संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६०

खण्डः ३ - अध्यायः २६०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
कीर्तिप्रधानः पुरुषश्चिरं स्वर्गे महीयते॥
कीर्तिः शरीरं निर्दिष्टा मृतस्यापि शरीरिणः ॥१॥
कीर्तियुक्तं न जानाति परत्रेह च मानवः॥
कीर्तियुक्ता भवन्तीह श्रेयसो भाजनं परम् ॥२॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः॥
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥३॥
तावदेव तथा लोकान्सर्वकामदुघोऽक्षयान्॥
पुरुषः समुपाश्नाति दिवि चेह च शाश्वतम् ॥४॥
यस्याकीर्तिर्मनुष्यस्य नरकं स तु गच्छति॥
यावल्लोकेषु धर्मज्ञास्तस्य कीर्तिस्तु गीयते ॥५॥
तावत्समश्नुते स्वर्गे देवभोगाननुत्तमान्॥
कीर्तिः पुण्या पुण्यलोके नैव पापं प्रयच्छति॥
कीर्त्यमाना मनुष्यस्य तस्मात्पुण्यं समाचरेत् ॥६॥
ये कीर्तियुक्ताः पुरुषप्रधानास्ते नाकपृष्ठं सुचिरं प्रयान्ति॥
अकीर्तियुक्ता नरकं व्रजंति कीर्तिः प्रधाना पुरुषस्य तस्मात् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु कीर्तिप्रशंसावर्णनो नाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥२६०॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP