TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.८

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ८
{मेतल्स्}
स्वर्णं तारं ताम्रं नागं वङ्गं कान्तं च तीक्ष्णकम् ।
मुण्डान्तमष्टधा लोहं कांस्यारं घोषकं त्रिधा ॥८.१॥
{उपलोहाः}
उपलौहाः समाख्याता मण्डूरोलौहकिट्टकम् ।
एते द्वादशधा शोध्या मार्या द्राव्याः पुटादिषु ॥८.२॥
{मेतल्सः: शोधन}
तैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थके ।
क्रमात्प्राप्तं तथा तप्तं द्रावे द्रावे तु सप्तधा ॥८.३॥
स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता ।
{मेतल्सः: मारण}
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥८.४॥
पत्रे लिप्त्वा पुटे पच्यादष्टाभिर्म्रियते ध्रुवम् ।
शुद्धानां सर्वलौहानां मारणे रीतिरीदृशी ॥८.५॥
{गोल्दः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
सौख्यं वीर्यं बलं हन्ति नानारोगं करोति च ।
अशुद्धं स्वर्णं सूतं च तस्माच्छुद्धं तु मारयेत् ॥८.६॥
{पञ्चमृत्तिकाः}
वल्मीकमृत्तिकाधूमगैरिकं चेष्टिकापुटे ।
{गोल्दः: शोधन}
इत्याद्याः मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥८.७॥
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति ।
{गोल्दः: शोधन}
भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिका ॥८.८॥
सैन्धवं भूमिभस्मापि स्वर्णं शुध्यति पूर्ववत् ॥८.९॥
{सुब्स्तन्चेस्फ़ोर्मारण ओफ़् मेतल्स्}
नागैः सुवर्णं रजतं च ताप्यैर्गन्धेन ताम्रं शिलया च नागम् ।
तालेन वङ्गं त्रिविधं च लौहं नारीपयो हन्ति च हिंगुलेन ॥८.१०॥
{गोल्दः: मारण}
माक्षिकं नागचूर्णं च पिष्टमर्करसेन तु ।
हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः ॥८.११॥
{गोल्दः: मारण}
स्वर्णार्धं पारदं दत्त्वा कुर्याद्यत्नेन पिष्टिकाम् ।
दत्त्वोर्ध्वाधो नागचूर्णं पुटनान्म्रियते ध्रुवम् ॥८.१२॥
{गोल्दः: मारण}
नागचूर्णं शिलां वज्रीक्षीरेण परियसितम् ।
तेनालिप्य सुवर्णस्य कल्कश्च म्रियते पुटात् ॥८.१३॥
{गोल्दः: मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं सुवर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥८.१४॥
आदाय पेषयेदम्लैर्मृन्नागं चाष्टमांशकम् ।
बद्ध्वा गजपुटे पच्यात्पूर्वनागयुतं युतम् ॥८.१५॥
एवं पुनः पुनः पच्यादष्टधा म्रियते ध्रुवम् ।
{गोल्दः: मारणः: निरुत्थ}
शुद्धसूतसमं गन्धं माक्षिकं च महाम्लकैः ॥८.१६॥
अष्टाभिश्च पुटैर्हेम्नो म्रियते पूर्ववत्क्रियाम् ।
शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥८.१७॥
अधो वै गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ।
त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ॥८.१८॥
निरुत्थं जायते भस्म गन्धं देयं पुटे पुटे ।
{गोल्दः: मारणः: निरुत्थ}
स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ॥८.१९॥
अधः ऊर्ध्वं माक्षिकं पिष्ट्वा मूषायां स्वर्णतुल्यकम् ।
तत्पृष्ठे मर्दितं हेम तत्पृष्ठे हेममाक्षिकम् ॥८.२०॥
देयं स्वर्णं समं तच्च पृष्ठे गन्धं च तत्समम् ।
षड्वारं चूर्णितं दत्त्वा रुद्ध्वा मूषां धमेद्दृढम् ॥८.२१॥
स्वभावशीतलं ग्राह्यं तद्भस्म भागपञ्चकम् ।
टंकणं श्वेतकाचं च भागैकं च प्रयोजयेत् ॥८.२२॥
त्रितयं मधुनाज्येन मिलितं गोलकीकृतम् ।
धान्याभ्रकस्य भागैकं अधश्चोर्ध्वं च दापयेत् ॥८.२३॥
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ।
निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ॥८.२४॥
{गोल्दः: मारणः: निरुत्थ}
शुद्धमाक्षिकं भागैकं भागं चावोटमाक्षिकम् ।
त्रिभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥८.२५॥
तद्गोलं पातालयन्त्रे तदा यामत्रयं पचेत् ।
इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ॥८.२६॥
{गोल्दः: मारण}
तथैव च राजवृक्षभल्लातैष्टंकणेन च ।
लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ॥८.२७॥
तैः द्रवैश्च पुनः पिष्ट्वा म्रियते सप्तधा पुटे ।
हेममारभ्य तोलैकं माषैकं शुद्धनागकम् ॥८.२८॥
लिप्त्वा देयं तु तं चूर्णं तच्छुद्धैर्गन्धमाक्षिकैः ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥८.२९॥
गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।
{गोल्दः: मृतः: मेदिच्. प्रोपेर्तिएस्}
सुवर्णं च भवेच्छीतं तिक्तं स्निग्धं हिमं गुरु ॥८.३०॥
बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् ॥८.३१॥
{सिल्वेरः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
आयुः शुक्रं बलं हन्ति रोगवेगं करोति च ।
अशुद्धममृतं तारं शुद्धं मार्यमतो बुधैः ॥८.३२॥
{सिल्वेरः: शोधन}
नागेन टङ्कणेनैव द्रावितं शुद्धिं ऋच्छति ।
{सिल्वेरः: मारण}
माक्षिकं गन्धकं चैवमर्कक्षीरेण मर्दयेत् ॥८.३३॥
तेन लिप्तं रूप्यपत्रं पुटेन म्रियते ध्रुवम् ।
{सिल्वेरः: मारण}
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मती भवेत् ॥८.३४॥
स्नुक्क्षीरैः पेषयेत्ताम्रं तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्पूर्वोक्तैः पेषयेत्पुनः ॥८.३५॥
भूधात्री माक्षिकं तुल्यं पिप्पली सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटे पचेत् ॥८.३६॥
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
{सिल्वेरः: मारणः: निरुत्थ}
तारपत्रैस्त्रिभिर्भागैर्भागैकं शुद्धमाक्षिकम् ॥८.३७॥
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत्तं च त्रिंशद्वन्योपलैः पचेत् ॥८.३८॥
चतुर्दशपुटेनैवं निरुत्थं म्रियते ध्रुवम् ।
{सिल्वेरः: मारण}
रूप्यपत्रं चतुर्भागाद्भागैकं मृतवङ्गकम् ॥८.३९॥
अथवा गन्धतालेन लेप्यं जम्बीरपेषितम् ।
रुद्ध्वा त्रिःपुटैः पच्यात्पञ्चविंशद्वनोपलैः ॥८.४०॥
म्रियते नात्र संदेहो गन्धो देयः पुटे पुटे ।
{सिल्वेरः: मारण}
रसगन्धौ समौ कृत्वा काकतुण्डस्य मूलकम् ॥८.४१॥
मर्दयेन्महिषीक्षीरैः पिष्ट्वा तं क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥८.४२॥
क्षिप्त्वा दिनैकविंशं तं तद्गोलमुद्धरेत्पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यान्यम्लेन केनचित् ॥८.४३॥
पुटैर्विंशतिभिर्भस्म जायते नात्र संशयः ।
भस्मना चाम्लपिष्टेन मेलयेत्तालकं पुटैः ॥८.४४॥
जायते तद्विधानेन सर्वरोगापहारकम् ॥८.४५॥
{चोप्पेरः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अपक्वताम्रं आयुर्घ्नं कान्तिघ्नं सर्वधातुहा ।
भ्रान्तिमूर्च्छाभ्रमोत्केशं नानारुक्कुष्ठशूलकृत् ॥८.४६॥
{चोप्पेरः: शोधन}
स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकं लिप्त्वा ।
प्रताप्यं निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः ॥८.४७॥
वारद्वादशदाहत्वं लेपनात्ताम्रसिञ्चनात् ।
खटिका लवणं तक्रैरारनालैश्च पेषयेत् ॥८.४८॥
तेन लिप्त्वा ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।
षड्वारं अम्लपिष्टेन निर्गुण्ड्यास्तु विशुद्धये ॥८.४९॥
{चोप्पेरः: शोधन}
गोमूत्रेण पचेत्ताम्रपत्रं यामं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणं कथ्यतेऽधुना ॥८.५०॥
{चोप्पेरः: मारण}
गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ।
कण्टकवेधीकृतं पत्रं सिद्धयित्वा पुटे पचेत् ॥८.५१॥
उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ।
जम्बीरैरारनालैर्वा मृगदूर्वाद्रवैस्तथा ॥८.५२॥
पिष्ट्वा पिष्ट्वा पचेत्तद्वत्सगन्धं च चतुष्पुटे ।
मातुलङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ॥८.५३॥
अनेनैव विधानेन ताम्रभस्म भवेद्ध्रुवम् ।
{चोप्पेरः: मारण}
ताम्रस्य द्विगुणं सूतं जम्बीराम्लेन मर्दयेत् ॥८.५४॥
सितशर्करयाप्येवं पुटत्रये मृतं भवेत् ।
{चोप्पेरः: मारण}
पाषाणभेदीमत्स्याक्षीद्रवैर्द्विगुणगन्धकैः ॥८.५५॥
ताम्रस्य लेपयेत्पत्रं रुद्ध्वा गजपुटे पचेत् ।
सप्तांशेन पुनर्दग्धं दत्त्वा द्रावैश्च पेषयेत् ॥८.५६॥
एवं सप्तपुटे पक्वं ताम्रभस्म भवेद्ध्रुवम् ।
{चोप्पेरः: मारण}
ताम्रस्य हिङ्गुलं सूतं जम्बीराम्लेन पेषयेत् ॥८.५७॥
आदौ मूषान्तरे क्षिप्त्वा धत्तूरस्य तु पत्रकम् ।
तत्पृष्ठे ताम्रतुल्यं तु गन्धकं चूर्णितं क्षिपेत् ॥८.५८॥
तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं तु गन्धकम् ।
आच्छाद्य धुस्तूरपत्रे रुद्ध्वा गजपुटे पचेत् ॥८.५९॥
स्वांगशीतं तु तच्चूर्णं भस्मीभवति निश्चितम् ।
{चोप्पेरः: मारण}
किंचिद्गन्धेन चाम्लेन क्षालयेत्ताम्रपत्रकम् ॥८.६०॥
तेन गन्धेन सूतेन ताम्रपत्रं प्रलेपयेत् ।
गन्धेन पुटितं पश्चान्म्रियते नात्र संशयः ॥८.६१॥
{चोप्पेरः: मारण}
ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।
क्षिप्त्वा ह्यधोऽर्धभागेन देया पिष्टाम्लकैर्बुधः ॥८.६२॥
तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्यां विपाचयेत् ।
यामैकं तीव्रपाकेन भस्मीभवति निश्चितम् ॥८.६३॥
{चोप्पेरः: मारण}
सूतमेकं द्विधा गन्धं यामं कृत्वा विमर्दितम् ।
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्यां गर्भे निधापयेत् ॥८.६४॥
सम्यग्लवणयन्त्रस्थं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥८.६५॥
जलं पुनः पुनर्देयं स्वाङ्गशैत्यं विचूर्णयेत् ।
म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥८.६६॥
{चोप्पेरः: मारण (शोधन?)}
नानाविधं मतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ।
भागैकं श्वेतकाचं च भागपञ्चैकटंकणम् ॥८.६७॥
मूषायां मिलितं कृत्वा भागैकं ताम्रपत्रकम् ।
ऊर्ध्वे दत्त्वा निरुद्ध्याय ध्मातैर्ग्राह्यं सुशीतलम् ॥८.६८॥
निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ।
{चोप्पेरः: मृतः: मेदिच्. अप्प्लिचतिओन्}
अथवा मारितं ताम्रमम्लेनैकेन मर्दयेत् ॥८.६९॥
तद्गोलं सूरणस्यान्तरुर्ध्वारुद्ध्वा तु लेपयेत् ।
शुष्कं गजपुटे पच्यात्सर्वदोषहरो भवेत् ॥८.७०॥
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ।
{चोप्पेरः: मृतः: मेदिच्. प्रोपेर्तिएस्}
ताम्रं तीक्ष्णोष्णमधुरं कषायं शीतलं सरम् ॥८.७१॥
कफपित्तक्षयं पाण्डुकुष्ठघ्नं च रसायनम् ।
परिणामशूलं अर्शांसि मन्दाग्निं च विनाशयेत् ॥८.७२॥
{तिन्, लेअदः: अमृतः: मेदिच्. प्रोपेर्तिएस्}
पाकहीनौ नागवंगौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डूदरवातकफमृत्युकरौ किल ॥८.७३॥
{लेअदः: शोधन}
निर्गुण्डीमूलचूर्णेन मार्कदुग्धेन लेपयेत् ।
नागपत्रं तु तं शुष्कं द्रावयित्वा निषेचयेत् ॥८.७४॥
निर्गुण्डीद्रवमध्ये तु ततः पत्रं तु कारयेत् ।
लिप्त्वा भाव्यं पुनः सेच्यं सप्तवारं विशुद्धये ॥८.७५॥
{लेअदः: शोधन}
निशा तुम्बरुबीजानि कोकिलाक्षं कुठारिकाम् ।
गौरीफलाम्लिका चण्डी क्षुद्रा ब्राह्मी सजीरकम् ॥८.७६॥
यथालाभेन भस्मैकं वज्रीक्षीरेण भावयेत् ।
तन्मध्ये भावितं नागं शुद्धं सेकं तु सप्तधा ॥८.७७॥
{लेअदः: मारणः: निरुत्थ}
अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ।
क्षिप्त्वा चुल्ल्यां पचेत्पात्रे चालयेल्लोहचट्टके ॥८.७८॥
यावद्भस्म भवेदेतच्च भस्म तुल्यं मनःशिलाम् ।
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥८.७९॥
स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशैः शिलाम्लकैः ।
एवं षड्भिः पुटे पाको नागस्यापि निरुत्थितः ॥८.८०॥
{लेअदः: मारण}
अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ।
अत्यग्नौ पाचयेद्यामं तद्भस्म चित्रकद्रवैः ॥८.८१॥
भर्जयेल्लौहजे पात्रे चाल्यमर्जुनदण्डकैः ।
यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ॥८.८२॥
दण्डेन मर्दयेत्क्वाथ्यं उद्धृत्य चित्रकद्रवैः ।
गोलयित्वा निरुध्याथ षट्पुटे मारयेल्लघु ॥८.८३॥
{लेअदः: मारण}
चिञ्चाक्षमिक्षुभल्लातबलावज्रलताभवैः ।
अपामार्गार्जुनाश्वत्थभस्मभिर्भर्जयेद्दृढम् ॥८.८४॥
लोहपात्रं तु सप्ताहं तुल्यं भस्मानि चाशु च ।
दण्डपलाशकेनैव म्रियते नात्र संशयः ॥८.८५॥
{लेअदः: मारण}
पिष्ट्वागस्तिं च भूनागं लिप्त्वा पात्रं विशोषयेत् ।
तद्भाण्डे द्रावयेद्यामं दृढे भाण्डे विनिक्षिपेत् ॥८.८६॥
वासाचिर्चिटयोः क्षारे वासादले विघट्टयेत् ।
यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ॥८.८७॥
तच्चूर्णं तु शिलाताप्यैर्वासकक्षारसंयुतैः ।
तत्तुल्यं पूर्वनागं विंशदेकपुटे पचेत् ॥८.८८॥
द्विपुटं चिर्चिटाक्षारैः देयं वासारसैः सह ।
नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ॥८.८९॥
{लेअदः: मारण}
कुनटी माक्षिकं चैव समभागं तु कारयेत् ।
अर्कपर्णेन तत्पिष्ट्वा सीसपत्राणि मारयेत् ॥८.९०॥
{लेअदः: मृतः: मेदिच्. प्रोपेर्तिएस्}
सतिक्तमधुरो नागो मृतो भवति भस्मसात् ।
आयुष्कीर्तिं वीर्यवृद्धिं करोति सेवनात्सदा ॥८.९१॥
{तिनः: मारण}
माक्षिकं हरितालं च पलाशस्वरसेन च ।
कृतकल्केन संलिप्य वंगपत्राणि मारयेत् ॥८.९२॥
नागवच्छोधयेद्वङ्गं तद्वदश्वत्थचिंचयोः ।
तद्भस्म हरितालं च तुल्यमम्लेन केनचित् ॥८.९३॥
पलाशोत्थद्रवैर्वाथ गोलयित्वान्धयेत्पुटे ।
उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ॥८.९४॥
पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ।
एवं विंशत्पुटे पक्त्वा मृतं भवति भस्मसात् ॥८.९५॥
{तिनः: मारण}
वङ्गपादेन सूतेन वङ्गपत्राणि लेपयेत् ।
चिञ्चावृक्षस्य संगृह्य चान्तश्छन्नं च तण्डुलैः ॥८.९६॥
पिष्ट्वा तत्पिण्डमध्ये तु वङ्गपत्राणि लेपयेत् ।
शिरीषरजनीचूर्णैः कुमार्याः शुभगोलकम् ॥८.९७॥
सूतलिप्तं वङ्गपत्रं गोलके समलेपितम् ।
रुद्ध्वा गजपुटे पक्वं पूर्वसंख्या मृतो भवेत् ॥८.९८॥
{तिनः: मारण}
अक्षभल्लातकं तोयैः पिष्ट्वा तानि विलेपयेत् ।
ततस्तिलखली मध्ये क्षिप्त्वा रुद्ध्वा पुटे पचेत् ॥८.९९॥
गजाख्ये जायते भस्म चत्वारिंशतिवङ्गकम् ।
{तिनः: मृतः: मेदिच्. प्रोपेर्तिएस्}
सतिक्तलवणं वङ्गं पाण्डुघ्नं क्रिमिमेहजित् ॥८.१००॥
लेखिनं पित्तलं किंचित्सर्वदेहामयापहम् ॥८.१०१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:44.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

consonant statement

  • न. अनुरुप विधान 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.