संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५७

खण्डः ३ - अध्यायः १५७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि सप्तमूर्तिव्रतं तव॥
चैत्रमासादथारभ्य प्रतिपत्प्रभृति क्रमात् ॥१॥
सुभास्वरा वर्हिषदो ह्यग्निष्वात्तास्तथैव च॥
क्रव्यादानुपहूताँश्च आज्यपांश्च सुकालिनः ॥२॥
पूजयेत्प्रत्यहं राजन्गन्धमाल्यानुलेपनैः॥
नैवेद्यं कृसरं कुर्यात्तिलानग्नौ च होमयेत् ॥३॥
कृसरं भोजयेद्विप्रांस्तिलान्दद्याच्च दक्षिणाम्॥
नक्ताशनस्तथा तिष्ठेद्धविष्याशी नराधिप ॥४॥
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम॥
व्रतावसाने दद्याच्च रजतस्य पलं द्विजे ॥५॥
व्रतेनानेन चीर्णेन सूर्यलोकगतिर्भवेत्॥
त्रिदशैः पूज्यमानस्तु कामचारी विहङ्गमः ॥६॥
वर्षं समग्रं पुरुषस्तु कृत्वा संसारमोक्षं लभते नरेन्द्र॥
कृत्वा तथा द्वादशवत्सराणि मानुष्यमासाद्य महीपतिः स्यात् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० संवादे सुभासुरादिपितृव्रतवर्णनो नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥१५७॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP