TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.४

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.४
सूतगन्धगगनायसशुल्बं मारितं च परमामृतीकृतम् ।
इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥४.१॥
मृतकान्ताभ्रकं सूतं गन्धं भृङ्गविडङ्गकम् ।
त्वग्वर्जं बिल्वबीजं च प्रत्येकं पलषोडश ॥४.२॥
त्रिंशत्पलं त्र्यूषणं च त्रिंशत्त्रिंशद्घृतं मधु ।
चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥४.३॥
पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् ।
क्वाथ्यं अष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥४.४॥
कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।
लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥४.५॥
क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् ।
बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥४.६॥
महारसायनं दिव्यं कामिनीशततोषकम् ।
अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥४.७॥
भिन्नपत्त्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।
त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥४.८॥
चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् ।
तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥४.९॥
जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् ।
शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥४.१०॥
तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् ।
त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥४.११॥
तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् ।
त्रिंशत्पले गवां क्षीरे तत्पचेच्चाथ शीतलम् ॥४.१२॥
मध्वाज्यैर्द्विपलैर्युक्तं निष्कैकैश्च मरीचकैः ।
साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥४.१३॥
केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च ।
वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥४.१४॥
अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा ।
मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥४.१५॥
कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् ।
कोरण्टकस्य पत्त्राणि मृताभ्रं गन्धकं समम् ॥४.१६॥
तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे ।
तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥४.१७॥
मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा ।
समूलपत्त्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥४.१८॥
एकीकृत्य पिबेत्सर्वं वर्षैकेन जरां जयेत् ।
वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥४.१९॥
मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् ।
पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥४.२०॥
सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा ।
हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥४.२१॥
अमृतक्रीडे विष्णुसंवरणि स्वाहा ।
अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः ।
मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् ।
काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥४.२२॥
शाल्मलीमल्लिपत्त्राणां द्रवैर्भाव्यं दिनत्रयम् ।
त्रिदिनं भृङ्गजैर्द्रावैर्भावितं शोषयेत्पुनः ॥४.२३॥
तस्मिन्तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः ।
रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥४.२४॥
वर्षैकेन जरां मृत्युं हन्ति सत्यं न संशयः ।
मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥४.२५॥
शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके ।
स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥४.२६॥
वत्सरैकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
कान्तभस्म कणाचूर्णं निम्बनिर्यासमेव च ॥४.२७॥
त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् ।
लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥४.२८॥
कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे ।
शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥४.२९॥
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् ।
कोरण्टपत्त्रचूर्णं तु कान्तभस्म तिला गुडम् ॥४.३०॥
तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् ।
कान्तभस्म समं गन्धं तैलैर्ज्योतिष्मतीभवैः ॥४.३१॥
लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः ।
बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥४.३२॥
मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् ।
घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥४.३३॥
गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् ।
वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥४.३४॥
मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् ।
निष्कं निष्कं तु वर्षैकं जीवेद्ब्रह्मदिनत्रयम् ॥४.३५॥
त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा ।
पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥४.३६॥
वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् ।
सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥४.३७॥
रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् ।
वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥४.३८॥
लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।
दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥४.३९॥
ओं हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतं आज्ञापितंकुरु कुरुस्वाहा हे हे हं हः गं इति गन्धकलोहयोर्भक्षणमन्त्रः ।
सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।
आस्वादयेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥४.४०॥
मूलानि भक्षयेत्तासां आस्यवैरस्यशान्तये ।
बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिबेत्सदा ॥४.४१॥
स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।
ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥४.४२॥
सम्यग्जीर्णे तु दीप्ताग्नौ पिबेत्पश्चाद्बुभुक्षितः ।
शृतं क्षीरं ततोऽन्नं च सेव्यं लौहरसायने ॥४.४३॥
ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥४.४४॥
जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः ।
ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥४.४५॥
त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् ।
एकीकृत्य क्षिपेद्भाण्डे तं रुद्ध्वा धान्यराशिगम् ॥४.४६॥
कृत्वा मासात्समुद्धृत्य भागान्कुर्याच्चतुर्दश ।
भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥४.४७॥
एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥४.४८॥
ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह ।
पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥४.४९॥
पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥४.५०॥
ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् ।
तुल्यैः पिबेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥४.५१॥
बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः ।
द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥४.५२॥
दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् ।
मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥४.५३॥
महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् ।
ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥४.५४॥
अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् ।
पक्वधात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥४.५५॥
कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्गोमयैः पुनः ।
आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्गोमयैस्ततः ॥४.५६॥
शुष्के गजपुटं देयं परितोऽरण्यकोत्पलैः ।
स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥४.५७॥
क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् ।
यथेष्टं भूगृहान्तस्थः क्षीराहारी जरां जयेत् ॥४.५८॥
मासद्वयेन वसुधां छिद्रां पश्यति निश्चितम् ।
जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥४.५९॥
श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।
कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥४.६०॥
ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः ।
अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥४.६१॥
शरीरं भस्मना मर्द्यं मासान्मृत्युजरां जयेत् ।
जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥४.६२॥
अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः ।
तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥४.६३॥
अमृतं कुरु कुरु अमृतमालिन्यै नमः ।
अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः ।
शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।
रेवत्यां वाथ सम्पूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥४.६४॥
छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह ।
वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥४.६५॥
तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् ।
तच्चूर्णं तु घृतैर्लेह्यं तद्वत्स्याद्बलमद्भुतम् ॥४.६६॥
ओं नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां सः ।
इति औषधभक्षणमन्त्रः ।
छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरां जयेत् ॥४.६७॥
जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः ।
तच्चूर्णं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥४.६८॥
पूर्ववज्जायते सिद्धिर्वत्सरान्नात्र संशयः ।
तच्चूर्णं वाकुचीवह्निसर्पाक्षीभृङ्गराट्समम् ॥४.६९॥
चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥४.७०॥
पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः ।
देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥४.७१॥
पिबेत्स्यात्पूर्ववत्सिद्धिर्वत्सरान्नात्र संशयः ।
देवदालीं च निर्गुण्डीं पिबेत्कर्षं शिवाम्बुना ।
वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥४.७२॥
ओं अमृतगण रुद्रगणाम्भः स्वाहा ।
अयं च ग्रहणमन्त्रः ।
नमो भगवते रुद्राय हुं फट्स्वाहा ।
अयं साधकस्य शिखाबन्धनमन्त्रः ।
ओं चर र र ।
अयं भक्षणमन्त्रः ॥४.७३॥
पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् ।
चूर्णकर्षं गवां क्षीरैः पलद्वंद्वैर्युतं पिबेत् ॥४.७४॥
मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
द्रवं श्वेतार्कपत्त्राणां भृङ्गराजद्रवैः समम् ॥४.७५॥
एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः ।
मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् ।
तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥४.७६॥
ओं आं हं वासरमालिने स्वाहा ।
अयं भक्षणमन्त्रः ।
ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्त्रकम् ।
छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥४.७७॥
वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ।
हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥४.७८॥
कर्षमात्रं पिबेन्नित्यं मासैकमुदकैः सह ।
आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥४.७९॥
प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् ।
जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥४.८०॥
ओं गरविषं दृष्टौ गृह्णामि स्वाहा ।
हस्तिकर्णग्रहणमन्त्रः ।
ओं अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।
अनेन पूजयेत् ।
ओं अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः ।
भक्षणमन्त्रः ॥४.८१॥
रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तदर्धं मुसलीचूर्णं मुसल्यर्धं फलत्रयम् ॥४.८२॥
मूलानां कतकोत्थानां तैलं पातालयन्त्रके ।
ग्राहयेद्गर्भयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥४.८३॥
नालिकेरजलैर्वाथ क्षाल्यं पञ्चांशवारकम् ।
एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥४.८४॥
कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् ।
एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥४.८५॥
सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् ।
पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥४.८६॥
छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिबेत्सदा ।
अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥४.८७॥
वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः ।
तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥४.८८॥
रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् ।
द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥४.८९॥
तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् ।
तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥४.९०॥
वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥४.९१॥
निर्गुण्डीपत्त्रजं द्रावं भाण्डे मृद्वग्निना पचेत् ।
गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥४.९२॥
निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः ।
राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् ।
मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥४.९३॥
ओं नमो माय गणपतये भूपतये कुबेराय स्वाहा इति भक्षणमन्त्रः ।
भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा ।
लाङ्गली निम्बपत्त्राणि सहदेवी समं समम् ॥४.९४॥
एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः ।
तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥४.९५॥
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ।
तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥४.९६॥
कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् ।
यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥४.९७॥
पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् ।
ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥४.९८॥
नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् ।
निष्कार्धनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥४.९९॥
काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् ।
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥४.१००॥
गुडूची मुसली मुण्डी निर्गुण्डी च शतावरी ।
विजया च समं चूर्णं सितामध्वाज्यसंयुतम् ॥४.१०१॥
खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् ।
उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥४.१०२॥
कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शुनकशाल्मलेः ।
आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥४.१०३॥
दत्त्वाघोरं जपेत्तत्र यावदष्टसहस्रकम् ।
तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥४.१०४॥
मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥४.१०५॥
तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् ।
पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥४.१०६॥
फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् ।
फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥४.१०७॥
चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः ।
जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥४.१०८॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥४.१०९॥
समूला देवदाली च निम्बवाकुचीबीजकम् ।
फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥४.११०॥
नीलकोरण्टपत्त्राणि त्रिफला च समं समम् ।
चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥४.१११॥
छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् ।
भक्षेत्कर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् ।
जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥४.११२॥
ओं ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसंजीवनि सर्वकामप्रदे भगवान्सोमराज आज्ञापयति स्वाहा इति भक्षणमन्त्रः ।
त्रिफला वाकुचीबीजं पिप्पली चाश्वगन्धिका ।
सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥४.११३॥
ओं ह्रां ह्रीं ह्रूं सः स्वाहा अनेन मन्त्रेण भक्षयेत् ।
मूलिकाकल्पयोगेषु गुञ्जैकं मृतपारदम् ।
प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् ।
रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥४.११४॥
अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः ।
जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥४.११५॥
तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् ।
अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥४.११६॥
ओं ह्रीं महाभयेरुम् ।
प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानैर्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्त्रं रसं वा ।
सर्वाङ्गं वाथ सिद्ध्यै सकलमभिनवं सेवयेद्ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम् ॥४.११७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:46.9930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

falciform border

  • दात्राकार किनार 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site