संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९५

खण्डः ३ - अध्यायः २९५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
अलसानां मनुष्याणां सदा दुःखं दरिद्रता॥
आलस्यं पातकं लोके आलस्यं भूतिनाशनम् ॥१॥
नाधिगच्छन्ति भोक्तव्यमलसा ये नराधमाः॥
अलसानां मनुष्याणां प्राप्तोप्यर्थो विनश्यति ॥२॥
तस्मान्नित्यं मनुष्येण दाक्ष्यं कार्यं विजानता॥
दक्षः सर्वमवाप्नोति यत्किञ्चिन्मनसेच्छति ॥३॥
धर्मे चार्थे च कामे च मोक्षे च द्विजसत्तमाः॥
भाजनं सर्वकालेषु दक्ष एव सदा नरः॥
आकृष्य दक्षः केशेषु विमुखामपि च श्रियम्॥
स्वीकरोति महाभागा दक्षे सर्वं प्रतिष्ठितम् ॥५॥
उत्थानधीरः पुरुषो वाग्वीरानधितिष्ठति॥
उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥६॥
उत्थानवानेव दिवं प्रयाति उत्थानवानेव परं पदञ्च॥
उत्थानवानेव नरो जयी स्यात्तस्मात्सदोत्थानपरेण भाव्यम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु उत्थानप्रशंसा नाम पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥२९५॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP