०॥
कार्तिकन्तु नरो मासं यः कुर्यादेकभोजनम॥
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥२१॥
मागर्शीर्षन्तु वै मासमेकभक्तेन यः क्षिपेत्॥
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥२२॥
पौषमासन्तु विप्रेन्द्रा भक्तेनैकेन यः क्षिपेत्॥
सुभगो दर्शनीयश्च यशोभागी च जायते ॥२३॥
माघन्तु नियतं मासमेकभक्तेन यः क्षिपेत्॥
कृषिभागी बहुधनो धान्यवानभिजायते ॥२४॥
भगदैवन्तु यो मासमेकभक्तेन यः क्षिपेत्॥
श्रीसत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥२५॥
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः॥
यथोक्तफलदाश्चैते वर्षैर्द्वादशभिः स्मृताः ॥२६॥
यस्तु संवत्सरं पूर्णं चैकाहारो भवेत्सदा॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२७॥
तथा संवत्सरं पूर्णमेकान्तरितभोजनः॥
यज्ञं बहुसुवर्णाख्यं ध्रुवमाप्नोति वै द्विजाः ॥२८॥
अब्दमेकं तृतीयेह्नि भुंजानश्च तथा नरः॥
वाजपेयस्य यज्ञस्य कथितं द्विजसत्तमाः ॥२९॥
एककालं तु भुञ्जानस्त्वब्दमेकं तु पञ्चमे॥
स्वर्गे द्वादशपद्मानि वर्षाणां स च मोदते ॥३०॥
षष्ठेषष्ठे तथैवाब्दं त्वश्नानः प्रयतो नरः॥
अष्टादशैव पद्मानि वर्षाणां दिवि मोदते ॥३१॥
दिवसे सप्तमे चाब्दं भुञ्जानस्त्वेकभोजनम्॥
षट्त्रिंशत्स तु पद्मानि वर्षाणां दिवि मोदते ॥३२॥
अष्टमे दिवसे चाब्दं भुञ्जानः प्रयतः सदा॥
पद्मानि नाके पञ्चाशद्वर्षाणां दिवि मोदते ॥३३॥
यस्तु संवत्सरं भुङ्क्ते दशमे दशमेऽहनि॥
कल्पमेकं स विप्रेन्द्र देववद्दिवि मोदते ॥३४॥
एकादशे तु दिवसे यः प्राप्ते प्राप्नुते हविः॥
शतकल्पद्वयं नाके मोदते देववद्दिवि ॥३५॥
दिवसे द्वादशे यस्तु प्राप्ते वै प्राश्नुते हविः॥
त्रीणि कल्पान्यसौ नाके भुङ्क्ते देवसुखान्वितः ॥३६॥
त्रयोदशे तु दिवसे यः प्राप्ते प्राप्नुते हविः॥
तस्य कल्पानि चत्वारि गतिर्नाके प्रकीर्तिता ॥३७॥
चतुर्दशे तु दिवसे यः प्राप्ते प्राप्नुते हविः॥
सप्त तस्य तु कल्पानि गतिर्नाके प्रकीर्तिता ॥३८॥
संवत्सरं तु भुञ्जानो नरः पञ्चदशे हविः॥
नाके वसति धर्मात्मा देशे कल्पान्यसंशयम् ॥३९॥
अब्दमेकं तथाऽश्नानः पक्षे दिनयुतेन यः॥
स तु कल्पशतं विप्रा देववद्दिवि मोदते ॥४०॥
दिने सप्तदशे प्राप्ते यः प्राशेदेकभोजनम्॥
स्वर्गे स मोदते विप्राः पञ्च कल्पशतानि च ॥४१॥
अष्टादशे च दिवसे यः प्राशेदेकभोजनम्॥
नाके कल्पे सहस्रं तु नरः कर्ताभिमोदते ॥४२॥
एकोनविंशे दिवसे यो भुंक्ते चैकभोजनम्॥
स तु कल्पसहस्रन्तु सार्धं नाके च मोदते ॥४३॥
एककालं च भुञ्जानः प्राप्ते विंशतमे दिने॥
कल्पानां तु सहस्रे द्वे नाकस्थः पूज्यते सुरैः ॥४४॥
एकविंशे तु दिवसे यः कुर्यादेकभोजनम्॥
त्रीणि कल्पसहस्राणि तस्य नाके गतिर्भवेत् ॥४५॥
द्वाविंशे दिवसे प्राप्ते यो भुंक्ते चैकभोजनम्॥
चत्वारि स च कल्पानां सहस्रं प्राप्नुयाद्दिवि ॥४६॥
त्रयोविंशे च दिवसे यः प्राशेदेकभोजनम्॥
पञ्च कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥४७॥
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम्॥
सप्त कल्पसहस्राणि नाकस्थः स तु मोदते ॥४८॥
पञ्चविंशत्तमे चाह्नि यः प्राशेदेकभोजनम्॥
दश कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥४९॥
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम्॥
स तु कल्पसहस्राणि चतुर्विंशः नरो भवेत् ॥५०॥
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम्॥
स तु कल्पसहस्राणि नाकस्थोपि च मोदते ॥५१॥
अष्टाविंशे तु दिवसे यः प्राशेदेकभोजनम्॥
स तु कल्पसहस्राणि चत्वारिंशत्सु मोदते ॥५२॥
एकोनविंशे दिवसे यः प्राशेदेकभोजनम्॥
स तु कल्पस्रहस्राणां पञ्चाशन्नाकगो भवेत् ॥५३॥
यस्तु त्रिंशद्दिने प्राप्ते चाश्नीयादेकभोजनम्॥
स तु कल्पसहस्राणां नाकस्थः पूज्यते शतम् ॥५४॥
मासेमासे गते प्रायः प्राश्नीयादेकभोजनम्॥
पौरुषं स दिनं नाके देववन्मोदते सदा ॥५५॥
सर्वे व्रतास्तु कव्याय वर्षमेकं सुखावहाः॥
वर्षे तु फलदाः प्रोक्ता नात्र कार्या विचारणा ॥५६॥
स्नानं सर्वेषु कर्तव्यं कार्यो होमस्तथैव च॥
न भोक्तव्यं तथा मासं व्रतस्य फलमश्नुते ॥५७॥
आश्रित्य तीर्थं यदि वापि देवं व्रतान्यथैतानि महाफलानि॥
कार्याणि नैतान्यधिकास्तु मासास्ततः परं नानशनं प्रदिष्टम् ॥५८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासूपवासविधिवर्णनं नाम विंशत्यधिकत्रिशततमोऽध्यायः ॥३२०॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP