संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४९

खण्डः ३ - अध्यायः २४९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
दत्तं यच्छौचहीनेन न तद्गृह्णन्ति देवताः॥
बुभुत्सवश्च धर्मज्ञाः शुचिकामाश्च देवताः ॥१॥
यक्षैश्च राक्षसैश्चैव पिशाचैश्च निशाचरैः॥
डाकिनीभिश्च धर्मज्ञाः शौचहीनोऽभिभूयते ॥२॥
शौचहीनमथाभ्येति स्वयं निन्दति कं द्विजाः॥
व्याधिहीनो ह्यशौचश्च सर्वैरेवाभिभूयते ॥३॥
वर्धते च तथानर्थाः समर्थाश्च व्रजन्ति च॥
शौचहीनस्य रिपवो यान्ति वृद्धिं परां द्विजाः ॥४॥
स्त्रीशौचमर्थशौचं च वाक्छौचमपि च द्विजाः॥
एतानि यस्य शौचानि स शुचिः परिकीर्तितः ॥५॥
योर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः॥
ततश्चाप्यधिकं शौचमहिंसा परिकीर्तिता ॥६॥
शौचेन हीना नरकं व्रजन्ति शौचेन हीना विभजन्त्यनर्थान्॥
शौचेन हीनाश्च भवन्ति निन्द्यास्तस्मादशौचं परिवर्जनीयम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शौचवर्णनो नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२४९॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP