संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३०

खण्डः ३ - अध्यायः १३०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
नासत्यौ देवभिषजावश्विनौ परिकीर्तितौ॥
तावेव कथितौ लोके सूर्यताराधिपौ नृप ॥१॥
अश्वयानरतो यस्मादश्विनौ परिकीर्तितौ॥
चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः ॥२॥
नासत्यौ देवभिषजौ पूजयेत्प्रयतः शुचिः॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥३॥
कृत्वा च रूपनिर्माणं नासत्यौ पूजयेन्नरः॥
दीपमालां ततो दद्यात्तयोर्निशि विशेषतः ॥४॥
कनकं रजतं चोभे दद्याद्विप्रेषु दक्षिणाम्॥
संमील्य नेत्रयुगलं विष्णुं च संस्मरेन्नरः ॥५॥
प्रदीप्ततेजा भवति चक्षुष्मांश्चैव जायते॥
प्राणयात्रां तु कुर्वीत दध्ना घृतयुतेन च ॥६॥
नेत्रव्रतं द्वादशवत्सराणि कृत्वा भवेद्भूमिपतिः प्रतीतः॥
सरूपरूपोरिगणप्रमाथी धर्माभिरामो नृपवर्यमुख्यः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे नासत्यपूजाचक्षुर्व्रतं नाम त्रिंशदुत्तरशततमोऽध्यायः ॥१३०॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP