संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६६

खण्डः ३ - अध्यायः ०६६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कंडेय उवाच॥
कर्तव्यस्तुम्बुरुर्देवो मातृमध्यगतः प्रभुः॥
उपविष्टो वृषे कार्यः शर्ववत्स चतुर्मुखः ॥१॥
उपविष्टस्तु कर्तव्यः स तु पार्थिवसत्तम॥
महादेवेन तस्योक्तं रूपं ते सकलं मया ॥२॥
कपालं तस्य कर्तव्यं मातुलुङ्गधरे करे॥
मातुलुङ्गं च कर्तव्यं त्र्यम्बकेण तदीरितम् ॥३॥
तस्य दक्षिणतः कार्यं तथा मातृद्वयं भवेत्॥
वामतस्तस्य कर्तव्यं मातृद्वितयमेव च ॥४॥
जया च विजया चैव कर्तव्या दक्षिणेन तु॥
जयन्ती वामतः कार्या तथा चैवापराजिता ॥५॥
सर्वाश्च द्विभुजाः कार्याश्चतुर्वक्त्रास्तथैव च॥
सर्वासां वामहस्तेषु कपालानि तु कारयेत् ॥६॥
दण्डः कार्यो महाराज दक्षिणे तु जया करे॥
विजयायाः करे खड्गः कार्यो भिन्नाञ्जनप्रभः ॥७॥
अक्षमालाधरकरां जयन्तीं नृप कारयेत॥
भिन्दिपालकरा कार्या तथा देव्यपराजिता ॥८॥
पादपीठगतं पादं सर्वासामेव कारयेत्॥
दक्षिणं यानगं वामं कर्तव्यं नृप कुञ्चितम् ॥९॥
जया पुरुषगा कार्या विजया कौशिकोपमा॥
जयन्ती तुरगारूढा मेघगा चापराजिता ॥१०॥
चन्द्रांशुगौरः कर्तव्यो महादेवस्तु तुम्बुरुः ॥११॥
देवीप्रियार्थं भुवनस्य गोप्ता तासां स मध्ये भगवानथेशः॥
भक्तेषु कामान्विभधन्नथास्ते स पूजनीयस्त्रिदशारिहन्ता ॥१२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवीचतुष्टयसहि ततुंबुरूपनिर्माणन्नाम षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP