संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८८

खण्डः ३ - अध्यायः १८८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


शुक्लपक्षादथारभ्य फाल्गुनस्य नराधिप॥
पूजयेत्तु चतुर्दश्यां सोपवासो महेश्वरम् ॥१॥
गन्धमाल्यनमस्कार धूपदीपान्नसंपदा॥
व्रतान्ते गां तथा दद्यादग्निष्टोमफलं लभेत् ॥२॥
एतदेव व्रतं कृत्वा शुक्लपक्षे तु वत्सरम्॥
पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ॥३॥
चतुर्दशीद्वयं चैतत्कृत्वा संवत्सरं नरः॥
मासिमासि तथा भक्त्या सर्वान्कामानवाप्नुयात् ॥४॥
आसाद्य कामांश्च महेश्वरस्य तत्रोष्य कालं सुचिरं च राजन्॥
सायुज्यमायाति महेश्वरस्य सर्वेश्वस्याप्रतिमस्य तस्य ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वरव्रतवर्णनो नामाष्टाशीत्युत्तर शततमोऽध्यायः ॥१८८॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP