संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३०२

खण्डः ३ - अध्यायः ३०२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
पृथक्पृथक् त्वमाचक्ष्व दानानां फलमुत्तमम्॥
सर्वधर्मभृतां श्रेष्ठ सर्वज्ञस्त्वं मतो हि नः ॥१॥
 ॥हंस उवाच ॥
अभयस्य प्रदानाद्धि नान्यद्दानं विशिष्यते॥
सर्वेषामेव दानानां प्राणदानं विशिष्यते ॥२॥
ग्राह्यं प्राणप्रदानन्तु चण्डालात्पुक्कसादपि॥
जीवन्सर्वमवाप्नोति जीवन्धर्मं करोति च ॥३॥
जीवमानस्तु पुरुषः कामानां भाजनं भवेत्॥
भाजनेन तु सर्वं वै भाजनत्वं विनश्यति ॥४॥
शरीरधर्मसर्वस्वं रक्षणाय प्रयत्नतः॥
शरीरात्स्रवते धर्मं पर्वतात्सलिलं यथा ॥५॥
अभयस्य प्रदानेन नरः स्यात्सर्वकामदः॥
अश्वमेधफलं तस्य यो रक्षेच्छरणागतम् ॥६॥
शरणागतं तु सन्त्यज्य यो नरः पुरुषाधमः॥
बहून्यब्दसहस्राणि नरकं प्रतिपद्यते ॥७॥
नरकाच्च तथा मुक्तस्तिर्यग्योनिषु जायते॥
तत्रापि च तथाप्नोति वधबन्धान्यनेकशः ॥८॥
दैवान्मानुष्यमासाद्य चण्डालत्वमवाप्नुयात्॥
व्याधिबन्धवधैर्घोरैस्तत्रापि स च युज्यते ॥९॥
परित्राणं तु यः कुर्याद्भीतस्य शरणैषिणः॥
स एकः पुरुषो लोके सर्वधर्मभृतां वरः ॥१०॥
वधभीतस्य यः कुर्यात्परित्राणं नरोत्तमः॥
शक्रलोकः स्मृतस्तस्य यावदिन्द्राश्चतुर्दश ॥११॥
तमःप्रवेशभीतस्य परित्राणेन मानवः॥
ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥१२॥
वधादपि परं पापं चक्षुषा तु वियोजयेत्॥
पार्थिवेन न तत्कार्यं कदाचिदपि कस्यचित् ॥१३॥
तमःप्रवेशनं कृत्वा परेषां पुरुषाधमः॥
अन्धत्वं ध्रुवमाप्नोति यत्रयत्राभिजायते ॥१४॥
अपि कल्पसहस्राणि तमसा न वियुज्यते॥
अङ्गच्छेदनभीतस्य कृत्वा त्राणमनिन्दिताः ॥१५॥
रुद्रलोकमवाप्नोति कल्पशेषमिति श्रुतिः॥
कल्पादिसर्गे भवति ज्ञानयुक्तो नरस्ततः ॥१६॥
कृत्वा बन्धनभीतस्य परित्राणन्नरोत्तमः॥
सर्वबन्धविनिर्मुक्तो वायुलोके महीयते ॥१७॥
आसेवनाद्धि भीतस्य त्राणं कृत्वा तथा नरः॥
सर्वदुःखविनिर्मुक्तः साध्यानां लोकमाप्नुयात् ॥१८॥
ताडनाद्यस्तु भीतस्य परित्राणं समाचरेत्॥
सर्वबन्धविनिर्मुक्तो भृगूणां लोकमश्नुते ॥१९॥
विवासनाच्च भीतस्य त्राणं कृत्वा तथा नरः॥
स्वर्गलोकमवाप्नोति मानुष्ये स्थानमुत्तमम् ॥२०॥
धनापहारभीतस्य त्राणं कृत्वा नरोत्तमः॥
स्वर्गलोकमवाप्नोति पूजां देवगणात्तथा ॥२१॥
नरः कृतपरित्राणः पुण्यं किञ्चिद्यदाचरेत्॥
भागी तस्य परित्राता नरः पुण्यस्य कर्मणः ॥२२॥
पशूनाञ्च मृगाणाञ्च पक्षिणाञ्च तथा द्विजाः॥
तृणद्रुमलतानाञ्च त्राणाद्भवति नाकभाक् ॥२३॥
वधकस्य हस्तगतं पशुं क्रीत्वा नरोत्तमः॥
नाकलोकमवाप्नोति सुखी सर्वत्र जायते ॥२४॥
यावन्ति पशु रोमाणि तावद्वर्षाणि मानवः॥
स्वर्गलोकमवाप्नोति यश्च त्राणं करोत्यसौ ॥२५॥
अपि कीटपतङ्गस्य त्राणात्सर्वमुपाश्नुते॥
बहून्यब्दसहस्राणि नात्र कार्या विचारणा ॥२६॥
चौरग्रस्तं नृपग्रस्तं रिपुग्रस्तं तु मोक्षयेत्॥
व्यालग्रस्तं तथा विप्राः सोऽश्वमेधफलं लभेत् ॥२७॥
विषमे तु तथा दुर्गे सलिले वा हुताशने॥
निमग्नं यः परित्रायेत्सोऽश्वमेधफलं लभेत् ॥२८॥
व्याधितस्यौषधं दत्त्वा प्राणदानफलं लभेत्॥
रोगार्तं परिचर्याथ प्राणदानफलं लभेत् ॥२९॥
उपचारं तथा कृत्वा भिषङ् मूल्यं विना द्विजाः॥
प्राणदानफलं तस्य नाकलोके महीयते ॥३०॥
ये रक्ष्यमाणा निहता मनुष्या भीरुङ्गतास्ते त्रिदशेन्द्रलोकम्॥
च्यवन्ति नाद्यापि च ते नृवीराः कालेऽपि तेषां च्यवनं न चास्ति ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वभयदानप्रशंसावर्णनो नाम द्व्यधिकत्रिशततमोऽध्यायः ॥३०२॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP