संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०४६

खण्डः ३ - अध्यायः ०४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वज्र उवाच ॥
रूपगन्धरसैर्हीनः शब्दस्पर्शविवर्जितः॥
पुरुषस्तु त्वया प्रोक्तस्तस्य रूपमिदं कथम् ॥१॥
मार्कण्डेय उवाच॥
प्रकृतिर्विकृतिस्तस्य रूपेण परमात्मनः॥
अलक्ष्यं तस्य तद्रूपं प्रकृतिस्सा प्रकीर्तिता ॥२॥
साकारा विकृतिर्ज्ञेया तस्य सर्वं जगत्स्मृतम्॥
पूजाध्यानादिकं कर्तुं साकारस्यैव शक्यते ॥३॥
स्वतस्तु देवस्याकारः पूजनीयो यथाविधि॥
अव्यक्ता हि गतिर्दुखं देहभृद्भिरवाप्यते ॥४॥
अतो भगवतानेन स्वेच्छया तत्प्रदर्शितम्॥
प्रादुर्भावेष्वथाकारं तं दिशन्ति दिवौकसः ॥५॥
एतस्मात्कारणात्पूजा साकारस्य विधीयते॥
हेतुमच्च तदाकारं तन्मे निगदतः शृणु ॥६॥
अरुणं रजसा वर्णं तेन पद्माग्रसन्निभः॥
ब्रह्मा देववरो ज्ञेयस्सर्वभूतनमस्कृतः ॥७॥
ऋग्वेदः पूर्ववदनं यजुर्वेदस्तु दक्षिणम्॥
पश्चिमं सामवेदः स्यादाथर्वणमथोत्तरम् ॥८॥
ये वेदास्ते मुखा ज्ञेयाश्चतस्रो बाहवो दिशः॥
आप एव जगत्सर्वं स्थावरं जङ्गमं तथा ॥९॥
ताश्च धारयते ब्रह्मा तेन हस्ते कमण्डलुः॥
अक्षमाला विनिर्दिष्टा कालस्तु ब्रह्मणः करे ॥१०॥
कलनात्सर्वभूतानां काल इत्यभिधीयते॥
यज्ञो विस्तीर्यते सर्वः शुक्लाशुक्लेन कर्मणा ॥११॥
शुक्लाशुक्लमतो ज्ञेयं वासः कृष्णाजिनं विभोः॥
भूलोकश्च भुवो लोकः स्वलोकोऽथ महत्तथा ॥१२॥
जनस्तपश्च सत्यं च सप्तलोकाः प्रकीर्तिताः॥
ये लोकास्ते रथे हंसा ब्रह्मणः परमेष्ठिनः ॥१३॥
विष्णुनाभौ समुत्पन्नं यत्पद्मं सा महीभुजः॥
मेरुस्तु कर्णिका तस्य विज्ञेया गजसत्तम ॥१४॥
सर्वत्र पार्थिव स्थैर्यं ध्यानबन्धमतः स्थितम्॥
पद्मासनेन भगवान्विधत्ते पार्थिवेन तु ॥१५॥
आत्मनः परमं धाम रूपहीन विचिन्तयेत्॥
दृष्ट्यर्थं जगतामास्ते ध्यानसम्मीलितेक्षणः ॥१६॥
तथैवोषधयो राजञ्जगद्धारणकारणाः॥
ब्रह्मणस्ता जटा ज्ञेयाः सर्वगस्य महात्मनः ॥१७॥
प्रकाशकानि लोकस्य विद्यास्थानानि यानि च॥
तस्याभरणजातानि ज्ञेयानि परमेष्ठिनः ॥१८॥
एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य॥
एवं शरीरेण जगत्समग्रं सन्धारयत्येव जगत्प्रधानः ॥१९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० ब्रह्मरूपनिर्माणो नाम षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP