संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०४४

खण्डः ३ - अध्यायः ०४४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
देवतारूपनिर्माणं कथयस्य ममानघ॥
यस्मात्सन्निहिता नित्यं शास्त्रवत्सा कृता भवेत् ॥१॥
मार्कण्डेय उवाच॥
देवतारूपनिर्माणं वदतः शृणु पार्थिव॥
आदावेव प्रवक्ष्यामि त्रिमूर्तेस्तव पार्थिव ॥२॥
विष्णोरमितवीर्यस्य प्रतिमालक्षणं शुभम्॥
ब्राह्मी तु राजसी मृतिस्तस्य सर्वप्रवर्तिनी ॥३॥
सात्त्विकी वैष्णवी ज्ञेया संसारपरिपालिनी॥
तामसी च तथा रौद्री ज्ञेया संहारकारिणी ॥४॥
ब्रह्माणं कारयेद्विद्वान्देवं सौम्यं चतुर्मुखम्॥
बद्धपद्मासनं तोष्यं तथा कृष्णाजिनाम्बरम् ॥५॥
जटाधरं चतुर्बाहुं सप्तहंसे रथे स्थितम्॥
वामे न्यस्तं करतले तस्यैकं दोर्युगं भवेत् ॥६॥
एकस्मिन्दक्षिणे पाणावक्षमाला तथा शुभा॥
कमण्डलुर्द्वितीये च सर्वाभरणधारिणः ॥७॥
सर्वलक्षणयुक्तस्य शान्तरूपस्य पार्थिव॥
पद्मपत्रदलाग्राभं ध्यानसम्मीलितेक्षणम् ॥८॥
अर्चायां कारयेद्देवं चित्रे वा पुस्तकर्मणि॥
देवदेवं तथा विष्णुं कारयेद्गरुडस्थितम् ॥९॥
कौस्तुभोद्भासितोरस्कं सर्वाभरणधारिणम्॥
सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा ॥१०॥
मुखाश्च कायाश्चत्वारो बाहवो द्विगुणास्तथा॥
सौम्यं तु वदनं पूर्वं नारसिंहं तु दक्षिणम् ॥११॥
कापिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम्॥
तस्य दक्षिणहस्तेषु बाणाक्षमुसलादयः ॥१२॥
चर्म चीरं धनुश्चेन्द्रचापेषू वनमालिनः॥
कार्याणि विष्णोर्धर्मज्ञ शृणु रूपं पिनाकिनः ॥१३॥
देवदेवं महादेवं वृषारूढं तु कारयेत्॥
तस्य वकत्राणि कार्याणि पञ्च यादवनन्दन ॥१४॥
सर्वाणि सौम्यरूपाणि दक्षिणं विकटं मुखम्॥
कपालमालिनं भीमं जगत्संहारकारकम् ॥१५॥
त्रिनेत्राणि च सर्वाणि वदनं ह्युत्तरं विना॥
जटाकलापे महति तस्य चन्द्रकला भवेत् ॥१६॥
तस्योपरिष्टाद्वदनं पञ्चमं तु विधीयते॥
यज्ञोपवीतं च तथा वासुकिं तस्य कारयेत् ॥१७॥
दशबाहुस्तथा कार्यो देवदेवो महेश्वरः॥
अक्षमालां त्रिशूलं च शरदण्डमथोत्पलम् ॥१८॥
तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज॥
वामेषु मातुलिङ्गं च चापादर्शौ कमण्डलुम् ॥१९॥
तथा चर्म च कर्तव्यं देवदेवस्य शूलिनः॥
वर्णास्तथा च कर्तव्याश्चन्द्रांशुसदृशप्रभाः ॥२०॥
एतत्त्रिमूर्तेस्तव रूपमुक्तं माहानुभावस्य जनार्दनस्य॥
पद्मस्वरूपं तव वच्मि राजन्यत्रार्चनं कार्यमथेश्वराणाम् ॥२१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० त्रिमूर्तिनिर्माणन्नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP