TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.५

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.५
महारसैश्चोपरसैः ससूतैर्हेम्नो दलं रञ्जनमत्र युक्त्या ।
नानाविधं वर्णविवर्धनं च तत्कथ्यते वार्त्तिकभुक्तियोग्यम् ॥५.१॥
{गोल्दः: फ़्रों सितस्वर्ण}
वैक्रान्तसत्त्वभागैकं शुद्धवैक्रान्तमेव वा ।
कांस्याख्या विमला वापि हेमाख्या विमलापि वा ॥५.२॥
समेन नागचूर्णेन अन्धमूषागतं धमेत् ।
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ॥५.३॥
आदाय मधुना पेष्यं याममात्रं प्रयत्नतः ।
स्वर्णं तारं समं द्राव्यं तेन पत्राणि कारयेत् ॥५.४॥
सितस्वर्णमिदं ख्यातं पूर्वकल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥५.५॥
जायते कनकं दिव्यं सेचयेल्लवणोदकैः ।
लोहसंक्रान्तिनुत्त्यर्थं सेच्यं ब्राह्मीद्रवेण वा ॥५.६॥
एवं विमलनागाभ्यां पृथग्योग उदाहृतः ।
{गोल्दः: फ़्रों सितस्वर्ण}
नागवैक्रान्तयोगेन मधूच्छिष्टेन लेपयेत् ॥५.७॥
सहस्रांशे सिते हेमे दिव्यं भवति काञ्चनम् ।
{सितस्वर्ण => गोल्द्}
मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ॥५.८॥
शतधा तत्प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।
अनेन सितस्वर्णस्य पत्रं लिप्त्वा पुटे पचेत् ॥५.९॥
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ।
{सितस्वर्ण => गोल्द्}
नागचूर्णं ताप्यचूर्णं नागवैक्रान्तमेव वा ॥५.१०॥
अंधमूषागतं खोटं सिद्धचूर्णेन संयुतम् ।
मर्दनं पुटपाकं च पूर्ववत्कारयेत्क्रमात् ॥५.११॥
तेनैव मधुनाक्तेन शुद्धं हाटकपत्रकम् ।
लिप्त्वा लिप्त्वा पुटैः पच्याद्यावत्कुङ्कुमसंनिभम् ॥५.१२॥
एतत्स्वर्णशतांशेन सितस्वर्णं तु वेधयेत् ।
जायते कनकं दिव्यं रक्तवर्गेण सेचयेत् ॥५.१३॥
{सितस्वर्ण => गोल्द्}
वैक्रान्तं नागचूर्णं च पुटान्तं पूर्ववत्कृतम् ।
शतांशे नैव वेधंतु सितहेमेन पूर्ववत् ॥५.१४॥
लेपनात्पुटपाकाच्च दिव्यं भवति कांचनम् ।
{सितस्वर्ण => गोल्द्}
माक्षिकस्य समांशेन राजावर्तं दिनत्रयम् ॥५.१५॥
मातुलुङ्गद्रवैर्मर्द्य तेन पत्राणि लेपयेत् ।
पूर्वाक्तसितस्वर्णस्य रुद्ध्वा गजपुटे पचेत् ॥५.१६॥
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ।
{सिल्वेर्=> गोल्द्}
राजावर्तं च सिन्दूरं पारावतमलं समम् ॥५.१७॥
अशीत्यंशेन कुरुते स्वर्णं रौप्यं च पूर्ववत् ।
{मिxतुरे ओफ़् गोल्दन्द्सिल्वेर्=> गोल्द्}
रसैः शिरीषपुष्पस्य आर्द्रकस्य रसैः समैः ॥५.१८॥
भावयेत्सप्तवाराणि राजावर्तं सुचूर्णितम् ।
तेनैव शतमांशेन स्वर्णतारं द्रुतं समम् ॥५.१९॥
वेधयेत्पूर्ववत्सिद्धं दिव्यं भवति काञ्चनम् ।
{मिxतुरे ओफ़् गोल्दन्द्सिल्वेर्=> गोल्द्}
कङ्कुष्ठं विमला ताप्यं रसकं दरदं शिला ॥५.२०॥
राजावर्तं प्रवालं च काङ्क्षीगैरिकटङ्कणम् ।
सैन्धवं चूर्णयेत्तुल्यमशीत्यंशेन वापयेत् ॥५.२१॥
द्रुते समे स्वर्णतारे पूर्ववत्सेचयेत्क्रमात् ।
त्रिवारं वापयेदेवं दिव्यं भवति काञ्चनम् ॥५.२२॥
{बीजः: पक्वः: प्रोदुच्तिओन्}
गैरिकं च प्रवालं च काकमाच्या द्रवैः समम् ।
यामं मर्द्यं तु तद्रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥५.२३॥
इत्येवं तु त्रिधा कुर्यान्मर्दनं पुटपाचनम् ।
तदर्धं हिङ्गुलं शुद्धं क्षिप्त्वा तस्मिन्विमर्दयेत् ॥५.२४॥
काञ्जिकैर्याममात्रं तु पुटेनैकेन पाचयेत् ।
अस्य कल्कस्य भागैकं भागाश्चत्वारि हाटकम् ॥५.२५॥
अन्धमूषागतं ध्मातं समादाय विचूर्णयेत् ।
पूर्ववत्पूर्वकल्केन रुद्ध्वा देयं पुटं पुनः ॥५.२६॥
एवं चतुःपुटैः पक्वं स्वर्णं गुञ्जानिभं भवेत् ।
पक्वबीजमिदं सिद्धं तत्तत्कर्मणि योजयेत् ॥५.२७॥
{सितस्वर्ण => गोल्द्}
अनेन षोडशांशेन सितस्वर्णं तु वेधयेत् ।
सेचयेत्कुङ्कुणीतैले रक्तवर्गेण वापितम् ॥५.२८॥
पुनर्वेध्यं पुनः सेच्यं षोडशांशेन बुद्धिमान् ।
एवं वारत्रयं वेध्यं दिव्यं भवति काञ्चनम् ॥५.२९॥
{गोल्दः: रञ्जनः: दशवर्ण}
पूर्वोक्तपक्वबीजेन वेधयेदष्टवर्गकम् ।
तत्स्वर्णं दशवर्णं स्यात्पुटे दत्ते न हीयते ॥५.३०॥
{गोल्दः: रक्ती (रञ्जन)}
निष्काः षोडश तुत्थस्य सूतहिङ्गुलगन्धकम् ।
टङ्कणं च तथैकैकं योज्यं निष्कचतुष्टयम् ॥५.३१॥
सर्वमेतद्दिनं मर्द्यं त्रिधारस्नुक्पयोऽन्वितम् ।
निष्कमात्रां वटीं कृत्वा श्रेष्ठे स्वर्णे द्रुते क्षिपेत् ॥५.३२॥
एकैकं निष्कमात्रं तु मूषामध्ये दिनं धमेत् ।
जीर्णे जीर्णे पुनर्देया एवं सर्वाः प्रदापयेत् ॥५.३३॥
गुञ्जावर्णं भवेत्स्वर्णं ख्यातेयं हेमरक्तिका ।
{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}
अष्टवर्णसुवर्णस्य द्रावितस्य दशांशतः ॥५.३४॥
क्षिपेत्तज्जायते सत्यं दशवर्णं तु शोभनम् ।
{गोल्दः: रञ्जनः: अष्टवर्ण  => दशवर्ण}
ताम्रतुल्येन नागेन शोधयेद्धमनेन च ॥५.३५॥
ताम्रतुल्यं शुद्धहेम समावर्त्य तु पत्त्रयेत् ।
इष्टिका तुवरी चैव खटिका लवणं तथा ॥५.३६॥
गैरिकं भागवृद्ध्यांशमारनालेन पेषयेत् ।
तेन लिप्त्वा पूर्वपत्रं रुद्ध्वा गजपुटे पचेत् ॥५.३७॥
एवं पुनः पुनः पाच्यं यावत्स्वर्णावशेषितम् ।
तत्स्वर्णं ताम्रसंयुक्तं समावर्त्य तु पत्त्रयेत् ॥५.३८॥
पूर्ववत्पुटपाकेन पचेत्स्वर्णावशेषितम् ।
इत्येवं षड्गुणं ताम्रं स्वर्णे बाह्यं क्रमेण तु ॥५.३९॥
तत्सर्वं जायते दिव्यं पद्मरागसमप्रभम् ।
षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ॥५.४०॥
तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ।
{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}
समं ताप्यं ताम्रचूर्णं ताप्यार्धं लोहचूर्णकम् ॥५.४१॥
कन्याद्रावैः क्षणं मर्द्य घर्मे तेनैव भावयेत् ।
एवं वारांश्चतुःषष्टिस्ततः शुष्कं विचूर्णयेत् ॥५.४२॥
षोडशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।
तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ॥५.४३॥
{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}
रसकं घोषताम्रं च काचं श्वेतं नृकेशकम् ।
पलानि पञ्चपञ्चैव प्रत्येकं चूर्णयेत्पृथक् ॥५.४४॥
रसकात्त्रिगुणं योज्यं तीक्ष्णचूर्णं पुनस्ततः ।
गन्धकं रसकं कांस्यमाक्षिकं चाष्टनिष्ककम् ॥५.४५॥
विंशनिष्कं धूमसारं सर्वमेतद्दिनावधि ।
मर्द्यं जम्बीरजैर्द्रावैः कर्षांशं वटकीकृतम् ॥५.४६॥
कोष्ठीयन्त्रे हठाद्धाम्यं यावत्ताम्रावशेषितम् ।
षड्गुणं तस्य ताम्रस्य सीसे वाह्यं धमन्धमन् ॥५.४७॥
षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।
दशवर्णं भवेत्तत्तु नात्र कार्या विचारणा ॥५.४८॥
{चोप्पेरः: रेमोविन्ग्कालिका}
अथान्यस्य च ताम्रस्य नागशुद्धस्य कारयेत् ।
निर्गुण्डिकारसेनैव पञ्चाशद्वारढालनम् ॥५.४९॥
कुष्माण्डस्य रसेनैव सप्तवारं तु ढालनम् ।
निशायुक्तेन तक्रेण सप्तवारं तु ढालनम् ।
एवं ताम्रं द्रुतं ढाल्यं कालिकारहितं भवेत् ॥५.५०॥
{चोप्पेर्, सिल्वेर्, गोल्द्=> गोल्द्}
एतत्ताम्रं त्रिभागं स्याद्भागाः पञ्चैव हाटकम् ।
रौप्यं भागद्वयं शुद्धं सर्वमावर्तयेत्ततः ॥५.५१॥
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ।
{गोल्दः: रञ्जनः: वेर्बेस्सेरुन्गुं ज़्wएइ Fअर्ब्स्तुफ़ेन्}
अङ्कोल्लकाष्ठं प्रज्वाल्य आरण्योपलचूर्णकम् ॥५.५२॥
अङ्कोल्लबीजचूर्णं तु ज्वलत्काष्ठोपरि क्षिपेत् ।
तदङ्गारान्समादाय शीतलांश्च पुनर्धमेत् ॥५.५३॥
अङ्कोल्लबीजचूर्णं तु क्षिप्त्वा वस्त्रेण बन्धयेत् ।
तद्धूमैः स्वर्णपत्राणि दशवर्णानि धूपयेत् ॥५.५४॥
द्रावयित्वा क्षिपेत्तैले पुत्रजीवोत्थिते पुनः ।
एवं वारद्वये क्षिप्ते वर्धते वर्णकद्वयम् ॥५.५५॥
अल्पाल्पयुक्ति विभवैः सुखसाध्ययोगैरल्पाल्पकर्मविधिना बहुभिर्विशेषैः ।
लाभार्थपाददशमांशकरोपदेशः प्रोक्तो मया सकललोकहिताय सत्यम् ॥५.५६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:49.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कोयतुल

  • न. ( राजा .) लहान कोयता , कोयती . 
RANDOM WORD

Did you know?

मकर संक्रांति हिंदू सण असूनही १४ जानेवारीला का साजरा करतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site