संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६८

खण्डः ३ - अध्यायः ०६८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कंडेय उवाच॥
चन्द्रः श्वेतवपुः कार्यस्तथा श्वेताम्बरः प्रभुः॥
चतुर्बाहुर्महातेजाः सर्वाभरणवांस्तथा ॥१॥
कुमुदौ च सितौ कार्यौ तस्य देवस्य हस्तयोः॥
कान्तिर्मूर्तिमती कार्या तस्य पार्श्वे तु दक्षिणे ॥२॥
वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि॥
चिह्नं तथास्य सिंहांकं वामपार्श्वैकवद्भवेत् ॥३॥
दशाश्वो वा रथः कार्यो द्विचक्रोम्बरसारथी॥
स्रजश्च त्रिमनाश्चैव वृषो वादी नरो हयः ॥४॥
अथो वाक्सप्तधातुश्च हंसो व्योमो मृग स्तथा॥
एते ते वामतः सर्वे दश चन्द्रमसो हयाः ॥५॥
अथ वैवास्य कर्तव्या अष्टविंशतिसङ्ख्यकाः।
अत्यर्थं रूपसंयुक्ताः पत्न्यो नक्षत्रसंज्ञिताः ॥६॥
अशीतिद्व्यधिकाः कार्या भावा वा देहभेदयोः॥
पुरा देवासुरे युद्धे प्राकाम्येन नृपोडुभिः ॥७॥
कृतानि स्वशरीराणि बहूनि यदुन न्दन॥
स्वनाथदेवरूपाणि ततस्ते दानवा हताः ॥८॥
नक्षत्रेण कृतं रूपं यस्य यस्य सुरस्य तु॥
सा चैव देवता तस्य नक्षत्रस्य प्रकीर्तिता ॥९॥
देवासुरे ततो वृत्ते प्राकाम्येनैव यादव॥
स्त्रीरूपधारिणो देवास्तावन्तस्तु ततः कृताः ॥१०॥
सर्वलोकस्य धर्मज्ञ चन्द्रमा वै पिता स्मृतः॥
तन्मिन्सृष्टे जगत्सर्वं परं हर्षमुपैति च ॥११॥
सौम्यमूर्तिः परा ज्ञेया सा च विष्णोर्महात्मनः॥
हर्षप्रसादौ विज्ञेयौ कुमुदौ चन्द्रहस्तयोः ॥१२॥
शोभाकान्ती विनिर्दिष्टे स्वरूपं भृगुनन्दन॥
अपां सारमयत्वाद्धि शुक्लवर्णस्तु चन्द्रमाः ॥१३॥
अपां हि धामामृतमाहुराद्या मवास्तु तच्चन्द्रसमः प्रदिष्टम्॥
सिंहध्वजं धर्ममुशन्ति राजन्दिशस्तुरङ्गाः शशिनः प्रदिष्टाः ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शशिरूपनिरूपणो नामाष्टषष्टितमोऽध्यायः ॥६८॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP