TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.१

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण १
स्वर्गापवर्गविस्फारौ भुवनस्योदये यथा ।
भवरोगहरौ वन्दे चण्डिकाचन्द्रशेखरौ ॥१.१॥
रसोपरसलोहानां तैलमूलफलैः सह ।
असाध्यं प्रत्ययोपेतं कथ्यते रससाधनम् ॥१.२॥
वैद्यानां यशसेऽर्थाय व्याधितानां हिताय च ।
वादिनां कौतुकार्थाय वृद्धानां देहसिद्धये ॥१.३॥
मन्त्रिणां मन्त्रसिद्ध्यर्थं विविधाश्चर्यकारणम् ।
पञ्चखण्डं इदं शास्त्रं साधकानां हितप्रदम् ॥१.४॥
रसखण्डे तु वैद्यानां व्याधितानां रसेन्द्रके ।
वादिनां वादखण्डे च वृद्धानां च रसायने ॥१.५॥
मन्त्रिणां मन्त्रखण्डे च रससिद्धिः प्रजायते ।
सुतरां नास्ति संदेहः तत्तत्खण्डविलोकिनाम् ॥१.६॥
हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः ।
धत्ते च खेगतिं बद्धः कोऽन्यः सूतात्कृपाकरः ॥१.७॥
जरामरणदारिद्र्यरोगनाशकरोमतः ।
मूर्छितो हरते व्याधीन्नसो देहे चरन्नपि ॥१.८॥
मोहयेद्यः परान्बद्धो जीवयेच्च मृतः परान् ।
मूर्छितो बोधयेदन्यांस्तं सूतं को न सेवते ॥१.९॥
आयुर्द्रविणमारोग्यं वह्निर्मेधा महद्बलम् ।
रूपयौवनलावण्यं रसोपासनया भवेत् ॥१.१०॥
मारयेज्जारितं सूतं गन्धकेनैव मूर्छयेत् ।
बद्धः स्याद्द्रुतिसत्वाभ्यां रसस्यैवं त्रिधा गतिः ॥१.११॥
दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।
मारितो रुद्ररूपः स्याद्बद्धः साक्षान्महेश्वरः ॥१.१२॥
वेधको देहलोहाभ्यां सूतो देवि सदाशिवः ।
दर्शनाद्रसराजस्य ब्रह्महत्यां व्यपोहति ॥१.१३॥
स्पर्शनान्नाशयेद्देवि गोहत्यां नात्र संशयः ।
किं पुनर्भक्षणाद्देवि प्राप्यते परमं पदम् ॥१.१४॥
अल्पमात्रोपयोगित्वादरुचेरप्रप्सङ्गतः ।
क्षिप्रमारोग्यदायित्वाद्भेषजेभ्यो रसोऽधिकः ॥१.१५॥
यदुक्तं शम्भुना पूर्वं रसखण्डे रसायने ।
रसस्य वन्दनार्थे च दीपिका रसमङ्गले ॥१.१६॥
व्याधितानां हितार्थाय प्रोक्तं नागार्जुनेन यत् ।
उक्तं चर्पटिसिद्धेन स्वर्गवैद्यकपालिके ॥१.१७॥
अनेकरसशास्त्रेषु संहितास्वागमेषु च ।
यदुक्तं वाग्भटे तन्त्रे सुश्रुते वैद्यसागरे ॥१.१८॥
अन्यैश्च बहुभिः सिद्धैर्यदुक्तं च विलोक्य तत् ।
तत्र यद्यदसाध्यं स्याद्यद्यद्दुर्लभमौषधम् ॥१.१९॥
तत्तत्सर्वं परित्यज्य सारभूतं समुद्धृतम् ।
क्वचिच्छास्त्रे क्रिया नास्ति क्रमसंख्या न च क्वचित् ॥१.२०॥
मात्रा युक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित् ।
तेन सिद्धिर्न तत्रास्ति रसे वाथ रसायने ॥१.२१॥
वैद्ये वादे प्रयोगे च यस्माद्यत्नो मया कृतः ।
यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतं च यन्मया ।
तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥१.२२॥
श्रीमान्सूतनृपो ददाति विलसंल्लक्ष्मीं वपुः शाश्वतंस्वानां प्रीतिकरीं अचञ्चलमनो मातेव पुंसां यथा ।
अन्यो नास्ति शरीरनाशकगदप्रध्वंसकारी ततः कार्यं नित्यमहोत्सवैः प्रथमतः सूताद्वपुःसाधनम् ॥१.२३॥
साक्षादक्षयदायको भुवि नृणां पञ्चत्वमुच्चैः कुतो मूर्च्छां मूर्छितविग्रहो गदभृतां हन्त्युञ्चकैः प्राणिनाम् ।
बद्धं प्राप्य सुरासुरेन्द्रचरितां तां तां गतिं प्रापयेत् ।
सोऽयं पातु परोपकारचतुरः श्रीसूतराजो जगत् ॥१.२४॥
यदन्यत्र तदत्रास्ति यदत्रास्ति न तत्क्वचित् ।
रसरत्नाकरः सोऽयं नित्यनाथेन निर्मितः ।
ततः कुर्यात्प्रयत्नेन रससंस्कारं उत्तमम् ॥१.२५॥
अविज्ञात्या च शास्त्रार्थं प्रयोगकुशलो भिषक् ।
यम एव स विज्ञेयः मर्त्यानां मृत्युरूपधृक् ॥१.२६॥
{रसस्य महादोषाः}
नागो वङ्गो मलो वह्निश्चांचल्यं च विषं गिरिः ।
असह्याग्निर्महादोषा निषिद्धाः पारदे स्थिताः ॥१.२७॥
जायं गण्डस्तनौ नागात्कुष्ठं वङ्गाद्रुजा मलात् ।
वह्नेर्दाहो बीजनाशश्चाञ्चल्यान्मरणं विषात् ॥१.२८॥
गिरेः स्फोटो ह्यसह्याग्नेर्दोषान्मोह उपजायते ।
{निर्दोषपारदस्य गुणाः}
दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥१.२९॥
साक्षादमृतमप्येष दोषयुक्तो रसो विषम् ।
तस्माद्दोषविशुद्ध्यर्थं रसशुद्धिर्विधीयते ॥१.३०॥
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ।
पञ्चाशतं पञ्चविंशद्वा द्वादशं चैकमेव वा ॥१.३१॥
पलादूनं न कर्तव्यं रससंस्कारं उत्तमम् ।
अघोरेण च मन्त्रेण रससंस्कारपूजनम् ॥१.३२॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥१.३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:40.8100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

isoascorbic acid

  • आयसोऍस्कॉर्बिक आम्ल 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site