संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२९

खण्डः ३ - अध्यायः १२९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
पुरुषः प्रकृतिश्चोभौ जगत्सर्वं प्रकीर्तितम्॥
अग्नीषोमात्मकं सर्वं तथा तस्य प्रकीर्तितम् ॥१॥
वासुदेवश्च लक्ष्मीश्च तावेव परिकीर्तितौ॥
चैत्रशुक्लसमायां च सोपवासो जितेन्द्रियः ॥२॥
पौरुषेण स सूक्तेन वह्निं संपूजयेन्नरः॥
गन्धमाल्यनमस्कारधूपदीपान्नसप्रदा ॥३॥
लक्ष्मीं च वरदां देवीं पूजयेदुदकेन तु॥
श्रीसूक्तेन च धर्मज्ञ यथावन्मनुजेश्वर ॥४॥
काञ्चनं राजतं चोभौ दद्याद्विप्रेषु दक्षिणाम्॥
प्राणयात्रां बुधः कुर्यात्क्षीरेण सघृतेन च ॥५॥
संवत्सरमिदं कृत्वा व्रतं सम्यगुपोषितः॥
मुच्यते पातकैः सर्वैर्मोक्षोपायांश्च विन्दति ॥५॥
कामानवाप्नोत्यथ वा विचित्राँल्लोकांश्च मुख्यान्वसुधां समग्राम्॥
विरूपतो रूपमथापि चाग्र्यं यशस्तथाग्र्यं तनयांश्च मुख्यान् ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे प्रकृति पुरुषनिरूपणो नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥१२९॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP