संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२०

खण्डः ३ - अध्यायः २२०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुलस्त्य उवाच॥
पौषमासे सिते पक्षे द्वादश्यां शक्रदैवतम्॥
नक्षत्रयोगं विष्णुं च प्रथमं तु समर्चयेत् ॥१॥
ततः प्रभृति विप्रेन्द्र मासिमासि जनार्दनम्॥
उपोषितः पूजयते यावत्संवत्सरं गतम् ॥२॥
मासेथ मासे विधिनोदितेन रम्यां तिथौ दानमथ ब्रवीमि॥
प्राच्यं यथावद्विधिवत्क्रमेण तदुच्यमानं निखिलं निबोध ॥३॥
घृतं यथा व्रीहियवं हिरण्यं यवान्नमंभः कनकानुपानम्॥
छत्रं पयोन्नं गुडफाणिताढ्यं स्रक्चन्दने वस्त्रमनुक्रमेण ॥४॥
गोमूत्रमंभो घृतमांसशाकं दूर्वादधिव्रीहियवं तिलांश्च॥
सूर्यांशुतप्तं जलमाशु दर्भं क्षीरं च मासं क्रमशः प्रयुञ्ज्यात ॥५॥
कुले प्रधाने धनधान्यपूर्णं विवेकवान्यस्तु समस्तदुःखे॥
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दाल्भ्यं प्रति पुलस्त्यवाक्येषु ब्रह्मद्वादशीव्रतवर्णनो नाम विंशत्युत्तरद्विशततमोऽध्यायः ॥२२०॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP