संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२८

खण्डः ३ - अध्यायः १२८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
एकमेव जगत्सर्वं प्रकृतिः पुरुषः स्मृतः॥
चैत्रशुक्लसमारंभे सोपवासो जितेन्द्रियः ॥१॥
पुरुषं पूजयेद्विष्णुं स्थले वा यदि वा जले॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥२॥
पौरुषं तु तथा सूक्तं जपेदन्तर्जले नरः॥
तथा चैनं च प्रत्यष्टं बुधो दद्याज्जलाञ्जलिम् ॥३॥
तथा पुष्पाणि धर्मज्ञः फलानि च महाभुज॥
धूपं दद्यात्सनैवेद्यं जपेच्छक्त्या तथा च तम् ॥४॥
जुहुयाच्च तथाऽऽज्येन द्विजे दद्याच्च काञ्चनम्॥
आहारं पयसा कुर्यान्निशाकाले च भार्गव ॥ ॥५॥
एतत्संवत्सरं कृत्वा नित्यव्रतमतन्द्रितः॥
पक्षयोरुभयोर्वीर सर्वपापैः प्रमुच्यते ॥६॥
प्रसादमासाद्य स वासुदेवात्सर्वेश्वरात्सर्वगणादचिन्त्यात्॥
लोकेश्वरान्मोक्षपदं प्रयाति ये यान्ति सिद्धा मुनयः प्रतीताः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे पौरुषीप्रतिपद्वर्णनो नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP