TransLiteral Foundation

रसरत्नाकर - प्रकरण ३.२०

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.२०
साङ्गोपाङ्गं अनेकयोगनिचयं सारं वरं चोद्धृतं युक्तं पारदबन्धनं मृदुहठात्दृष्टं परं यन्मया ।
तत्सर्वं सुगमं प्रवच्मि सहसा सिद्धाननादागतं प्रत्यक्षानुभवेन वार्तिकगणैः साम्राज्यदं वीक्ष्यतात् ॥२०.१॥
{पारदबन्धन (१)}
शुद्धपारदभागैकं टङ्कणेन समं समम् ।
मर्दयेत्त्रिफलाक्वाथैर्नरमूत्रैर्युतैस्ततः ॥२०.२॥
कर्षांशा गुलिकाः कृत्वा माषचूर्णैर्जलान्वितैः ।
सूतादृष्टगुणैर्लिप्त्वा छायाशुष्कां धमेद्दृढम् ॥२०.३॥
कोष्ठीयन्त्रे वंकनाले किट्टं भित्त्वा समाहरेत् ।
रसोऽसौ वर्तुलाकारः षण्डबद्धो भवत्यलम् ॥२०.४॥
{पारदबन्धनं (२)}
आरण्यमल्लिकाद्रावैर्मूषां कन्याद्रवैश्च वा ।
द्रवैर्हरिणखुर्या वा नरमूत्रयुतं रसम् ॥२०.५॥
त्रिदिनं मर्दयेत्खल्वे मूत्रं दत्त्वा पुनः पुनः ।
तद्वटीं माषपिष्टेन लिप्त्वा धाम्यं च पूर्ववत् ॥२०.६॥
तद्वत्सूतो भवेद्बद्धस्तच्छोध्यं काचटंकणैः ॥२०.७॥
{पारदबन्धनं (३)}
मर्कटीमूलजद्रावैः पारदं मर्दयेद्दिनम् ।
मर्कटीमूलजे पिण्डे क्षिपेत्तन्मर्दितं रसम् ॥२०.८॥
तत्पिण्डे वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ।
जायते खोटबद्धोऽयं सर्वकार्यकरक्षमः ॥२०.९॥
{पारदबन्धनं (४)}
अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां घनं क्षिपेत् ।
तन्मध्ये जारितं सूतं क्षिप्त्वा रुद्ध्वाथ रोधयेत् ॥२०.१०॥
मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।
ततो गजपुटे पच्यात्पारदो बन्धमाप्नुयात् ॥२०.११॥
{पारदबन्धनं (५)}
जलकुम्भ्या द्रवैः सूतं मर्दयेद्दिवसत्रयम् ।
जलकुम्भ्या दलैर्मूषां कृत्वा तत्र क्षिपेत्तु तत् ॥२०.१२॥
रुद्ध्वा तां वज्रमूषायां छायाशुष्कां पुटेल्लघु ।
उत्पलैकैकवृद्ध्या तु विंशद्वारं पुटैः पचेत् ॥२०.१३॥
ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥२०.१४॥
{पारदबन्धनं (६)}
एकवीराद्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।
एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।
तस्यां पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥२०.१५॥
{पारदबन्धनं (७)}
आरक्तक्षीरकंदोत्थद्रवैस्त्रीन्स्तन्यसंयुतैः ।
त्रिदिनं पारदं मर्द्यं वज्रकंदद्रवैस्त्र्यहम् ॥२०.१६॥
क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् ।
तत्र पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥२०.१७॥
{पारदबन्धनं (८)}
कृत्वा ताम्रमयं चक्रं विस्तीर्णं चतुरङ्गुलम् ।
उन्नतं चाङ्गुलीकं तु सुदृढं वर्तुलं समम् ॥२०.१८॥
गंधकं पारदं तुत्थं कुर्यात्खल्वेन कज्जलीम् ।
तत्कज्जलं ताम्रतुल्यं मूषामध्ये विनिक्षिपेत् ॥२०.१९॥
तं चक्रं मूषिकावक्त्रे दत्त्वा रुद्ध्वाथ शोषयेत् ।
तं पचेद्धण्डिकायंत्रे द्वियामं लघुवह्निना ॥२०.२०॥
उद्धृत्य ग्राहयेच्चक्राद्रसराजं पुनः पुनः ।
तत्तुल्यं टंकणं काचमूर्ध्वाधस्तस्य दापयेत् ॥२०.२१॥
अंधमूषागतं धाम्यमेवं वारत्रये कृते ।
रसेन्द्रो जायते बद्धो ह्यक्षीणो नात्र संशयः ॥२०.२२॥
{पारदबन्धनं (९)}
शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकम् ।
मर्द्यमुन्मत्तकद्रावैः खल्वे यामचतुष्टयम् ॥२०.२३॥
पातयेत्पातनायंत्रे दिनैकं मन्दवह्निना ।
ऊर्ध्वलग्नमधःस्थं च तत्सर्वं तु समाहरेत् ॥२०.२४॥
मर्द्यं उन्मत्तकद्रावैर्दृढं यामचतुष्टयम् ।
तद्गोलं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ॥२०.२५॥
पुनः पाच्यं पुनर्मर्द्यं ऊर्ध्वाधःस्थं प्रयत्नतः ।
सर्वं यावदधो भाण्डे तिष्ठते तावतावधिः ॥२०.२६॥
तत्सर्वं पूर्ववन्मर्द्यं गोलं कृत्वाथ शोषयेत् ।
सम्यक्संपेषयेदम्लैर्नलिकं कुष्ठमेव च ॥२०.२७॥
पीताञ्जनं वा पेष्यं च तेन गोलं प्रलेपयेत् ।
वज्रमूषोदरे चाथ तेन कल्केन लेप्य वै ॥२०.२८॥
गोलकं तापयेत्तत्र वंकनालेन तं धमन् ।
खोटबद्धो भवेत्साक्षात्तीव्रधामानलेन तु ॥२०.२९॥
{पारदबन्धनं (१०)}
पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला ।
पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥२०.३०॥
{पारदबन्धनं (११)}
नागं तारं समं द्राव्यं तच्चूर्णं पलमात्रकम् ।
शुद्धसूतं पलैकं च सर्वतुल्या मनःशिला ।
पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥२०.३१॥
{मेर्चुर्यः: बन्धन}
पलं सूतं पलं तारं पिष्टमम्लेन केनचित् ।
द्वाभ्यां तुल्या शिला योज्या पूर्वयोगेन पाचयेत् ॥२०.३२॥
{मेर्चुर्यः: बन्धन}
तारवत्स्वर्णपिष्टीं च गंधकेन च पूर्ववत् ॥२०.३३॥
{मेर्चुर्यः: बन्धन}
कृष्णाभ्रकस्य सत्वं च तीक्ष्णं कांतं च हाटकम् ।
शुल्बं तारं च माक्षीकं समं सूक्ष्मं विचूर्णयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटं भवेत्तु तत् ॥२०.३४॥
{मेर्चुर्यः: बन्धन}
श्वेताभ्रकस्य सत्वं च तारं तीक्ष्णं च माक्षिकम् ।
समं चूर्ण्य कृतं खोटं खोटांशं शुद्धसूतकम् ॥२०.३५॥
हरितालं द्वयोस्तुल्यं सूक्ष्मं मर्द्यं च पूर्ववत् ।
महदग्निगतं ध्मातं खोटं भवति तद्रसम् ॥२०.३६॥
{मेर्चुर्यः: बन्धन}
पारदं गंधकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् ।
तद्गोलं द्विगुणं गंधं दत्त्वा मूषाधरोत्तरम् ॥२०.३७॥
रुद्ध्वा संधिं विशोष्याथ कोष्ठीयन्त्रे दृढं धमन् ।
तत्सूतं जायते खोटं गन्धबद्धमिदं भवेत् ॥२०.३८॥
{मेर्चुर्यः: बन्धन}
पञ्चाङ्गं राजवृक्षस्य क्वाथमष्टावशेषितम् ।
तद्द्रवं तु रसे क्षिप्त्वा पाच्यं यामद्वयं शुभम् ॥२०.३९॥
चोवाबद्धो भवत्येष खोटो वै सर्वकार्यकृत् ॥२०.४०॥
{मेर्चुर्यः: बन्धन}
चन्द्रवल्ल्या द्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।
टंकणेन तु संयोज्य वटिकां कारयेद्बुधः ।
कोष्ठयन्त्रगतं ध्मातं खोटबद्धो भवेद्रसः ॥२०.४१॥
{मेर्चुर्यः: बन्धन}
भल्लातकानां तैलान्तः पलमेकं क्षिपेद्रसम् ।
यावत्तैलं पचेत्तावद्रविक्षीरं क्षिपन्क्षिपन् ॥२०.४२॥
घट्टयेल्लोहदण्डेन खोटबद्धो भवेद्रसः ॥२०.४३॥
{... पारदबन्धनं (२०)}
द्रवैः समूलकार्पास्यास्त्रिदिनं मर्दयेत्समम् ।
टंकणेन पादांशेन वटिकाः कारयेल्लघु ॥२०.४४॥
वल्मीकमृत्तिकामाषगोधूमानां च चूर्णकम् ।
समं मर्द्योदकेनैव मूषां तेनैव कारयेत् ॥२०.४५॥
तदन्तर्मर्दितं सूतं वटीं क्षिप्त्वा धमेद्दृढम् ।
खोटबद्धो भवेत्सोऽपि अंधमूषागतो रसः ॥२०.४६॥
{पारदबन्धनं (२१)}
रसं पञ्चगुणं चैव द्विगुणं श्वेतटंकणम् ।
श्वेतवातारितैलानां मज्जामश्वस्य कोमला ॥२०.४७॥
त्रिदिनं मर्दयेत्खल्वे नरमूत्रेण साधकः ।
ततो गोधूमचूर्णं तु क्षिप्त्वा कुर्याद्वटीः शुभाः ॥२०.४८॥
विशोष्याथ धमेत्पश्चात्काचटंकणयोगतः ।
खोटबद्धो भवेत्सूतस्तेजस्वी सर्वकार्यकृत् ॥२०.४९॥
{पारदभस्म (१)}
कर्कोटी लाङ्गलीकंदद्रवैर्मर्द्यं दिनत्रयम् ।
वंध्याकर्कोटकीकंदे तं रसं तु निवेशयेत् ॥२०.५०॥
कंदबाह्ये मृदा लेप्यं सर्वतोऽङ्गुलमात्रकम् ।
शुष्कं तुषपुटे पच्यात्त्रिदिनं परिवर्तयन् ॥२०.५१॥
समुद्धृत्य पुनर्मर्द्यं पूर्वकंदद्रवैस्त्र्यहम् ।
पूर्ववत्पुटपाकेन पारदो जायते मृतः ॥२०.५२॥
{पारदभस्म (२)}
हंसपाद्या द्रवैर्मर्द्यं सप्ताहं शुद्धपारदम् ।
क्षीरकंदोदरान्तर्वै क्षिप्त्वा कंदं मृदा लिपेत् ॥२०.५३॥
करीषाग्नौ दिनं पच्यात्पूर्ववन्मर्दयेत्पुनः ।
कंदे क्षिप्त्वा पचेत्तद्वत्ततो मर्द्यं च पूर्ववत् ॥२०.५४॥
क्षीरकंदोदरे रुद्ध्वा मृदा लिप्तं च शोषयेत् ।
सम्यग्गजपुटे पच्यात्मृतो भवति निश्चितम् ॥२०.५५॥
{पारदभस्म (३)}
हंसपादीक्षीरकंदद्रवैर्मर्द्यं दिनत्रयम् ।
रसं तत्क्रौञ्चपादान्तः क्षिप्त्वा पादं मृदा लिपेत् ॥२०.५६॥
करीषाग्नौ दिनं पच्यान्मर्द्यात्पूर्वद्रवैस्त्र्यहम् ।
दिनं तद्वत्पुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।
जायते भस्मसूतोऽयं सर्वकार्यकरक्षमः ॥२०.५७॥
{मुखकरणम्; सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}
उक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते ।
वचा चण्डालिनीकंदं ब्रह्मदण्डीयमूलकम् ॥२०.५८॥
गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् ।
चणमात्रां वटीं कृत्वा पूर्वसूते द्रुते क्षिपेत् ॥२०.५९॥
एकां एकां धमन्नेव वटिकासप्तकं क्रमात् ।
ग्रसते सर्वलोहानि यथेष्टानि न संशयः ॥२०.६०॥
ग्रासो देयो यथाशक्त्या पूर्ववन्मारयेत्पुनः ।
मुखं बद्ध्वा नियुञ्जीत तारे ताम्रे भुजंगमे ॥२०.६१॥
तत्सर्वं जायते स्वर्णं वेधो दशगुणो मतः ।
सिद्धयोगः समाख्यातः सम्यग्दृष्ट्वा गुरोर्मुखात् ॥२०.६२॥
{चोप्पेर्=> गोल्द्}
सूताभ्रं गंधकं शुद्धं तृणज्योतोयमूलकम् ।
तत्सर्वं मातुलिंगाम्लैर्दिनं एकं समं समम् ॥२०.६३॥
शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्पुनरुत्थाप्य लेपयेत् ॥२०.६४॥
एवं पुटत्रये पक्वं तत्ताम्रं कांचनं भवेत् ॥२०.६५॥
{चोप्पेर्=> गोल्द्}
रक्तस्नुहीपयोभिश्च ताम्रपत्राणि लेपयेत् ।
कारयेदग्नितप्तानि तस्मिन्क्षीरे निषेचयेत् ॥२०.६६॥
इत्येवं सप्तधा कुर्याल्लेपतापनिषेचनम् ।
समावर्त्य तु तत्ताम्रं दिव्यं भवति कांचनम् ॥२०.६७॥
{चोप्पेर्, लेअद्, सिल्वेर्=> गोल्द्}
रसकं दरदं गंधं गगनं कुनटी समम् ।
आरक्तस्नुक्पयोभिस्तन्मर्दयेद्दिवसत्रयम् ॥२०.६८॥
तेन वेध्यं द्रुतं ताम्रं नागं वा तारमेव वा ।
सहस्रांशेन तद्दिव्यं सुवर्णं जायते ध्रुवम् ॥२०.६९॥
{नागस्य स्वर्णम्}
रक्तस्नुहीभवैः क्षीरै रजनीं मर्दयेत्त्र्यहम् ।
तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् ।
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ॥२०.७०॥
{चोप्पेर्=> लेअद्}
पद्मिनीपत्रपुष्पाभा विज्ञेया स्थलपद्मिनी ।
भङ्गे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥२०.७१॥
पारदं गंधकं तालं माहिषी कुनटी समम् ।
पूर्वोक्तपद्मिनीयुक्तं मर्दयेद्दिनसप्तकम् ।
तेन शुल्बं भवेत्स्वर्णं सहस्रांशेन वेधितम् ॥२०.७२॥
{तारबीजकल्कः}
नागं बंगं तीक्ष्णसारं तारं च क्रमश उत्तरम् ।
पञ्चानां तु समं ताम्रं सर्वं मूषागतं धमेत् ॥२०.७३॥
प्रकटं वंकनालेन यावत्तारावशेषितम् ।
तत्तारं पद्मरागाभं जायते द्रावयेत्पुनः ॥२०.७४॥
वेध्यं रसकसत्वेन पञ्चमांशेन यत्नतः ।
तद्भवेत्कांचनं दिव्यं सिद्धयोग उदाहृतः ॥२०.७५॥
{तिन्=> सिल्वेर्}
रक्तचित्रकपञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तद्वापं द्रुतबंगस्य रुद्ध्वा रुद्ध्वा त्रिवारकम् ॥२०.७६॥
देयं तज्जायते तारं शंखकुन्देन्दुसन्निभम् ॥२०.७७॥
{चोप्पेर्=> गोल्द्}
रक्तचित्रकमूलं तु कांजिकं शुद्धपारदम् ।
कङ्गुणीतैलसंयुक्तं सर्वं कल्कं प्रलेपयेत् ॥२०.७८॥
ताम्रपत्राणि तप्तानि तस्मिन्सिञ्चेत्त्रिसप्तधा ।
एतत्ताम्रं द्विषड्भागं तारं षोडशभागकम् ॥२०.७९॥
एकीकृत्य समावर्त्य तेन पत्राणि कारयेत् ।
रक्तचित्रकमूलानि भल्लाततैलपेषितम् ॥२०.८०॥
अनेन पूर्वपत्राणि प्रलिप्तानि पुटे पचेत् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥२०.८१॥
{चोप्पेर्=> गोल्द्}
नागिनीकन्दसूतेन्द्ररक्तचित्रकमूलकम् ।
पिष्ट्वा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् ।
तद्वत्पच्यात्पुटैरेवं दिव्यं भवति कांचनम् ॥२०.८२॥
{चोप्पेर्=> गोल्द्}
ज्योतिष्मतीभवैस्तैलैस्ताम्रकुम्भं प्रपूरयेत् ।
मुखं रुद्ध्वा क्षिपेद्भूमौ पृष्ठे तुषपुटं सदा ॥२०.८३॥
एवं षण्मासपर्यन्तं पुटयेदुद्धरेत्क्रमात् ।
बहिस्तुषपुटे पच्यात्त्रिदिनं तद्दिवनिशम् ॥२०.८४॥
तत्ताम्रं हाटकं तुल्यं समावर्तं तु कारयेत् ।
क्षिप्ते ज्योतिष्मतीतैले सर्वं भवति कांचनम् ॥२०.८५॥
{चोप्पेर्=> गोल्द्}
क्षीरकन्दभवे क्षीरे तप्तं ताम्रं निषेचयेत् ।
शतवारं प्रयत्नेन तत्ताम्रं कांचनं भवेत् ॥२०.८६॥
{सिल्वेर्=> गोल्द्}
गंधकं रसकं ताप्यं पारदं रक्तचन्दनम् ।
मर्द्यं रुदन्तिकाद्रावैरविच्छिन्नं दिनत्रयम् ॥२०.८७॥
तेन तारस्य पत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ।
इत्येवं सप्तधा कुर्यात्दिव्यं भवति कांचनम् ॥२०.८८॥
{चोप्पेर्=> गोल्द्}
कृष्णाया वाथ पीताया देवदाल्या फलद्रवम् ।
विष्णुक्रान्ताद्रवं तुल्यं कृत्वा तेनैव मर्दयेत् ॥२०.८९॥
सप्ताहं पारदं शुद्धं ततस्ताम्रं प्रलेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्ततस्तीव्राग्निना धमेत् ॥२०.९०॥
दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति कांचनम् ॥२०.९१॥
{सोफ़्तेनिन्गोफ़् फ़िस्सुरेद्मिनेरल्स्}
वसुभट्टरसेनाथ त्रिधा सिञ्चेत्सुतापितम् ।
लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थको यथा ॥२०.९२॥
{तिन्=> सिल्वेर्}
देवदाल्या फलं मूलं ईश्वरीफलजद्रवम् ।
पिष्ट्वा तत्कल्कवापेन द्रुतं बंगं दृढं भवेत् ॥२०.९३॥
भूयो भूयस्त्वयं वाप्यस्तारं भवति शोभनम् ॥२०.९४॥
{चोप्पेर्=> गोल्द्}
कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा ।
नृकपाले श्वेतगुंजां वापयेच्छुद्धभूमिषु ॥२०.९५॥
सेचयेत्सलिलं नित्यं यावत्फलवती भवेत् ।
मन्त्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानि वै ॥२०.९६॥
शुद्धताम्रपलं श्वेतं विंशत्युत्तरकं शतम् ।
एकैकं पूर्वबीजानां सम्यग्रुद्ध्वा धमेद्दृढम् ॥२०.९७॥
तत्ताम्रं जायते तारं शंखकुन्देन्दुसन्निभम् ।
तारं तज्जायते स्वर्णं सुशुद्धा बद्धरीतिका ॥२०.९८॥
{चोप्पेर्=> सिल्वेर्}
भूनागानां रसैर्मर्द्यं शुद्धं तालं दिनावधि ।
तत्पिण्डं हण्डिकामध्ये तालकांशं निरोधयेत् ॥२०.९९॥
ताम्रपत्राणि तत्पश्चात्ढङ्कणेन निरुध्य च ।
हंडिका भस्मना पूर्या रुद्ध्वा चण्डाग्निना पचेत् ॥२०.१००॥
पञ्चयामात्समुद्धृत्य निष्कटंकणसंयुतम् ।
मूकमूषागतं धाम्यं गुटिकां तां समुद्धरेत् ॥२०.१०१॥
स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् ।
वारत्रयं क्षिपेत्तस्मिन्वटिकां वेधनान्मुखम् ॥२०.१०२॥
मुखं तस्य भवेत्तीव्रं शुद्धं बंगं द्रवत्यलम् ।
यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥२०.१०३॥
जीर्णे शतगुणे वङ्गे ततरताम्रस्य दापयेत् ।
द्रुतस्य शतभागेन तत्तारं जायते शुभम् ॥२०.१०४॥
{नागमुखकरणम्}
गंधकं धूमसारं च फट्करी टंकणं समम् ।
एरण्डबीजमज्जापि सर्वेषां द्विगुणा भवेत् ॥२०.१०५॥
भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र मर्दयेत् ।
चणमात्रा वटीः कार्या ख्यातेयं वडवामुखा ॥२०.१०६॥
शुद्धनागं द्रुतं क्षेप्यं तैले एरण्डके पुनः ।
द्राव्यं द्राव्यं पुनः क्षेप्यं यावद्वारं शृतं भवेत् ॥२०.१०७॥
पुनस्तस्मिन्द्रुते देया वटिका वडवामुखा ।
द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥२०.१०८॥
ग्रसते सर्वलोहानि सत्वानि विविधानि च ।
यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥२०.१०९॥
{कठिनधातोर्मृदूकरणम्}
मधूकपुष्पी यष्टीकं रंभाकंदं घृतं गुडम् ।
तिलतैलं अजाक्षीरं क्षौद्रं च तुल्यतुल्यकम् ॥२०.११०॥
तन्मध्ये कठिनं धातु त्रिधा सिञ्च्यात्सुतापितम् ।
मृदुत्वं याति नो चित्रं सूत्रयोग्यं न संशयः ॥२०.१११॥
{कठिनधातोर्मृदूकरणं (२)}
वसुभद्ररसेनाथ त्रिधा सिञ्च्य सुतापितम् ।
लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थकोपमः ॥२०.११२॥
{कठिनधातोर्मृदूकरणं (३)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि तत्र वै ।
चूर्णितं टंकणं क्षिप्त्वा तद्भाण्डस्थं खनेद्भुवि ॥२०.११३॥
त्रिसप्ताहं समुद्धृत्य तद्वापे मृदुतां व्रजेत् ।
स्वर्णं वा यदि वा रौप्यं मृदु स्यात्पत्रयोग्यकम् ॥२०.११४॥
{अभ्रग्रासी रसः}
तृणज्योतीयमूलेन मातुलिंगरसेन च ।
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥२०.११५॥
{गुह्याख्यसूतेन नागवेधः}
भूनागसूक्ष्मचूर्णं तु टंकणेन समं भवेत् ।
तच्चूर्णं तु द्रुते नागे वाह्यं शतगुणं धमन् ॥२०.११६॥
गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते ।
शिलागंधकमाक्षीकैर्भूनागद्रवपेषितैः ॥२०.११७॥
मूषागर्भं लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् ।
भुक्तं तस्मिन्क्षिपेत्स्वर्णं स्तोकं स्तोकं धमन्धमन् ॥२०.११८॥
ग्रसते भारसंख्या तु मूषा लेप्या पुनः पुनः ।
मुञ्चत्यसौ द्रुते नागे गुह्याद्गुह्यं प्रकाशितम् ॥२०.११९॥
{गुह्याख्यसूतेन वङ्गवेधः}
भूनागं टंकणं तुल्यं सूक्ष्मचूर्णानि कारयेत् ।
तं वाहयेद्द्रुते बंगे यावच्छतगुणं धमन् ॥२०.१२०॥
ततः शतगुणं बंगं तस्यैवोपरि वाहयेत् ।
स्तोकं स्तोकं धमन्नेव ग्रसते नात्र संशयः ॥२०.१२१॥
{गुह्यवङ्गकरणं तेन वेधः}
तालकं सैंधवं तुल्यं भूनागद्रवपेषितम् ।
मूषागर्भे लिपेत्तेन तद्बंगं तत्र निक्षिपेत् ॥२०.१२२॥
स्तोकं स्तोकं क्षिपेत्तस्मिन्बिडं दत्त्वा धमन्धमन् ।
भारसंख्या ग्रसत्येवं गुह्यवङ्गमिति स्मृतम् ॥२०.१२३॥
द्रुते बंगे विनिक्षिप्तं यावत्संख्या न संशयः ।
तावद्द्रुते न संदेहः सिद्धयोग उदाहृतः ॥२०.१२४॥
क्षिप्त्वाथ माहिषे शृङ्गे मर्दयन्नग्निना पचेत् ।
निष्कमेकं भवेद्यावत्तावन्मर्द्यं क्षिपन्क्षिपन् ॥२०.१२५॥
तद्भवेद्रसतुल्यं तु समादायाथ तत्समम् ॥२०.१२६॥
{गुह्ययोगः}
पारदं शुद्धहेमाथ सत्वं भूनागसंभवम् ।
चत्वारिंशन्नागभागा मर्द्यं जंबीरजद्रवैः ॥२०.१२७॥
तद्गोलकं विशोष्याथ कल्के भूनागसंभवे ।
मूषागर्भे विलेप्यादौ तस्यां गोलं निरोधयेत् ॥२०.१२८॥
धमेत्तीव्राग्निना तावद्यावन्नात्रावशेषितम् ।
सर्ववद्ग्रसते दत्ते गुह्याख्यं योगमुत्तमम् ॥२०.१२९॥
{कामधेनुः (१)}
अथातः सम्प्रवक्ष्यामि गुटिकाबंधमुत्तमम् ।
समजीर्णं कृतं व्योम समतो रसं जारयेत् ॥२०.१३०॥
रविसंख्यांशकं शुल्बं दत्त्वा पिष्टिं च कारयेत् ।
धान्याभ्रकसमं गंधं शुल्बे क्षिप्त्वा विमर्दयेत् ॥२०.१३१॥
तयोर्मूषाकृतिं कृत्वा पिष्टीमध्ये विमोचयेत् ।
नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥२०.१३२॥
पचेदतसीतैलेन मासमात्रं तु साधकः ।
अक्षया कामधेनुश्च वङ्गस्तम्भनकारिणी ॥२०.१३३॥
{कामधेनुः (२)}
पारदे जार्यं कृष्णाभ्रं रुक्मं अष्टगुणं यदि ।
रञ्जितं गन्धरागेण नरमांसेन वेष्टितम् ॥२०.१३४॥
माषपिष्ट्या प्रलिप्याथातसीतैलेन पाचयेत् ।
कामधेनुरियं ख्याता नागस्तम्भनकारिणी ॥२०.१३५॥
{कामधेनुः (३)}
रसात्पादांशकं हेमपिष्टिं कुर्याच्च सुन्दराम् ।
विलिप्य कामधेनुं च नागद्रावे नियोजयेत् ॥२०.१३६॥
तं नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् ।
गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे ।
शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ॥२०.१३७॥
{सिल्वेर्=> गोल्द्}
शिलया मारितो नागः सूतराजसमन्वितः ।
रञ्जितो गन्धरागेण समहेम्ना च सारयेत् ।
तारवेधः प्रदातव्यो दिव्यं भवति कांचनम् ॥२०.१३८॥
{लेअद्=> गोल्द्}
शिलया रविदुग्धेन नागपत्राणि लेपयेत् ।
मारयेत्पुटयोगेन दिव्यं भवति कांचनम् ॥२०.१३९॥
{सितस्वर्ण => गोल्द्}
मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ।
शतधा तत्प्रयोगेन शोष्यं पेष्यं खरातपे ॥२०.१४०॥
सितस्वर्णस्य पत्राणि लिप्त्वा लिप्त्वा पुटे पचेत् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति कांचनम् ॥२०.१४१॥
{गगनग्रासः}
तृणजातीयमूलं तु मातुलिङ्गरसेन च ।
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥२०.१४२॥
सिद्धैर्गणैः सुरवरै रससिद्धिकामैर्बद्धं हठात्परममन्त्रबलेन तैश्च ।
तस्माद्विशिष्टं अनुजैः कृतमन्त्रजापैः कार्यं ततो रसवरे वरबन्धनं च ॥२०.१४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:53.8870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चूलखंड थंडावणें

  • वरीलप्रमाणेच. ‘घरात चुलखंड थंडावलं आहे, तिथं माझी हाडं लावूं की तुमची !’ -एकच प्याला ३.२. 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site