संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०३२

खण्डः ३ - अध्यायः ०३२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


श्रीमार्कण्डेय उवाच॥
अथातो मुद्राहस्तान् व्याख्यास्यामः॥
वासस्य प्रसारिताङ्गुष्ठस्योपरि यदा कुब्जतर्जनी भवति तदोङ्कारः॥
करमध्य गतासु सर्वास्वंगुलीषु क्रमात्कुब्जीकृतास्वङ्गुष्ठाद्यासु अ इ उ ए ओ प्रसारितासु अ इ उ ऊ ऐ ओ अं मुकुलः अः मुकुलविशेषः अङ्गुष्ठमूलगतया परहस्ततर्जन्या क्रमात्कवर्गः।
सर्वाधःपरं रेखागतया तवर्गः ।
तदुपरि बवशतयैः पवर्गः।
तर्जन्याद्यस्तु प्रथमपर्वगतया पवर्गः।
अग्रेषु शवर्गः।
मध्यमा नखस्पर्शे र क्ष इति ।
अ वासुदेवः ।
आ सङ्कर्षणः। अं प्रद्युम्नः ।
अः अनिरुद्धः ।
अञ्जलिपुरुषः करयोः परस्परपृष्ठलग्नयोः ।
कनीयस्या कनीयसी चेति, तर्जन्या तर्जनी अङ्गुष्ठेनाङ्गुष्ठ इति तार्क्ष्यमुद्रा ।
पताकः कुञ्चिताग्रस्तालः तिर्यक्प्रसारिताङ्गुष्ठो मकरः।
कुञ्चिताङ्गुलिरर्धचन्द्रः ।
दृश्यशिखरौ कनीयस्यङ्गुल्यग्रलग्नौ ।
संहताङ्गुष्ठः शंखः ।
अः कारौ संहतौ स्पष्टाङ्गुलौ पद्मः॥
कुब्जाङ्गुष्ठो लक्ष्मीः ।
मकरः प्रसारिताङ्गुलिः ।
शेषस्तदुपरि शिखरे भोगशमनः ।
अः कार एव प्रसारितमध्यमाङ्गुलिर्ग ऊउः ।
तत्रैव मध्यमाङ्गुलिः शिखरगृहीता गरुडवाहनम् ।
मध्यमानामिकयोरङ्गुष्ठयोश्चाग्रयोगे चक्रः ।
उपर्युपरि कपित्थयोरुपरि चिबुके गदा ।
कपित्थकुब्जमध्यमिको हलः ।
कर्कटके सुमूलम् ।
कपित्थमध्यभ्रष्टाङ्गुलिः ।
चर्म कपित्थं पृष्ठतलाङ्गुलिः खड्गः शिखरो मध्यभ्रष्टाङ्गुलिर्धनुः ।
तर्जनीमध्यमिकोङ्गुष्ठानां संहतानां वियोगाच्छरः।
मुकुलसञ्चितकनीनिकः कौस्तुभः ।
द्वौ शिखरौ पृथक् वनमाला ।
अः कारो पृथग्लग्नो नृसिंहः ।
शिखरप्रसारितकनीनिकाधो वराहः ।
इ हयशिरः ।
ओं वामनः ।
वितलि स्त्रिविक्रमः ।
अर्धचन्द्रो मत्स्यः।
अधोमुखः कुज्जपताकः कूर्मः।
शिखरप्रसारितकनीयानूर्ध्वमुखाङ्गुष्ठो हंसः।
पताकः कुब्जकरमध्यो दत्तात्रेयः॥
कपित्थः परशुरामः ।
द्वौ शिखरौ युक्तौ दाशरथी।
पताकः कृष्णः। त्रिपताको बलदेवः ।
शिखरो विष्णुः ।
उत्तानपताकः पृथिवी ।
कुब्जः पताकः प्रसारितोङ्गुष्ठ स्तोयः ।
अङ्गुष्ठाग्राङ्गुलिर्नखपरिमार्जितोऽग्निः ।
चलत्पताको वायुः ।
तिर्यङ्मुष्टिप्रसारिततर्जनीकोऽन्तरिक्षम् ।
वितस्तिद्वययोगो वर्तुलीकृतोऽर्कः अनामिकार्धेन वक्रश्चन्द्रः ।
सर्वासुमुकुलितासु प्रसारिते मध्यमा तर्जनी नरनारायणौ ।
तत्रैव प्रसारिताग्रनासिका गुणाः ब्रह्मविष्णुमहेश्वराः ।
वामस्य प्रसारिताङ्गुलेस्तदुपरि तथाविध एव दक्षिणः कपिलः ।
चतस्रोप्यंगुल्यः प्रसारितस्तन्मूले कुञ्चिताङ्गुष्ठश्चान्तरात्मा तोयः ।
प्रसारितकनि ष्ठिको ऋग्वेदः ।
सैवानामिकया सह प्रसारितो यजुर्वेदः॥
चतुरात्मा प्रसारितांगुष्ठः सामवेदः ।
वेष्ट्यमानास्वंगुलीषु करमध्यगमनेन गायत्री ।
सामवेदोऽधोमुखांगुलिः शिक्षा ।
सैव दक्षिणदिशि नीता कल्पः ।
तर्जन्यंगुष्ठयोगे व्याकरणम् ।
शिखरेंगुष्ठेन तर्जनीमध्यगेन निरुक्तम् ।
खटकामुखाभ्यां ज्योतिषम् ।
अधोमुखश्छन्दोविचितिः॥
एता रहस्यमुद्रास्ते मयोक्ता नृपसत्तम॥
अतः परं प्रवक्ष्यामि सामान्यांस्तान्निबोध मे॥
इति श्रीवि०मा०व०सं० तृतीयखण्डे रहस्यमुद्रावर्णनो नाम द्वात्रिंशत्तमोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP