TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.५

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत.  या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ५
{उपरसनामानि}
गन्धकं वज्रवैक्रान्तं वज्राभ्रं तालकं शिला ।
खर्परं शिखितुत्थं च विमलां हेममाक्षिकम् ॥५.१॥
कासीसं कान्तपाषाणं वराटीमथ हिंगुलम् ।
कङ्कुष्ठं शंखभूनागं टंकणश्च शिलाजतु ॥५.२॥
एते उपरसाः शोध्याः मार्या द्राव्याः पुटे क्वचित् ॥५.३॥
{गन्धः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अपक्वगन्धं कुरुतेऽति कुष्ठं तापं भ्रमं पित्तरुजां करोति ।
रूपं सुखं वीर्यबलं च हन्ति तस्मात्संशुद्धं विधियोजनीयम् ॥५.४॥
{गन्धकशोधन}
साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा स्रावेण रोधयेत् ॥५.५॥
भाण्डं निक्षिप्य भूम्यन्ते ऊर्ध्वे देयं पुटं लघु ।
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥५.६॥
{गन्धकशोधन (२)}
अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं च सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं प्रलेपयेत् ॥५.७॥
तद्वह्निज्वलिता देशे हृत्वा धार्या ह्यधोमुखा ।
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥५.८॥
{सुल्फ़ुरः: शुद्धः: मेदिच्. प्रोपेर्तिएस्}
शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥५.९॥
{वज्रः: शोधन}
व्याघ्रीकन्दयुतं वज्रं दोलायन्त्रेण पाचितम् ।
सप्ताहात्कौद्रवे क्वाथे कौलत्थे विमलं भवेत् ॥५.१०॥
{वज्रः: मारण}
त्रिसप्तकृत्वस्तत्तप्तं खरमूत्रेण सेचयेत् ।
षड्गुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥५.११॥
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वोदितक्रमैः ।
भस्मीभवति तद्वज्रं वज्रवत्कुरुते तनुम् ॥५.१२॥
{वज्रः: मारण}
ऊर्णाशृङ्गं परिपिष्य पिण्डं एतस्य मध्ये तु निधाय वज्रम् ।
पिण्डेऽथवाधाय च वज्रवल्ल्याः पुटत्रयं तस्य रसे विदध्यात् ॥५.१३॥
मृत्युरेव भवेदस्य वज्राख्यस्य न संशयः ॥५.१४॥
{वज्रः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अशुद्धवज्रं आयुर्घ्नं पीडां कुष्ठं करोति च ।
पाण्डुतापगुरुत्वं च तस्माच्छुद्धं तु कारयेत् ॥५.१५॥
{वज्रः: सुब्त्य्पेसः: चोलोउर्, चस्ते}
श्वेतरक्तपीतकृष्णा द्विजाद्याः वज्रजातयः ।
रसायने भवेद्विप्रः श्वेतः सिद्धिप्रदायकः ॥५.१६॥
क्षत्रियो मृत्युजिद्रक्तो वलीपलितरोगहा ।
द्रवकारी भवेद्वैश्यः पीतो देहस्य दार्ढ्यकृत् ॥५.१७॥
कृष्णः शूद्रो रुजां हन्ति वयःस्थैर्यं करोति च ।
पुंस्त्रीनपुंसकाश्चैते लक्षणेन तु लक्षयेत् ॥५.१८॥
{वज्रः: पुंवज्रः: परीक्षा}
वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहद्भवाः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥५.१९॥
{वज्रः: स्तीवज्रः: परीक्षा}
रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः ।
{वज्रः: नपुंसकः: परीक्षा}
त्रिकोणायत्ता दीर्घा विज्ञेयास्ता नपुंसकाः ॥५.२०॥
पूर्वपूर्वमिमे शस्ताः पुरुषाः बलवत्तराः ।
शरीरकान्तिजनका भोगदा वज्रयोषितः ॥५.२१॥
नपुंसकास्त्वल्पवीर्याः कामुकाः सत्त्ववर्जिताः ।
स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥५.२२॥
सर्वेषां सर्वदा योज्याः पुरुषाः बलवत्तराः ॥५.२३॥
{वज्रः: शोधन}
गृहीत्वा तु शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लेप्यं करीषाग्नौ विपाचयेत् ॥५.२४॥
निशायां तु चतुर्यामं निशान्ते वाश्वमूत्रके ।
सेचयेत्तानि प्रत्येकं सप्तरात्रेण शुध्यति ॥५.२५॥
{वज्रः: शोधन}
मेघनादा शमी श्यामा शृङ्गी मदनकोद्भवम् ।
कुलत्थं वेतसं चाथ अगस्त्यं सिन्धुवारकाः ॥५.२६॥
एतेषां सजलैः क्वाथैर्वज्रं जम्बीरमध्यगम् ।
दोलायन्त्रे त्र्यहं पाच्यमेवं वज्रं विशुद्धयेत् ॥५.२७॥
{वज्रः: शोधन}
कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिं ऋच्छति ॥५.२८॥
{वज्रः: शोधन}
व्याघ्रीं कन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥५.२९॥
वज्रीक्षीरेण वा सिञ्चेदेवं शुद्धं च मारयेत् ॥५.३०॥
{वज्रः: ब्राह्मणः: मारण}
विप्रजात्यादिवज्राणां मारणं कथ्यते पुनः ।
अश्वत्थबदरीझिण्टीमाक्षिकं कर्कटास्थि च ॥५.३१॥
तुल्यं स्नुहीपयः पिष्ट्वा वज्रं तद्गोलके क्षिपेत् ।
रुद्ध्वा गजपुटे पच्याद्विप्रजातिर्मृतो भवेत् ॥५.३२॥
{वज्रः: क्षत्रियः: मारण}
करवीरं मेषशृङ्गं च बदरं च उदुम्बरम् ।
अर्कदुग्धसमं पिष्ट्वा विप्रवन्मारयेन्नृपम् ॥५.३३॥
{वज्रः: वैश्यः: मारण}
बलां चातिबलां गन्धं पेषयेत्कच्छपास्थि च ।
एतैर्वा वारुणीदुग्धैः म्रियेद्वैश्योऽपि विप्रवत् ॥५.३४॥
{वज्रः: शूद्रः: मारण}
सूरणं लसुनं शङ्खं समं पेष्यं मनःशिलाम् ।
वटक्षीरेण मूषान्तर्विप्रवच्छूद्रमारणम् ॥५.३५॥
{वज्रः: स्त्री, नपुंसकः: मारण}
स्त्रियस्तेषां म्रियन्ते च तत्तदौषधयोगतः ।
नपुंसकमृतिस्तेषां चतुर्णां औषधैः समम् ॥५.३६॥
{वज्रः: मारण}
द्विवर्षरूढकार्पासैर्मूलं कान्तमुखैः सह ।
नारीस्तन्येन सम्पिष्य पिष्ट्वा ध्मातं मृतं भवेत् ॥५.३७॥
{वज्रः: मारण}
मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसैः ।
गजदन्तसमं पिष्ट्वा वज्रीदुग्धेन गोलकम् ॥५.३८॥
कृत्वा तन्मध्यगं वज्रं म्रियते धमनेन तु ।
{वज्रः: मारण}
त्रिवर्षनागवन्ध्यास्तु कार्पासस्याथ मूलिका ।
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ॥५.३९॥
पचेद्गजपुटे तं च म्रियते सप्तधा पुटैः ॥५.४०॥
{वज्रः: मारण}
मत्कुणानां तु रक्तेन सप्तधातपशोषितम् ।
कुलिशं भावितं तदक्ध्रूर्णितापि मनःशिला ॥५.४१॥
लिप्त्वा च बदरीपत्रैः वेष्टयित्वा पुरे पचेत् ।
पुनर्लेप्यं पुनः पाच्यं सप्तधा म्रियतेऽपि च ॥५.४२॥
{वज्रः: मारण}
वज्रं महानदीशुक्तौ क्षिप्तं भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोन्मत्तकन्यानां द्वयेणैकेन चाह्निकम् ॥५.४३॥
कृष्णकर्कटमांसेन पिष्टितं वेष्टयेद्बहिः ।
भूनागस्य मृदा सम्यग्ध्माते भस्मत्वमाप्नुयात् ॥५.४४॥
{वज्रः: मारण}
रक्तोत्पलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पिण्डितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥५.४५॥
{वज्रः: मृतः: मेदिच्. प्रोपेर्तिएस्}
वज्रमायुर्बलं रूपं देहसौख्यं करोति च ।
सेवितो हन्ति रोगांश्च मृतो वज्रो न संशयः ।
{वैक्रान्तः: शोधन}
वैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं च वा ।
{वैक्रान्तः: मारण}
हयमूत्रे तत्सेच्यं तप्तं तप्तं त्रिसप्तधा ॥५.४६॥
ततश्चोत्तरवारुण्याः पञ्चाङ्गे गोलके क्षिपेत् ।
रुद्ध्वा मूषापुटे पच्यादुद्धृत्य गोलके पुनः ॥५.४७॥
क्षिप्त्वा रुद्ध्वा पचेदेवं सप्तधा भस्मतां व्रजेत् ।
{वैक्रान्तः: सुब्स्तितुते फ़ोर्वज्र}
भस्मीभूतं च वैक्रान्तं वज्रस्थाने नियोजयेत् ॥५.४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:44.1600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सोंग-सोंग करणें

  • हुबेहुब नक्कल करणें 
  • अनुकरण करणें. 
  • ढोंग करणें 
  • खोटेपणानें वागणें. 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.