संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९०

खण्डः ३ - अध्यायः २९०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम्॥
ब्राह्मणेभ्यः परं नास्ति भूतं किंञ्चिज्जगत्त्रये ॥१॥
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम्॥
ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः ॥२॥
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः॥
ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्यतमाः सदा ॥३॥
एषामश्नन्ति वक्त्रेण देवताः पितरस्तथा॥
ऋषयश्च महाभागाः किम्भूतमधिकं ततः ॥४॥
यदेव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति॥
तदेवाप्नोति धर्मज्ञा बहु जन्मनिजन्मनि ॥५॥
तालवृन्तानिलेनैवं श्रान्तसंवाहनेन च॥
उन्मार्जनेन गात्राणां तथाप्यञ्जनकर्मणा ॥६॥
पादशौचप्रदानेन पादयोः शौचनेन च॥
परिचर्यया यथाकाममेकेनैव द्विजोत्तमाः ॥७॥
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति॥
ब्राह्मणाज्ञां शुभां कृत्वा नाकलोके महीयते ॥८॥
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ब्राह्मणशुश्रूषा नाम नवत्यधिकद्विशततमोऽध्यायः ॥२९०॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP