TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.१८

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१८
द्रुतिरिह परिपाच्या जारयेत्पारदेन्द्रे मुनिगणितं अथासौ सारितः कोटिवेधी ।
अथ पविकृतबीजं रत्नगर्भं द्रुतं वा चरति यदि रसेन्द्रः स्यात्तदा शब्दवेधी ॥१८.१॥
{द्रुतीनां रसेन सह मेलापनं (१)}
पाठा वंध्या तालमूली नीलीसिन्दूरचित्रका ।
पद्मकन्दं क्षीरकन्दं समं नागबला तथा ॥१८.२॥
एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् ।
द्रुतिं समुखसूतं च औषधीनां तथा द्रवम् ॥१८.३॥
सर्वं क्षिप्त्वा घोषपात्रे शोषयेदातपे खरे ।
द्रवः पुनः पुनर्देयो यावद्यामत्रयं भवेत् ॥१८.४॥
मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ॥१८.५॥
{सर्वद्रुतिमेलापन (२)}
वज्रकंदामृता गुंजा द्रवैर्मर्द्यं च पूर्ववत् ।
मिलन्ति द्रुतयः सर्वा रसराजे न संशयः ॥१८.६॥
{सर्वद्रुतिमेलापन (३)}
कृष्णागुरु सिता हिङ्गु कस्तूरीब्रह्मबीजकम् ।
तुल्यं चूर्णं दशांशेन सूते द्रुतियुते क्षिपेत् ॥१८.७॥
मिलन्ति द्रुतयः सर्वा अनेनैव न संशयः ॥१८.८॥
{सर्वद्रुतिमेलापन (४)}
कृष्णागुरु श्वेतहिंगु सिता लशुननाभयः ।
पूर्ववन्मर्दनेनैव मिलन्ति द्रुतयो रसे ॥१८.९॥
{सर्वद्रुतिमेलापन (५)}
अश्वलालार्द्रकं निम्बपत्राणि लशुनं समम् ।
टंकणेन समायुक्तं पूर्ववद्द्रुतिमेलकम् ॥१८.१०॥
{सर्वद्रुतिमेलापन (६)}
माक्षिकं सविषं गुंजा टंकणं स्त्रीरजः समम् ।
स्त्रीस्तन्यं संयुतं पिष्ट्वा तेन मूषां प्रलेपयेत् ॥१८.११॥
द्रुतियुक्तं रसं तत्र क्षिप्त्वा रुद्ध्वा दिनावधि ।
स्वेदयेत्करीषाग्निस्थं त्रिदिनं वा तुषाग्निना ।
मिलन्ति द्रुतयः सर्वा मीलिता जारयेत्ततः ॥१८.१२॥
द्रुतयो मीलिता येन मूषां तेनैव लेपयेत् ।
तथा च जीवयोगेन ख्यातेऽयं लिप्तमूषिका ॥१८.५७॥
{चोप्पेर्=> गोल्द्}
हेमकांतद्रुतिं तुल्यां मेलयेत्समुखे रसे ।
षोडशांशं रसात्सर्वं लिप्तमूषान्धितं पुटेत् ॥१८.५८॥
सतुषेऽथ करीषाग्नौ यावत्सूतावशेषितम् ।
पुनश्च मेलयेत्तद्वत्सर्ववज्जारयेत्ततः ॥१८.५९॥
एवं समां द्रुतिं सूते जारयेत्क्रमयोगतः ।
ततस्तं पक्वबीजेन सारयेज्जारणात्रयम् ॥१८.६०॥
मूषायन्त्रे तु तज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ।
तारारे ताम्रसंयुक्ते शतांशेन नियोजयेत् ॥१८.६१॥
क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥१८.६२॥
{चोप्पेर्=> गोल्द्}
हेमाभ्रशुल्बद्रुतयो द्विगुणं जारयेद्रसे ।
पूर्ववत्क्रमयोगेन ततो रंजकबीजकम् ॥१८.६३॥
मूषायन्त्रे समं जार्यं सारयेत्सारणात्रयम् ।
मुखं बद्ध्वा रसं बद्ध्वा सहस्रांशेन वेधयेत् ।
तारारं ताम्रसंयुक्तं दिव्यं भवति कांचनम् ॥१८.६४॥
{=> गोल्द्}
कांतशुल्बसुवर्णानां द्रुतयः समुखे रसे ।
जारयेत्पूर्वयोगेन प्रत्येकं द्विगुणं क्रमात् ॥१८.६५॥
ततो रंजकबीजानि द्विगुणं तस्य जारयेत् ।
अथ बीजैस्त्रिधा सार्यं जारयेत्सारयेत्पुनः ॥१८.६६॥
जारितोऽथ मुखं बद्ध्वा रसं बद्ध्वाथ वेधयेत् ।
अयुतांशेन तेनैव पूर्ववत्कांचनं भवेत् ॥१८.६७॥
{लक्षवेधी रसः (द्रुतिजारणेन)}
कांतहेमाभ्रद्रुतयो यावत्पञ्चगुणं क्रमात् ।
जारयेत्पूर्वयोगेन ततो रंजकबीजकम् ॥१८.६८॥
जार्यं पञ्चगुणं तस्मिन्मूषायन्त्रे प्रयत्नतः ।
सारयेत्पक्वबीजेन त्रिधा तं जारयेत्पुनः ॥१८.६९॥
पुनः सार्यं पुनर्जार्यं एवं वारत्रये कृते ।
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥१८.७०॥
{दशलक्षवेधी रसः}
आ रत्नहेमद्रुतयः षड्गुणं जार्यते रसे ।
षड्गुणं रंजकं बीजं ततस्तस्यैव जारयेत् ॥१८.७१॥
त्रिधा सार्यं पुनर्जार्यं एवं वारचतुष्टयम् ।
मुखं बद्ध्वा रसं बद्ध्वा नागतैलेन वेधयेत् ।
दशलक्षांशयोगेन दिव्यं भवति कांचनम् ॥१८.७२॥
{मेर्चुर्यः: वेधिनः: १०० तो कोटि}
प्रत्येकं सूततुल्यांशमभ्रहेमद्रुतिद्वयम् ।
मेलितं पूर्वयोगेन जारयेत्तत्क्रमेण वै ॥१८.७३॥
शतवेधी भवेत्सूतो द्विधा सहस्रवेधकः ।
त्रिगुणेऽयुतवेधी स्याल्लक्षवेधी चतुर्गुणे ॥१८.७४॥
सम्यक्पञ्चगुणे जीर्णे दशलक्षाणि विध्यति ।
एवं रसगुणे जीर्णे कोटिवेधी भवेद्रसः ॥१८.७५॥
ततः सप्तगुणं तस्य जार्यं रंजकबीजकम् ।
त्रिधाथ पक्वबीजेन सारयेत्पूर्ववत्क्रमात् ॥१८.७६॥
जारणा सारणा कार्या पुनः सारणजारणे ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥१८.७७॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेत्तु सः ।
तारे च ताम्रसंयुक्ते क्रामणान्तं नियोजयेत् ॥१८.७८॥
{मेर्चुर्यः: बन्धन (?)}
श्वेताभ्रतारघोषारद्रुतयः समुखे रसे ।
जार्याः समा यथापूर्वं तारबीजेन सारयेत् ।
त्रिधा तं पूर्ववज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ॥१८.७९॥
{तिन्=> सिल्वेर्}
कांततारारद्रुतयो द्विगुणाः समुखे रसे ।
जारयेत्त्रिगुणा यावत्पक्वबीजेन चाथवा ॥१८.८०॥
सारितं जारितं कुर्यात्पूर्ववच्छृङ्खलात्रयम् ।
मुखं बद्ध्वा रसं बद्ध्वा अयुतांशेन वेधयेत् ॥१८.८१॥
द्रुते बंगे तु तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥१८.८२॥
{तिनः: स्तम्भन}
तारतीक्ष्णघोषजाता द्रुतयः समुखे रसे ।
कुर्यात्चतुर्गुणा यावत्तारबीजेन सारयेत् ॥१८.८३॥
चतस्रः शृङ्खला यावन्मुखं बद्ध्वाथ बन्धयेत् ।
अनेन लक्षभागेन बंगस्तम्भो भवेद्दृढः ॥१८.८४॥
{मेर्चुर्यः: कोटिवेधी}
तारा कांतद्रुतयो जार्या सप्तगुणा रसे ।
तत्सार्यं तारबीजेन सप्तशृंखलिका क्रमात् ॥१८.८५॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥१८.८६॥
{सप्तशृङ्खला}
समुखस्य रसेन्द्रस्य धान्याभ्रं पूर्वसंस्कृतम् ।
चारयेज्जारयेत्तद्वत्समांशं चाथ तस्य वै ॥१८.८७॥
षड्गुणं द्वंद्विते व्योम्नि सर्वं जार्यं च पूर्ववत् ।
ततो माक्षिकसत्वं च पादांशं तस्य गर्भतः ॥१८.८८॥
द्रावयेज्जारयेत्तद्वत्तावद्रसकसत्वकम् ।
पूर्ववद्द्रावितं जार्यं मूषायन्त्रे तु तत्क्रमात् ॥१८.८९॥
गर्भद्रावणकं बीजं द्रावितं जारयेत्पुनः ।
भवेच्चतुर्गुणं यावत्पश्चादभ्रसुवर्णयोः ॥१८.९०॥
द्रुतिं समसमां सूते द्वंद्वयित्वाथ जारयेत् ।
पूर्ववत्क्रमयोगेन कांतहेम्नो द्रुतिः पुनः ॥१८.९१॥
प्रत्येकं जारयेत्तुल्यं स्वर्णतीक्ष्णद्रुतिस्तथा ।
द्वंद्वितां जारयेत्तुल्यां ततो रंजकबीजकम् ॥१८.९२॥
पूर्ववत्क्रमयोगेन जार्ये तस्मिन्चतुर्गुणम् ।
ततस्तं पक्वबीजेन सारयेत्सारणात्रयम् ॥१८.९३॥
तदेव जारितं कुर्यान्मूषायन्त्रे तु पूर्ववत् ।
इत्येवं सप्तवाराणि सारितं तत्त्रिधा त्रिधा ॥१८.९४॥
पूर्ववज्जारणा कार्या ख्यातेयं सप्तशृङ्खला ।
सारणा यत्र यत्रोक्ता विज्ञेया वार्तिकैः पुनः ॥१८.९५॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥१८.९६॥
कर्माष्टादशकेनैव क्रमाद्वेधः प्रकाशितः ।
समुखं निर्मुखं बंधं रसबंधं तथेरितम् ॥१८.९७॥
गोपितं शंभुना सिद्धैः सूचितं न प्रकाशितम् ।
वार्तिकानां हितार्थाय मया तत्प्रकटीकृतम् ॥१८.९८॥
{वज्रबीज}
वज्रभस्म शुद्धहेम व्योमसत्वमयोरजः ।
चत्वारि समभागानि नागचूर्णं चतुःसमम् ॥१८.९९॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
एकीभूते समुद्धृत्य मूषायां प्रकटं धमेत् ॥१८.१००॥
माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।
हेमवज्रावशेषं तु यावत्स्यादुद्धरेत्ततः ॥१८.१०१॥
तस्मिन्नागं व्योमसत्त्वं अयश्चूर्णं च पूर्ववत् ।
निक्षिपेद्द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥१८.१०२॥
मिश्रीभूतं समुद्धृत्य मूषायां प्रकटं धमेत् ।
स्वर्णवज्रावशेषं तद्यावज्जातं समुद्धरेत् ॥१८.१०३॥
एवं पुनः पुनर्जार्यं व्योमसत्वायसं फणी ।
पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥१८.१०४॥
माक्षिकाद्धौतसत्त्वकं [... औ६ Zएइछेन्झ्] ।
क्षिपन्क्षिपन्धमेत्तं तु बाह्यमेवं तु षड्गुणम् ॥१८.१०५॥
वज्रबीजमिदं ख्यातं जारणे परमं हितम् ॥१८.१०६॥
{वज्रबीजजारणेन स्पर्शवेधी शब्दवेधी रसः}
वासनामुखिते सूते द्वंद्वितं व्योमसत्वकम् ।
पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥१८.१०७॥
तस्मिन्जार्यं वज्रबीजं व्योमसत्त्वक्रमेण वै ।
ग्रसते कच्छपे यंत्रे यथाजीर्णं तथा फलम् ॥१८.१०८॥
द्विगुणेऽयुतवेधी स्यात्त्रिगुणे लक्षवेधकः ।
यदा चतुर्गुणं जीर्णं दशलक्षाणि विध्यति ॥१८.१०९॥
कोटिवेधी पञ्चगुणे दशकोट्यस्तु षड्गुणे ।
अर्बुदांशात्सप्तगुणे शङ्खवेध्यष्टमे गुणे ॥१८.११०॥
नवमे खर्ववेधी स्याद्दशमे पद्मवेधकः ।
त्रयोदशगुणे जीर्णे स्पर्शवेधी भवेद्रसः ॥१८.१११॥
चतुर्दशगुणे जीर्णे भवेत्पाषाणवेधकः ।
त्रिपञ्चगुणिते जीर्णे सशैलवनकाननाम् ॥१८.११२॥
वेधयेन्मेदिनीं सर्वां स भवेद्भूचरो रसः ।
एवं कलागुणे जीर्णे त्रैलोक्यव्यापको भवेत् ॥१८.११३॥
खेचरो रसराजेन्द्रो मुखस्थः खेगतिप्रदः ।
जायते च यथाशक्त्या ततः सार्यं क्रमेण वै ॥१८.११४॥
वज्रबीजेन तुल्येन प्रथमा सारणा भवेत् ।
पूर्ववज्जारणा कार्या द्विगुणेनानुसारयेत् ॥१८.११५॥
तथैव जारयेद्भूयः कर्तव्या प्रतिसारणा ।
त्रिगुणेन तु तेनैव मुखं बद्ध्वाथ बन्धयेत् ॥१८.११६॥
द्विसहस्रादिलक्षान्तं वेधकस्याप्ययं विधिः ।
इत्येवं च पुनः कुर्यात्सारणां कोटिवेधके ॥१८.११७॥
दशकोट्याद्यर्बुदान्ते च जारिते वेधके रसे ।
त्रिप्रकारा प्रकर्तव्या सारणा तु त्रिधा त्रिधा ॥१८.११८॥
चतुर्गुणा शङ्खवेधे तदूर्ध्वं पञ्चधा भवेत् ।
षड्गुणा पद्मवेधे तु मूलवेधे तु सप्तधा ॥१८.११९॥
अष्टधा स्पर्शवेधे तु दशधा शब्दवेधके ।
ततस्त्रयोदशगुणाः कलागुणे कलागुणाः ॥१८.१२०॥
क्रमशः सारणा कार्या यथाशक्त्यानुसारतः ।
मुखं बद्ध्वा रसं बद्ध्वा पश्चाद्वेधं प्रकल्पयेत् ॥१८.१२१॥
चंद्रार्के वा भुजंगे वा क्रामणेन समायुतम् ।
इत्येवं पद्मपर्यन्तं संख्यावेधात्तु यो रसः ॥१८.१२२॥
तद्वेष्टितं मधूच्छिष्टैः कुंतवेधे तु योजयेत् ।
तत्सर्वं कनकं दिव्यं जायते शंभुभाषितम् ॥१८.१२३॥
{धूमवेधविधि}
धूमवेधे रसं पिष्ट्वा तेन वस्त्रं प्रलेपयेत् ।
ततो ज्योतिष्मतीतैले धृत्वा वर्तिं कल्पयेत् ॥१८.१२४॥
ज्वलितां तां ताम्रकूटे योजयेत्पत्त्रतां गते ।
तद्धूमगंधमात्रेण सर्वं भवति कांचनम् ॥१८.१२५॥
{स्पर्शवेधविधि}
स्पर्शवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।
द्रुतानामष्टलोहानां क्षिप्त्वा मध्ये समुद्धरेत् ।
तद्भवेत्कांचनं दिव्यमसंख्यं नात्र संशयः ॥१८.१२६॥
{शब्दवेधविधि}
शब्दवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।
धारयेद्वक्त्रमध्ये तु ततो लोहानि वेधयेत् ।
तत्सर्वं जायते स्वर्णं श्रुते शब्दे न संशयः ॥१८.१२७॥
{पाषाणवेधविधि}
पाषाणवेधको योऽसौ पर्वतानि तु तेन वै ।
वेधयेदग्निना तप्तान्सर्वं भवति कांचनम् ॥१८.१२८॥
{मेदिनीवेधविधि}
मेदिनीवेधको योऽसौ राजिकार्धार्धमात्रकः ।
तेनैव वेधयेत्सर्वां सशैलवनकाननाम् ।
मेदिनी सा स्वर्णमयी भवेत्सत्यं शिवोदितम् ॥१८.१२९॥
{त्रैलोक्यव्यापकविधि}
त्रैलोक्यव्यापको योऽसौ तं करे धारयेत्तु यः ।
स भवेत्खेचरो दिव्यो महाकायो महाबलः ॥१८.१३०॥
स्वेच्छाचारी महावीरः शिवतुल्यो भवेत्तु सः ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ॥१८.१३१॥
जायन्ते नात्र संदेहस्तत्स्वेदस्पर्शनादपि ।
रसकायो महासिद्धः सर्वलोकेषु पूज्यते ॥१८.१३२॥
अवध्यो देवदैत्यानां यावच्चन्द्रार्कमेदिनी ।
भुञ्जानो दिव्यभोगांश्च क्रीडते भैरवो यथा ॥१८.१३३॥
{रसबीजं शतवेधी}
भागत्रयं शुद्धसूतं भागैकं मृतवज्रकम् ।
काकिनीरजसा मर्द्यं तप्तखल्वे दिनावधि ॥१८.१३४॥
तेनैव पादभागेन हेमपत्राणि लेपयेत् ।
व्योमवल्लीरसैः पिष्टं कांतटंकणतालकम् ॥१८.१३५॥
अनेन चाष्टमांशेन पूर्वलिप्तानि लेपयेत् ।
रुद्ध्वा स्वेद्यं दिवारात्रौ करीषाग्नौ ततः पुनः ॥१८.१३६॥
कदलीकंदसौवीरटंकणं च समं समम् ।
कण्टकार्या द्रवैः पिष्ट्वा मूषा लेप्या त्वनेन वै ॥१८.१३७॥
तन्मध्ये पूर्वपक्वं यद्रुद्ध्वा धाम्यं दृढाग्निना ।
तत्सर्वं जायते खोटं सौवीरं काचटंकणम् ॥१८.१३८॥
दत्त्वा दत्त्वा धमेत्खोटं जायते भास्करोपमम् ।
रसबीजमिदं ख्यातं वेधके जारणे हितम् ।
चंद्रार्के शतवेधी स्यात्कांचनं कुरुते शुभम् ॥१८.१३९॥
{शब्दवेधी रसः}
अथ वक्ष्ये रसेन्द्रस्य समांशस्य च भक्षणम् ।
पूर्वोक्तं रसबीजं तु समुखे चारयेद्रसे ॥१८.१४०॥
अभ्रसत्वप्रकारेण जारयेत्तत्क्रमेण वै ।
पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥१८.१४१॥
ततस्तेनैव बीजेन सारणाक्रामणात्रयम् ।
ततश्च जारितं कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी भवेत्सो हि रसः शंकरभाषितम् ॥१८.१४२॥
{रसबीजं शतवेधि}
समुखस्य रसेन्द्रस्य पक्वबीजं समांशकम् ।
जारयेच्चाभिषिक्तं तदभ्रसत्त्वक्रमेण वै ॥१८.१४३॥
मृतवज्रं षोडशांशं तस्मिन्सूते विनिक्षिपेत् ।
तालकं टंकणं कांतं तृतीयं चाष्टमांशकम् ॥१८.१४४॥
दत्त्वा तस्मिंस्तदा खल्वे व्योमवल्लीद्रवैर्दिनम् ।
तत्सर्वं मर्दितं कृत्वा छायाशुष्कं प्रयत्नतः ॥१८.१४५॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
करीषाग्नौ दिवारात्रौ ध्माते खोटं भवेत्तु तत् ॥१८.१४६॥
काचटंकणसौवीरैः शोधयेत्तं धमन्धमन् ।
रसबीजमिदं ख्यातं पूर्ववत्शतवेधकम् ।
जायते रसराजोऽयं कुरुते कनकं शुभम् ॥१८.१४७॥
{मेर्चुर्यः: रञ्जनः: रेद्}
अथवा समुखे सूते पूर्ववज्जारयेद्दिनम् ।
पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥१८.१४८॥
रसबीजेन चान्येन त्रिधा सार्यं क्रमेण वै ।
सारिते जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी भवेत्साक्षात्ताम्रं स्वर्णं करोति वै ॥१८.१४९॥
{रसबीजम्}
पक्वबीजस्य चूर्णं तु पूर्ववच्चाभिषेकितम् ।
षोडशांशेन सूतस्य समुखस्य तु चारयेत् ॥१८.१५०॥
द्व्यङ्गुल्यां मर्दनेनैव घर्मे चरति तत्क्षणात् ।
तद्बीजं जारयेत्तस्य स्वेदनैश्चाभ्रसत्ववत् ॥१८.१५१॥
अनेन क्रमयोगेन समं बीजं तु सारयेत् ।
तद्वद्द्वादशभागेन पक्वबीजं तु तस्य वै ॥१८.१५२॥
चारयेन्मर्दयन्नेव कच्छपाख्येऽथ जारयेत् ।
अभ्रसत्वप्रकारेण समं यावच्च जारयेत् ॥१८.१५३॥
ततस्तस्याष्टमांशेन पक्वबीजं तु दापयेत् ।
मर्दयेत्तप्तखल्वे तत्चरत्येव हि तत्क्षणात् ॥१८.१५४॥
तं सूतं सूरणे कंदे गर्भे क्षिप्त्वा निरुध्य च ।
लिप्त्वा कंदं पुटे पच्याद्यथा कंदो न दह्यते ॥१८.१५५॥
तत्रैव ग्रसते सूतो जीर्णे ग्रासं तु दापयेत् ।
अनेन क्रमयोगेन समबीजं समं पुनः ॥१८.१५६॥
पादांशं पक्वबीजं तु दत्त्वा चार्यं च मर्दयेत् ।
मूषायन्त्रे ततो जार्यं स्वेदनेन पुनः पुनः ॥१८.१५७॥
अनेन क्रमयोगेन समबीजं च जारयेत् ।
एवं चतुर्गुणे जीर्णे पक्वबीजे तु पारदे ।
जायते कुंकुमाभस्तु रसेन्द्रो बलवत्तरः ॥१८.१५८॥
{धूमवेधी शब्दवेधी पाषाणवेधी रसः}
अभ्रकं भ्रामकं ब्राह्मी मृतलोहाष्टकं तथा ।
महारसाश्चोपरसाः कटुतुम्ब्याश्च बीजकम् ॥१८.१५९॥
शङ्खनाभिर्मेषशृङ्गी वज्रकंदं समं समम् ।
मयूरस्य तु रक्तेन सर्वं पाच्यं दिनावधि ॥१८.१६०॥
ततस्तं मर्दयेत्खोटं शिखिरक्ते दिनद्वयम् ।
अनेन मृतवज्रं तु लेपितं कारयेत्ततः ॥१८.१६१॥
मूषामाम्रफलाकारां द्विद्विलिप्तां तु कारयेत् ।
तन्मध्ये पूर्वसूतं तु पादांशं लिप्तवज्रकम् ॥१८.१६२॥
अथवा वज्रबीजं च पूर्वकल्केन लेपितम् ।
अथवा द्वंद्वितं वज्रं समं स्वर्णेन यत्कृतम् ॥१८.१६३॥
तल्लिप्तं पूर्वकल्केन पादांशं तत्र निक्षिपेत् ।
आच्छादितं धमेन्मन्दं मूषाधोमुखवायुना ॥१८.१६४॥
किंचित्किंचिद्बिडं दत्त्वा जीर्णे तस्मात्समुद्धरेत् ।
पुनस्तल्लिप्तमूषायां क्षिप्त्वा वज्रेण संयुतम् ।
पूर्ववत्क्रमयोगेन जीर्णे वज्रे समुद्धरेत् ।
अनेन क्रमयोगेन वज्रं वा वज्रबीजकम् ॥१८.१६५॥
स्वर्णद्वंद्वितवज्रं वा जारयेत्तत्पुनः पुनः ।
एकादशगुणं यावत्तावज्जार्यं रसेन्द्रके ॥१८.१६६॥
सुदग्धां शङ्खनाभिं तु मातुलिंगरसैर्दिनम् ।
मर्दयेल्लोलयेत्तेन मुक्ताचूर्णं सुशोभनम् ॥१८.१६७॥
द्रावितं मौक्तिकं वाथ पूर्ववज्जारयेद्धमन् ।
मूषायां बिडलिप्तायां पादं पादं शनैः शनैः ॥१८.१६८॥
एकादशगुणं यावत्तज्जार्यं कच्छपेन तत् ॥१८.१६९॥
नीलीनिर्याससंतुल्यं शिखिपित्तं विमर्दयेत् ।
इन्द्रनीलं च नीलं च तेन लिप्त्वाथ जारयेत् ॥१८.१७०॥
पूर्ववत्क्रमयोगेन धमनात्स्वेदनेन वा ।
विडलेपितमूषायां एकादशगुणं क्रमात् ॥१८.१७१॥
द्रावितं चेन्द्रनीलं वा नीलं च द्रावितं क्रमात् ।
द्वंद्वितं रसराजस्य जार्यमभ्रद्रुतिर्यथा ।
इत्येवं जारयेन्नीलं द्रावितं कठिनं तु वा ॥१८.१७२॥
शिखिपित्तनृरक्ताभ्यां लेपितं पद्मरागकम् ।
जारयेद्रसराजस्य त्वेकादशगुणं क्रमात् ।
जार्यं वा द्रावितं तत्तु यथा चाभ्रद्रुतिः पुरा ॥१८.१७३॥
रजनी तुल्यकंकुष्ठं ब्रह्मपुष्पद्रवैर्दिनम् ।
भावितं तेन लिप्तं तु पुष्परागं तु जारयेत् ॥१८.१७४॥
कठिनं द्रावितं वाथ रुद्रसंख्याक्रमेण वै ।
एवं रत्नैर्भवेत्तृप्तो रसराजो महाबलः ॥१८.१७५॥
अनेनैव शतांशेन मधूच्छिष्टेन लेपयेत् ।
शुद्धहाटकपत्राणि रुद्ध्वा गजपुटे पचेत् ॥१८.१७६॥
इंद्रगोपसमाकारं तत्स्वर्णं जायते शुभम् ।
अनेनैव सुवर्णेन सारयेत्सारणात्रयम् ॥१८.१७७॥
रत्नतृप्तं सूतराजं मूषायन्त्रे विनिक्षिपेत् ।
शनैः शनैर्धमेत्तावद्यावत्सूतावशेषितम् ॥१८.१७८॥
मुखं बद्ध्वा रसं बद्ध्वा धूमवेधी भवेत्तु तत् ।
अनेन क्रमयोगेन पुनः सारणजारणा ॥१८.१७९॥
कर्तव्यास्त्रिप्रकारा वै मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी रसेन्द्रोऽयं जायते खेगतिप्रदः ॥१८.१८०॥
पुनश्च त्रिविधा कार्या सारणाज्जारणा क्रमात् ।
तस्यैव तु रसेन्द्रस्य मुखबन्धं च कारयेत् ॥१८.१८१॥
तेनैव वेधयेत्सर्वं गिरिपाषाणभूतलम् ।
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥१८.१८२॥
सिद्धैर्भूचरखेचरा शिवमुखात्प्राप्ता महाजारणा कृत्वा तां च रसे रसातलमिदं स्वर्णेन पूर्णं कृतम् ।
तेषां कर्म विचार्य सारमखिलं स्पष्टीकृतं तन्मया यः कश्चिद्गुरुतन्त्रमन्त्रनिरतस्तस्यैव सिद्धं भवेत् ॥१८.१८३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:53.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

melanophore expanding hormone

  • Zool. मेलॅनिनपेशी विस्तारी हार्माएन 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.