संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२५

खण्डः ३ - अध्यायः ०२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
क्षान्ता भयानका हास्या करुणा ह्यद्भुता तथा॥
रौद्रा वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥१॥
स्निग्धा हृष्टा च जिह्मा च क्रुद्धा भीता च लज्जिता॥
तृप्ताथ विस्मिता सौम्या स्थायिभावेषु दृष्टयः ॥२॥
मलिना केकरा श्रान्ता चाभितप्ताथ विप्लुता ॥३॥
विषण्णा शङ्किता चैव त्रस्ता शोका निमीलिता॥
विभ्रान्ता कुञ्चिता शून्या मुक्तला च वितर्किता॥
मदिरा ललिता म्लाना इत्येवं दृष्टिसंग्रहः ॥४॥
षड्त्रिंशद्दृष्टयो ह्येता नामतोऽभिहिता मया॥
सभ्रूक्षेपकटाक्षा तु कान्ता ज्ञेया समञ्जसी ॥५॥
उदवृत्तपुटपक्ष्माग्रा चलत्तारा भयानका॥
किञ्चिदाकुञ्चितपुटा हास्यविभ्रान्ततारका ॥६॥
पतितोर्ध्वपुटा सास्रा करुणा नष्टतारका॥
किञ्चित्कुञ्चितपक्ष्माग्रा किञ्चिदुद्वृत्ततारका ॥७॥
समा विकसिता चैव साद्भुता दृष्टिरिष्यते॥
उद्भूता कथिता रौद्रा भ्रुकुटी कुटिला तथा ॥८॥
उत्फुल्लमध्या वीरा तु कथिता समतारका॥
बीभत्सा कथिता दृष्टिरपाङ्गाक्षिप्ततारका ॥९॥
ध्यानादनिमिषा शान्ता ह्यधोमार्गविचारिणी॥
व्याकोशमध्या मधुरा स्निग्धा प्रहसिता मता ॥१०॥
उत्फुल्लमध्या प्रचला हृष्टा पर्यन्तवीक्षिणी॥
जिह्माधोगततारा च गूढा मग्ना निरीक्षिणी ॥११॥
भ्रुकुटीकुटिला क्रुद्धा तथा निष्टब्धतारका॥
आकुंचिता लज्जिता स्यात्तथा निश्चलतारका ॥१२॥
सत्त्वमद्भिरतीवेष्टा दृप्ता विकसिता भवेत॥
समा विकसितापाङ्गा विस्मिता सा निगद्यते ॥१३॥
समा सौम्या विनिर्दिष्टा तथा च समतारका॥
आकुञ्चितपुटा भीता रूक्षा व्यावृत्ततारका ॥१४॥
पुटौ प्रस्फुरितौ यस्या मलिना सा निगद्यते॥
आकुञ्चितपुटा या तु दृष्टिराकेकरा भवेत् ॥१५॥
किञ्चिदुन्नामितपुटा शान्ता सा तु विधीयते॥
अभितप्ता तथा मन्दा मन्दतारापुटा तु या ॥१६॥
विप्लुताविप्लुता प्रोक्ता स्रस्ता विस्फुरिता च या॥
किञ्चिन्निष्टब्धतारा तु विषण्णा दृष्टिरुच्यते ॥१७॥
अनवस्थिततारा च शङ्किता परिकीर्तिता॥
रूक्षा ललित तारा च प्रताख्या सभया भवेत् ॥१८॥
उत्फुल्ला तु विशोकाख्या तथा च निमिषेक्षणा॥
अनवस्थितनेत्रा च विभ्रान्ता भ्रान्ततारका ॥१९॥
कुंचिता कुंचिता दृष्टिः किञ्चिदञ्चिततारका॥
स्थिततारापुटा शून्या संक्षुब्धा समदर्शना ॥२०॥
प्रस्पन्दमानपक्ष्याग्रा मुकुला मुक्तला भवेत्॥
उद्वृत्तपुटपक्ष्मा तु वितर्का स्तब्धतारका ॥२१॥
उत्फुल्ला मदिरा नाम तथा वलिततारका॥
फुल्लितान्ता सलावण्या सस्मिता ललिता मता ॥२२॥
प्रलूनपक्ष्मा सा साग्रा ग्लानाख्या मुकुलीकृता॥
कान्ता दृष्टिः कटाक्षे तु घातने तु भयानका ॥२३॥
हास्या हास्ये च विज्ञेया करुणा करुणे रसे॥
स्वद्भुते चाद्भुता कार्या रौद्री रौद्रे विधीयते ॥२४॥
वीरा वीरे च कर्तव्या बीभत्सा च जुगुप्सिते॥
शान्ता शान्ते तु निर्दिष्टा स्निग्धा स्निग्धावलोकने ॥२५॥
हृष्टा हृष्टे तु कर्तव्या जिह्मा कार्याभ्यसूयिते॥
क्रुद्धा क्रुद्धे तु निर्दिष्टा भीता भीते तथा भवेत् ॥२६॥
लज्जिता लज्जिताख्या स्याद्दृप्तोत्साहगतेषु च॥
विस्मिता विस्मये दृष्टिः सौम्या सौम्यावलोकने ॥२७॥
मलिना विरहे कार्या सम्भोगे केकरा भवेत्॥
श्रान्ता श्रान्तस्य कर्तव्या निर्वेदे त्वभितप्तका ॥२८॥
विप्लुताख्या तु दैन्ये स्याद्विषादे तु विषण्णिका॥
शंकिते शंकिता चैव त्रस्ते त्रस्ता विधीयते ॥२९॥
ज्ञाने विशोका च तथा स्पर्शे कार्या निमीलिता॥
विभ्रान्ता विभ्रमे कार्या कुंचिता सूक्ष्मदर्शने। ॥३०॥
चिन्तान्वितस्य शून्या स्यान्मुक्तला घ्राणकर्मणि॥
वितर्के तु वितर्का स्यान्मदे तु मदिरा भवेत् ॥३१॥
स्त्रीणां हेलासु ललिता ग्लाने ग्लाना विधीयते॥
उत्सेधश्च निमेषश्च प्रसारितविवर्तिते ॥३२॥
आकुञ्चितं समं चैव स्फुरितं विहतं ततः॥
ताडितं पुटयोः कर्म नवधा परिकीर्तितम् ॥३३॥
समागमः पुटानां यः स निमेष इति स्मृतः॥
विश्लेषश्चैव यस्ताभ्यां स उन्मेषः प्रकीर्तितः ॥३४॥
प्रसारितौ पुटौ यत्र भवेत्तद्धि विवर्तितम्॥
आकुञ्चिताभ्यां ताभ्यां तु ज्ञेयमाकुञ्चितं बुधैः ॥३५॥
स्वभावपुटसंस्थानं समं तद्धि प्रकीर्तितम्॥
पुटौ प्रस्फुरितौ यत्र स्फुरितं तदिहोच्यते ॥३६॥
पुटावभिहितौ यत्र पिहितं नाम तद्भवेत्॥
स्रस्तमूलौ पुटौ यत्र तद्धि ताडितमुच्यते ॥३७॥
गन्धस्पर्शे तथानिष्टे ज्ञेयमाकुञ्चितं बुधैः॥
विस्मयार्थे तथा वीरे तच्च कार्यं प्रसाधितम् ॥३८॥
शृङ्गारे तु समं कार्यमभिघातेऽवताडितम्॥
स्त्रीणां प्रणयरोषेषु स्फुरितं तदिहेष्यते ॥३९॥
शीते वातोष्णवर्षेषु विहितं कार्यमेव तु॥
क्रोधे विवर्तितं कार्यं निमेषोन्मेषयोः समम् ॥४०॥
वलनं भ्रमणं चैव चलनं संप्रणाशनम्॥
विवर्तितं पाटनं तु विज्ञेयं विस्मितं तथा ॥४१॥
उद्वर्तः प्राकृतं चैव तारकाकर्म चेष्यते॥
मण्डलावर्तनं मध्ये पुटयोर्भ्रमणं स्मृतम् ॥४२॥
वलनं गमनं तिर्यग्वलनाच्चलितं भवेत्॥
आभ्यन्तरत आकर्षः प्रवेशात्संप्रवेशनम् ॥४३॥
तथा चापाङ्गसंचारादुद्धर्षितमुदाहृतम्॥
पातनं स्रस्तभावश्च निष्कामान्निष्क्रमं तथा ॥४४॥
उद्वर्तनात्परावृत्तिः प्राकृतं तु स्वभावतः॥
हास्ये तु वलनं कार्यं मदे भ्रमणमेव च ॥४५॥
वीरे रसे स्याच्चलनं बीभत्से संप्रवेशनम्॥
विवर्तितं तु शृङ्गारे पातनं करुणे रसे ॥४६॥
भयानके निष्क्रमणं वीरे चोद्वर्तनं तथा॥
प्राकृतं शेषभावे तु यथायोगं प्रयोजयेत् ॥४७॥
समं साचीकृतं च स्यादनुवृत्तमतः परम्॥
आलोकितं चाल्लोकितमवलोकितमेव च ॥४८॥
समतारं च सौम्यं च दृष्टिकर्म समं भवेत॥
पक्ष्मान्तर्गततारं च साचीकृतमिहोच्यते ॥४९॥
रूपनिर्वर्तनायुक्तमनुवृत्तमिति स्मृतम्॥
सहसा दर्शनं यत्स्यात्तदालोकितमिष्यते ॥५०॥
ऊर्ध्वमुल्लोकितं ज्ञेयं सर्वतो लोकितं तथा॥
विलोकितं तु पार्श्वाभ्यां पृष्ठतश्चावलोकितम् ॥५१॥
दृष्टीनामनुगं चैव भ्रुवो कर्म प्रयोजयेत्॥
यथा नेत्रं प्रसर्पेद्धि नानाभावरसाश्रयम् ॥५२॥
नेत्रस्यानुक्रमेणैव भ्रुवोस्तु चलनं भवेत्॥
उत्क्षेपः पतनं चैव भ्रुकुटीचतुरं तथा ॥५३॥
निकुञ्चितं कुञ्चितं च तथा स्वाभाविकं भवेत्॥
भ्रुवोरुद्गममुत्क्षेपः पातनं पतनं भवेत् ॥५४॥
द्वयोर्मूलोर्धविक्षेपाद्भ्रुकुटी परिकीर्तिता॥
चतुरः किञ्चिदुच्छ्वासान्मधुरायतया भ्रुवा ॥५५॥
एकस्या उभयोर्वापि स्यादुद्भग्नं त्रिकुञ्चितम्॥
एकस्या ललितोद्योगाद्रेचितं नाम कीर्तितम् ॥५६॥
यथास्थिते स्वभावस्थे भ्रुवोः कर्म निबोध मे॥
समुत्क्षेपस्तु लीलायाः कारुण्यात्पातनं भवेत् ॥५७॥
क्रोधे च भ्रुकुटी ज्ञेया शृङ्गारचतुरं तथा॥
क्षामं कृशं तु विज्ञेयं फुल्लं विकसितं भवेत् ॥५८॥
सम्पूर्णं पूर्णमित्युक्तं कम्पितं परिधूनितम्॥
शृङ्गभिन्नं कुञ्चितकं सरोमाञ्चं तथाविधम् ॥५९॥
प्राक्कृतं तु स्वभावस्थं मन्दं प्रोक्तं मनीषिभिः॥
क्षामं दुःखे तु कर्तव्यं फुल्लं हर्षे प्रयोजयेत् ॥६०॥
पूर्णं तुष्टे तु कर्तव्यं तथा रोषे च कम्पितम्॥
हास्ये त्वाकुञ्चितं स्पर्शे सरोमाञ्चं विधीयते ॥६१॥
प्राकृतं तु स्वभावस्थं त्वर्थयोगेन योजयेत्॥
नता मन्दा विकृष्टा च सोच्छ्वासा कूणितानता ॥६२॥
स्वाभाविके च कर्तव्या प्रयोगे नासिका बुधैः॥
नतानता तु विज्ञेया मन्दा नतपुटा भवेत् ॥६३॥
विकृष्टा कुञ्चिता चोर्ध्वं सोच्छ्वासा वायुपूरिता॥
संकूणनात्कूणिता स्यात्स्वभावस्था स्वनासिका ॥६४॥
नता तु रुचिते कार्या मन्दा शोके विधीयते॥
तीव्रगन्धे विकृष्टा तु सोच्छ्वासा तु तथा प्रिये ॥६५॥
विकूणिता जुगुप्सायां शेषा स्वाभाविकी मता॥
कूणनं खण्डनं छिन्नं मुकितं समता तथा । ६६॥
जिह्वाधरोष्ठमदं च दन्तकर्मणि कारयेत॥
कुट्टनं भक्तवच्छेदं खण्डनं तु विघट्टनम् ॥६७॥
छिन्नं निकृतमेव स्याच्छुक्क्तिं विद्धमेव च॥
व्याधौ तु कुट्टनं कार्यमुत्साहे खण्डनं भवेत् ॥६८॥
छिन्नं क्रोधे परं हास्ये समं शेषेषु कारयेत्॥
विवर्तनं तथा कम्पो विमर्शोऽथ विगूहनम् ॥६९॥
संदृष्टश्च समुद्रश्च कर्माण्यधरजानि च॥
सृक्का सुवक्रकरणं विवर्तितमिति स्मृतम् ॥७०॥
वेपनं चापि विज्ञेयमधरस्य तु कम्पने॥
यो निष्क्रमोऽधरस्याथ स विसर्ग इति स्मृतः ॥७१॥
अन्तःप्रवेशनं चैव विनिगूहितमुच्यते॥
दन्तोष्ठपीडनाच्चैव संदष्टकमिति स्मृतम् ॥७२॥
पिण्डिताभ्युद्गतश्चैव समुद्गक इति स्मृतः॥
विवर्तितमसूयायां रोषे कम्पितमिष्यते॥
भयानके विसर्गश्च कर्षणेऽथ निगूहनम् ॥७३॥
ततोन्मादविकारेषु सन्दष्टं वीररौद्रयोः॥
समुद्गमनकम्पायां शेषे कार्यं स्वभावजम् ॥७४॥
उपाङ्गकर्माभिहितं तथैतं मया समासेन नरेन्द्रचन्द्र॥
कार्यः प्रयत्नोऽत्र सदा बुधेन यस्मादुपाङ्गाश्रयमेव नृत्यम् ॥७५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे उपाङ्गिकवर्णनो नाम पञ्चविंशतितमोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP