संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८६

खण्डः ३ - अध्यायः ०८६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥वज्र उवाच॥
प्रोक्तं त्वया द्विजश्रेष्ठ प्रतिमालक्षणं शुभम्॥
प्रासादलक्षणं सम्यक्कथयस्वामितद्युते ॥१॥
मार्कण्डेय उवाच॥
हस्तप्रमाणन्तत्प्रोक्तं प्रासादानां तु लक्षणम्॥
संस्थानतो विनिर्दिष्टं हस्तमानानुकीर्तनम् ॥२॥
तदहं ते प्रवक्ष्यामि तन्मे निगदतः शृणु॥
प्रासादलक्षणं श्रेष्ठं विजयारोग्यवर्धनम् ॥३॥
भागं तु जगती कार्या प्रासादो भागमेव च॥
कर्तव्या जगती मात्रतल्पोच्छ्रायत्रिभृमिका ॥४॥
उच्छ्राया तेन कर्तव्या ह्येकैका भूमिका गतिः॥
भद्रपीठाकृतिः कार्या भूमिका भूमिका पुनः ॥५॥
प्रसादार्थं कटिः कार्या कूटमेव तथैव च॥
कटिमूलाष्टभागेन सोपानविस्तरा भवेत् ॥६॥
समसंख्यं तु कर्तव्यं सोपानं भूमिकां प्रति॥
कूटः कार्यस्त्रिधोच्छेदः शुभामलकसारकः ॥७॥
चतुरस्रस्तथा राजन्क्रमोपचयसंयुतः॥
विच्छेदाश्चात्र कर्तव्याः सिंहमालाविभूषिताः ॥८॥
द्वारोच्छ्रायाश्च कर्तव्या देवाश्चाष्टांशसंयुताः॥
विस्तारं द्विगुणं चात्र द्वारोच्छ्रायं तु कारयेत् ॥९॥
द्वारशोभावती कार्या चन्द्रशाला समुच्छ्रिता॥
कूटप्रथमविच्छेदे शुभामलकसारकैः ॥१०॥
द्वारैश्चतुर्भिर्भग्नैस्तु न भग्नैर्वा महीपते॥
प्रासादमेतत्कर्तव्यं कूटच्छेदद्वये तथा ॥११॥
विच्छिन्न चन्द्रशालाभिश्चतसृभिरिवावृतम्॥
हिमवान्नाम विख्यातः प्रासादोऽयं मनोहरः ॥१२॥
कूटच्छेदद्वयोपेतो माल्यवानभिधीयते॥
एककूटस्तथैवायं शृङ्गवानिति कीर्तितः ॥१३॥
आगाराख्यो भवत्येष द्वारेणैकेन शृङ्गवान्॥
अगारो भवनाख्यः स्यात्प्रासादस्तु द्विमेखलः ॥१४॥
गृहाख्यश्चैष निर्दिष्टः प्रासादश्चैकमेखलः॥
शृङ्गवान्निषधाख्यः स्यात्प्रासादस्तु द्विमेखलः ॥१५॥
स एव नीलो भवति तथा चैवैकमेखलः॥
माल्यवाञ्श्वेतसंज्ञः स्यात्प्रासादस्तु द्विमेखलः ॥१६
विन्ध्यनामा भवत्येष तथा चैवैकमेखलः॥
अगारभेदरहितः सर्वः सर्वदिवौकसाम् ॥१७॥
राजन्देवगृहाः कार्या यथेष्टाशामुखाः शुभा॥
आगारभेदाः कर्तव्याः पूर्वपश्चिमदिङ्मुखाः ॥१८॥
तेषां लिङ्गप्रतिष्ठैका शस्ता भवति पार्थिव॥
द्विमेखला ये कथितास्तथा चैवैकमेखलाः ॥१९॥
भागस्तेषां तु जगती भागस्तेषां तथा कटिः॥
भागमेकं तथा कार्यं कूटं प्राग्वन्महीपते ॥२०॥
वलभीसंस्थितं रम्यं प्रासादं तु चतुर्दिशम्॥
विस्तारत्रिगुणायामं तथा चैवैकमेखलम् ॥२१॥
पार्श्वयोर्वलभीपृष्ठे चन्द्रशालायुतं भवेत्॥
प्रासादे तत्र कर्तव्यस्त्रयाश्चामलसारकाः ॥२२॥
भागस्तु मेखला तत्र कटिभागस्तथा भवेत्॥
भाग एकस्तु वलभी तथा तत्र प्रकीर्तिता ॥२३॥
प्रासादस्याष्टमो भागः कर्तव्यो मेखलागतिः॥
कष्ट्यष्टभागो द्वौ हित्वा सोपानं विस्तराद्भवेत् ॥२४॥
एकस्या दिशि चैवात्र द्वारः कार्यः समुच्छ्रयः॥
स्वेच्छाशाभिमुखः कार्यो वलभीसंज्ञितस्त्वयम् ॥२५॥
प्रासादेऽस्मिँस्तु कर्तव्या ब्रह्मविष्णुमहेश्वराः॥
एकानंशाथ वा कार्या मध्यगा रामकृष्णयोः ॥२६॥
गणेशस्कन्दयोर्मध्ये कर्तव्यो वा त्रिलोचनः॥
मध्येर्कचन्द्रयोः कार्यस्त्वष्टा वापि जनार्दनः ॥२७॥
एकैव दुर्गा कर्तव्या बहुबाहु विभूषिता॥
तत्र कार्याथ वा लक्ष्मीर्जगत्त्रितयभूषणा ॥२८॥
विष्णुर्भोगशयः कार्यः प्रासादे तत्र वा नृप॥
चतुरात्माथवा कार्यो देवदेवो जनार्दनः ॥२९॥
शक्रकीनाशवरुणैः सहितो वा धनेश्वरः॥
अन्ये देवा न कर्तव्या ये मया नानुकीर्तिताः ॥३०॥
एकाशाभिमुखैर्द्वारैश्चतुर्भिः संयुतस्त्वयम॥
ब्रह्मणा वृद्धिदो नाम प्रासादः परिकीर्तितः ॥३१॥
कर्तव्यस्तत्र लोकेशश्चतुरात्मा हरिस्त्वथ॥
विस्तारत्रिगुणैश्छायां द्वारांस्तत्र निवेशयेत् ॥३२॥
विस्तारत्रिगुणोच्छ्रायैर्द्वारैर्वा संयुतस्त्रिभिः॥
प्रासादोऽयं भवेद्राजँस्त्रिगुणो नामतः शुभः ॥३३॥
एकाशाभिमुखद्वारगर्भभित्तिसमन्वि तः॥
ब्रह्मा विष्णुश्च रुद्रश्च प्रासादेऽत्र निवेशयेत् ॥३४॥
आदित्यविष्णुचन्द्रार्काः पृथग्भूपालसत्तम॥
गणेशरुद्रस्कन्दान्वा प्रासादेऽस्मिन्निवेशयेत् ॥३५॥
पार्श्वस्थवलभीहीनो वलभीसंज्ञितो भवेत्॥
प्रासादः पार्श्वसंयुक्तः शिखरो नामतो नृप ॥३६॥
पार्श्वस्थवलभीहीनं वृत्तिदं कामदं भवेत॥
पार्श्वस्थवलभीहीनं त्रिगुणं नृगृहं भवेत् ॥३७॥
कृतविस्तृतदिग्द्वारं प्रासादं वलभीगतम्॥
तुरगाख्यं विनिर्दिष्टं रेतोमन्दगृहं हितम् ॥३८॥
विनायकस्य तत्कार्यं भद्रकाल्यस्तथैव च॥
स्कन्दस्य कार्यं तद्राजँल्लक्ष्म्या कार्यमथापि वा ॥३९॥
नागानां प्रमथानां वा नान्यस्य तु विधीयते॥
कृतविस्तृतदिग्द्वारं तुरगं कुञ्जरं स्मृतम् ॥४०॥
तुरगाभिहतानां च देवानां तत्प्रशस्यते॥
शक्रस्य च महाभाग नान्येषां तद्विधीयते ॥४१॥
यथेष्टसंख्यागर्भं तु प्रासादं वलभीगतम्॥
यथेष्टन्नाम विख्यातं यथेष्टायामसंज्ञितम् ॥४२॥
यथेष्टमानं द्वारन्तद् द्वारेणैकेन संयुतम्॥
एकगर्भं तदेवोक्तं विशालं नाम पार्थिव ॥४३॥
यथेष्टे च विशाले च कर्तव्या मातरो नृप॥
ग्रहा वा राजशार्दूल नक्षत्राण्यथ वा पुनः ॥४४॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः॥
भृगवोङ्गिरसः साध्या देवो वा यदि वाश्विनौ ॥४५॥
अष्टौ वाथ दिशां पाला यदि वा भूतपञ्चकम्॥
एवं देवगणः कार्यो राजन्प्रासादयोस्तयोः ॥४६॥
आयता माल्यवत्पृष्ठे वलभी तु यदा भवेत्॥
कर्तव्यो भद्रकाल्यर्थे प्रासादो भद्रसंज्ञितः ॥४७॥
तिर्यक्स्था माल्यवत्पृष्ठे वलभी तु यदा भवेत॥
द्वारपालेति स प्रोक्तः प्रासादो विबुधप्रियः ॥४८॥
सुभद्राख्यस्य निर्दिष्टः श्वेताख्यो भद्रवत्कृतः॥
कृतस्तु द्वारशालावत्सौम्यः स्याद्गन्धमादनः ॥४९॥
सौम्यः सुभद्रश्च तथा सर्वेषामेव शस्यते॥
अष्टत्रिकूटं त्रिच्छेदं शुभामलकसारकम् ॥५०॥
अष्टांशजगतीबन्धं तथा चैवैकमेखलम्॥
अष्टगर्भाष्टदिग्द्वारं कमलं परिकीर्तितम् ॥५१॥
अष्टौ तत्र तु कर्तव्या ग्रहाः केतुविवर्जिताः॥
सूर्यः शुक्रः कुजो राहुः सौरश्चन्द्रो बुधो गुरुः ॥५२॥
क्रमेणानेन कर्तव्यं तत्र राजन्गृहाष्टकम्॥
भूजलाकाशवह्नीन्दुदीक्षितार्कमरुत्तनुः ॥५३॥
महादेवोऽथ वा कार्यस्तत्र देवो जगद्गुरुः॥
अष्टात्मा वासुदेवो वा प्रभवे यापनेन च ॥५४॥
प्रासादेऽस्मिंस्तु कर्तव्यो विधिनानेन वा हरिः॥
चतुरात्मा तु कर्तव्यो दिग्द्वारेष्वत्र केशवः ॥५५॥
अश्वशीर्षं वराहं च नरसिंहं त्रिविक्रमम्॥
ईशानादिषु कोणेषु कार्या देवा नरोत्तम ॥५६॥
उच्छ्रिता जगती कार्या भद्रपीठाकृतिं विना॥
प्राग्भागवलभीहीनं तुरगं तत्र कारयेत् ॥५७॥
प्रशस्तः सर्वदेवानां प्रासादस्त्वरुणोदयः॥
पूर्वापराशाभिमुखः कार्योयं नान्यदिङ्मुखः ॥५८॥
अयमेवातिदीर्घस्तु प्रासादो गृहसंज्ञितः॥
प्रासादे त्वरुणे लग्ना वल्यप्रासादकावुभौ ॥५९॥
याम्योत्तराशाभिमुखौ तद्वज्जगति बन्धनौ॥
सम्मुखौ तौ तु जगति वलभीच्छन्दकौ भवेत् ॥६०॥
शुभा जालप्रतिच्छन्ना सौभद्वारमुखा तथा॥
तत्र स्याद्गरुडो नाम प्रासादः सुमनोहरः ॥६१॥
आदित्यस्य प्रतिष्ठानं प्रासादे तत्र शस्यते॥
दण्डपिङ्गलकौ कार्यौ तत्र प्रासादयोर्द्वयोः ॥६२॥
तयोर्वा नृप कर्तव्यौ रतौ मन्दयमावुभौ॥
कर्तव्यौ वा महाराज तथा केशवशङ्करौ ॥६३॥
प्रासादे गरुडो वापि कर्तव्यश्चन्द्रमा बुधैः॥
पार्श्वप्रासादयोस्तस्य कर्तव्यौ शिशिराम्बुपौ ॥६४॥
प्रासादे गारुडे वापि कामदेवं तु कारयेत्॥
पार्श्व प्रासादयोस्तस्य कर्तव्यौ वनमालिनौ ॥६५॥
प्रासादे गारुडे वापि कर्तव्यो देवराड् बुधैः॥
पार्श्वप्रासादयोस्तस्य कर्तव्यौ वनमालिनौ ॥६६॥
प्रासादे गारुडे वापि कर्तव्यश्च तथा यमः॥
पार्श्वप्रासादयोस्तस्य मृत्युकालौ निवेशयेत् ॥६७॥
प्रासादे गारुडे वापि कर्तव्यो वरुणो भवेत्॥
पार्श्वप्रासादयोः कार्या गङ्गा कालिन्दिरेव च ॥६८॥
प्रासादे गारुडे वापि धनाध्यक्षं तु कारयेत्॥
पार्श्वप्रासादयोस्तस्य शङ्खपद्मौ निवेशयेत् ॥६९॥
प्रासादे गारुडे वापि ब्रह्माणं विनिवेशयेत्॥
पार्श्वप्रासादयोस्तस्य कर्तव्यौ केशवेश्वरौ ॥७०॥
प्रासादे गारुडे वापि महादेवं निवेशयेत्॥
पार्श्वप्रासादयोस्तस्य कार्यौ विष्णुपितामहौ ॥७१॥
विनायकः कुमारो वा कर्तव्यो यदुनन्दन॥
वीरभद्रश्च नन्दी च कर्तव्यौ वा मनोहरौ ॥७२॥
प्रासादे गारुडे वापि गरुडं विनिवेशयेत्॥
पार्श्वप्रासादयोः कार्यः कश्यपो विनता तथा ॥७३॥
प्रासादे गारुडे वापि वासुदेवं निवेशयेत्॥
पार्श्वप्रासादयोस्तस्य कार्यौ रुद्रपितामहौ ॥७४॥
चन्द्रार्कौ वा महाराज यदि वा वरुणानिलौ॥
लक्ष्मीं च कालरात्रीं च यदि वाप्यनलानिलौ ॥७५॥
तार्क्ष्यानन्तौ महाराज यदि वा गरुडारुणौ॥
प्रासादे गारुडे वापि धर्मः कार्यो महीपते ॥७६॥
पार्श्वप्रासादयोस्तस्य कार्योऽर्थः काम एव च॥
लिङ्गाकारं तु कर्तव्यं देववेश्म त्रिमेखलम् ॥७७॥
तस्य नाम भवेल्लोके शर्वेति नरपुङ्गव॥
द्विमेखलस्य तस्यैव त्रैलोक्यमिति निर्दिशेत् ॥७८॥
स एव लिङ्गनामा स्यात्प्रासादस्त्वेकमेखलः॥
कूटवद्वलभीयुक्तं सर्वकीटं प्रकीर्तितम् ॥७९॥
ब्रह्माण्डमिति विज्ञेयं त्रैलोक्यं वलभीयुतम्॥
लिङ्गाख्यं वलभीयुक्तं सारमित्यभिधीयते ॥८०॥
शर्वाद्याः षडिमे कार्याः पूर्वपश्चिमदिङ्मुखाः॥
लिङ्गसंस्थापनं कार्यं नित्यमेतेषु पण्डितैः ॥८१॥
प्रासादं वलभीसंज्ञं चतुरस्रं विमेखलम्॥
चतुरस्रमिति ख्यातं कार्यं तत्सुमनोहरम् ॥८२॥
विद्वारं स्तंभसंयुक्तं पुरस्ताद्भित्तिवर्जितम्॥
शाक्रं देवगणैर्युक्तं यमं वा पितृसंयुतम् ॥८३॥
मातृयुक्तं महाकालं नृसिंहमथ वा पुनः॥
दुर्गां देवीं तथा राजन्नक्षत्रं शशिनं तथा ॥८४॥
ग्रहैर्दिवाकरं युक्तं नागैर्वा नृप वासुकिम॥
सुमेखलं तन्निर्दिष्टं तथा नृप समेखलम् ॥८५॥
विमेखलं तत्कथितं राजन्द्वारं द्विमेखलम्॥
त्रिमेखलं तत्कथितं मेखलाढ्यं महीपते ॥८६॥
सर्वेष्वेतेषु कर्तव्याः सभास्थाः सर्वकीर्तिताः॥
अन्येप्यनुक्ताः कर्तव्याः सभास्था नरपुङ्गव ॥८७॥
चतुरस्रादयस्त्वेते द्वारवन्तो महीपते॥
धिष्ण्यशल्यबुधेन्द्वाख्या नामतः परिकीर्तिताः ॥८८॥
चतुरस्रो गृहः कार्यः प्रासादस्त्वेक भूमिकः॥
गृह इत्येव विख्यातो लक्ष्मीं तत्र निवेशयेत॥८९॥
स एव कार्यो देवानां यथष्टो बहुभूमिकः॥
बहुभूमिकसंज्ञस्तु यथेष्टं नृपपुङ्गव॥९०॥
भूमिकाद्वादशोपेतः षडस्रो मेरुरुच्यते॥
चतुर्द्वारस्तु कर्तव्यः सर्वेषां त्रिदिवौकसाम ॥९१॥
शुक्तिमान्नामतः सर्वः स चैकादशभूमिकः॥
मन्दरो नामतः प्रोक्तः स तद्द्वादशभूमिकः ॥९२॥
नवभिर्भूमिकाभिस्तु पारियात्रः प्रकीर्तितः॥
अलको नाम विख्यातस्तथा चैवाष्टभूमिकः ॥९३॥
विमानः सप्तभौमः स्यात्पलभौमो नन्दनः स्मृतः॥
पञ्चतः पञ्च मः स्याच्चतुर्भौमश्चतुष्ककः ॥९४॥
त्रिभूमिस्तु त्रिभूमिः स्याद्द्विभूम्याख्यो द्विभूमिकः॥
एकभौमस्तु निर्दिष्टस्तथा चैवैकभूमिकः॥९५॥
प्रोक्तः समुद्राख्यस्तथा वृत्तैकमेखलः॥
मेखला चतुरस्रा तु भद्रपीठाकृतिर्भवेत्॥९६॥
कृतस्त्वष्टपरिच्छेदैः सर्वस्वामलसारकैः॥
वृत्त एव तथा नन्दी प्रासादः परिकीर्तितः॥९७॥
दीर्घराजगुहाकारो गुहाराजः प्रकीर्तितः॥
भद्रकाल्यास्तथा कार्या विष्णोर्भागशयस्य वा ॥९८॥
एकशृङ्गस्तथा वृत्तो वृषाख्यः स्याद्द्विमेखलः॥
हंसाकारस्तथा हंसो घटाकाग्स्तथा घटः॥९९॥
सिंहाकारः स्मृतः सिंहो मण्डपो मण्डपाकृतिः॥
द्वादशास्रिः षडस्रिस्तु तथाष्टास्रिर्महीपते ॥१००॥
प्रासादास्तु मया प्रोक्तास्तथा प्रोक्ताश्रयस्थितिः॥
पञ्चभिः शिखरैर्जुष्टश्चतुर्भिरपि मण्डपैः ॥१०१॥
द्वारैश्चतुर्भिः संयुक्तः कैलाशः परिकीर्तितः॥
त्रिमेखलस्त्रिशृङ्गश्च त्रिकूटो नाम विश्रुतः ॥१०२॥
शृङ्गेणैकेन संयुक्तश्चतुर्भिरपि मण्डपैः॥
चतुर्द्वारः स्मृतः सौम्यः प्रासादः सुमनोहरः ॥१०३॥
प्राकारं जानुदघ्ना स्याद्यस्यैका जगती भवेत्॥
प्रासादतुल्या त्र्यंशा तु त्र्यंशतुल्या तथा कटिः ॥१०४॥
शिखरः कुहरोपेतो नानारूपकभूषितः॥
एकमण्डपसंयुक्तस्तादृशैः सुरमन्दिरैः ॥१०५॥
स्वल्पैर्विदिक्षु संयुक्तश्चतुर्भिर्भुवि मण्डपैः॥
सोपानमूले संयुक्तो द्वाभ्यामेव नराधिप ॥१०६॥
प्रासादो राजराजाख्यो मुख्योऽयं परिकीर्तितः॥
प्रासादे राजराजाख्ये चत्वारो यदि मण्डपाः ॥१०७॥
सर्वे शिखरहीनाः स्युस्तथा सोपानमूलगाः॥
अष्टौ देवगृहाणि स्युः स भवेद्धरणीधरः ॥१०८॥
मण्डपैः शिखरोपेतैविमानाख्यः स वै भवेत॥
विदिक्षु यत्र प्रासादाश्चत्वारो मण्डपान्तरे ॥१०९॥
मण्डपाः शिखरोपेता मध्यमंजारिसंयुताः॥
नवभिः शिखरैरेष प्रासादः सुरराड् भवेत् ॥११०॥
बहुवातायनोपेतो बहुजालगवाक्षकः॥
चतुरस्रोऽथ वा वृत्तस्तथैवोच्छ्रितमेखलः ॥१११॥
आनन्दनामा भवति प्रासादः सर्वतोमुखः॥
मेखलापृष्ठभूभागात्क्रमेणामलसारकैः ॥११२॥
अविच्छिन्नैः क्रमाद्द्वारैर्बहुभिर्यो विनिर्मितः॥
न मुण्डो न च शूलाग्रः प्रासादः सुसमः स्मृतः ॥११३॥
मुण्डमण्डलसंयुक्तः स एवोक्तः प्रभञ्जनः॥
चतुर्भिर्मण्डपैर्युक्तो विश्वकर्मेति कीर्त्यते ॥११४॥
मण्डपैः सुसमाकारैश्चतुर्भिरपि संयुतः॥
महासुमन इत्येष प्रासादः परिकीर्तितः ॥११५॥
भद्राकारः स्मृतश्छत्रो मृदङ्गः स्यात्तदा कृतिः ।
विपरीतो मृदङ्गस्तु वज्र इत्यभिधीयते ॥११६॥
एका कटिर्भवेद्यस्य तथैका जगती नृप॥
शिखरा श्रेणिगाः पञ्च द्वाराः पञ्च तथा नृप ॥११७॥
प्रासादो लोकपालाख्यो लोकपालेषु शस्यते॥
शंसन्त्यथान्यं प्रासादं महाभूतगणस्य च ॥११८॥
प्रासादो वर्तुलकटिस्तथा वर्तुलमेखलः॥
अष्टास्रिः शिखरोपेतो द्वाराष्टकभूषितः ॥११९॥
दिग्बन्ध इति विख्यातः प्रासादः सर्वदैवतः॥
पश्चाद्गविटकोपेतो जगती मानमण्डलः ॥१२०॥
प्रासादस्त्वेकशिखरः सामान्यः परिकीर्तितः॥
मण्डपे जालकोपेते पश्चाद्भागे गुहा भवेत ॥१२१॥
विमेखलोऽयं प्रासादः सुगुहः परिकीर्तितः॥
स एव त्रिगुणोपेतस्त्रिगुणः परिकीर्तितः ॥१२२॥
हिमवान्बहुभिस्तम्भैर्युतो भवति नन्दकः॥
स्तम्भवान्वलभीयुक्तः प्रासादो भित्तिवर्जितः ॥१२३॥
आकाशनी सा भवति तत्राकाशं प्रकल्पयेत॥
षोडशस्रिस्तु कथितः प्रासादस्तावदस्रिकः ॥१२४॥
प्रासादः शङ्खसंज्ञः स्याच्छङ्खाकारः सुशोभनः॥
पद्माभशिखरोपेतो वैजयन्तो महीपते ॥१२५॥
अनास्रिः शिखरोपेतो भवेदम्बुदसंज्ञितः॥
शिखरैः कुहरोपेतैर्भवेन्मङ्गलसंज्ञितः ॥१२६॥
प्रासादानां शतं चैतत्समासात्कथितं मया॥
यथेच्छाशामुखाः कार्या येषां दिङ् न प्रयोजिताः ॥१२७॥
सर्वे देवगणाः कार्या येषां देवो न कीर्तितः॥
विष्णोर्देवस्य कर्तव्यः सर्व एव विशेषतः ॥१२८॥
अन्यमिश्रौ न कर्तव्यौ चन्द्रार्कावेकवेश्मगौ॥
सूर्येण संयुतश्चन्द्रः क्षीणः केतुः क्षयावहः ॥१२९॥
परस्पराशाभिमुखौ कर्तव्यौ सूर्यरात्रिपौ॥
पूर्वापराशाभिमुखौ न तु याम्योत्तरामुखौ ॥१३०॥
पूर्वापराशाभिमुखौ यद्वा स्यातां तदा शशी॥
पूज्यो भवति धर्मज्ञ कर्तुः कल्याणकारकः ॥१३१॥
नैकवेश्मगतौ कार्यौ ग्रहौ स्कन्दविनायकौ॥
न नागगरुडौ कार्यौ न चान्तकमहेश्वरौ ॥१३२॥
महाकालनृसिंहौ च रक्तां शुष्कां तथैव च॥
ब्रह्मरुद्रकृतान्तैस्तु भद्रकाल्याथ वा सह ॥१३३॥
कामदेवो न कर्तव्यस्तथैव वरुणानलौ॥
देवस्यैकस्य नो कार्ये द्वे तथा च तथा नृप ॥१२४॥
प्रादुर्भावगते कार्ये ते च विप्णोर्महात्मनः॥
येषामपि च देवानां द्वन्द्वयोगो विगर्हितः ॥१३५॥
तेषामप्यन्यसहितः प्रशस्तो नृपसत्तम॥
ग्रहसंख्यासुसहितौ कर्तव्यौ सूर्यरात्रिपौ ॥१३६॥
महादेवसमीपस्थौ तथा स्कन्दविनायकौ॥
वासुदेवसमीपस्थौ शेषतार्क्ष्यौ तथैव च ॥१३७॥
एवमन्यसमेतानां यथायोगैः पृथग्विधैः॥
कर्तव्यस्तु विरुद्धानां देवानां चापि सङ्गमः ॥१३८॥
प्रासादलक्षणमिदं कथितं समासादालोक्य पूर्वचरितं हि पितामहोक्तम॥
शास्त्रं हिताय नरसत्तम मानुषाणां धार्यं त्वया तदतियत्नपरेण नित्यम् ॥१३९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रासादलक्षणो नाम षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP