संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८७

खण्डः ३ - अध्यायः १८७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
यत्र क्वचन नद्यां च यत्र कृष्णचतुदर्शी॥
अनर्काभ्युदिते काले देवं संपूजयेद्यमम् ॥१॥
धूम्रोर्णं चित्रगुप्तं च कालपाशौ च यादव॥
मृत्युं स्वर्गं च धर्मज्ञं गन्धमाल्यान्नसम्पदा ॥२॥
यमो दधार इत्यर्चां तिलाँश्च जुहुयात्ततः॥
नमो यमायेति तथा स्त्रीशूद्रस्य विधीयते ॥३॥
कृसरं भोजनं विप्रान्यथा शक्ति नरोत्तम॥
दद्याद्व्रतान्ते विप्राय तथैव च पयस्विनीम् ॥४॥
कृत्वा व्रतं वत्सरमेतदिष्टं न याति राजन्नरकं मनुष्यः॥
प्राणक्षयं प्राप्य स याति नाकं मानुष्यमासाद्य च धर्मवान्स्यात् ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमव्रतवर्णनो नाम सप्ताशीत्यु त्तरशततमोऽध्यायः ॥१८७॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP