TransLiteral Foundation

रसरत्नाकर - प्रकरण ३.९

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.९
वज्रेण हेममिलितेन तु रञ्जितेन सूतेन हेममिलितेन सुरञ्जितेन ।
योगैः सुसुन्दरतरैः कनकाद्रिकूटं कृत्वाथ शक्रपदहेतुमखांश्च कुर्यात् ॥९.१॥
{द्वन्द्वमेलापन}
अयस्कांतमुखं गुंजां तयोर्द्विगुणगंधकम् ।
स्त्रीस्तन्यैः पेषितं लेप्यं मूषायां द्वंद्वमेलकम् ॥९.२॥
{द्वन्द्वमेलनः: वज्र}
गंधशशदन्ताश्च भ्रामकस्य मुखं तथा ।
अम्लवेतसः शिलाधातुः सर्वं तुल्यं प्रपेषयेत् ॥९.३॥
मूषालेपेन तेनैव वज्रद्वंद्वं मिलत्यलम् ॥९.४॥
{वज्रद्वन्द्वमेलापन (३)}
महिषीकर्णनेत्रोत्थमलं चूर्णं च टंकणम् ।
स्त्रीस्तन्यं कर्कटास्थीनि शिलाजतु समं समम् ।
पिष्ट्वा मूषां प्रलेपेन वज्रद्वन्द्वेषु मेलकम् ॥९.५॥
{वज्रद्वन्द्वमेलापन (४)}
भ्रमरास्थिनृकेशांश्च टंकणं कांतजं मुखम् ।
बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।
तत्कल्कलिप्तमूषायां वज्रद्वंद्वं मिलत्यलम् ॥९.६॥
{वज्रसूतमेलापन}
भूनागं कांतपाषाणं माक्षिकं टंकणं मधु ।
स्नुक्पयःकर्कटास्थीनि काचमर्कपयः समम् ॥९.७॥
स्त्रीस्तन्यैः पेषितं सर्वं मूषालेपं तु कारयेत् ।
तन्मध्यस्थं वज्रसूतं हठाद्ध्माते मिलत्यलम् ॥९.८॥
{स्वर्णवज्रमेलापन (द्वन्दखोट)}
मृतवज्रस्य चत्वारो भागा द्वादशहाटकम् ।
नागस्य च त्रयो भागाः षट्शुद्धस्य च पारदात् ॥९.९॥
एकीकृत्य तु तन्मर्द्यं दिनमम्लेन केनचित् ।
तप्तखल्वे तु तत्कल्कं समुद्धृत्य निरोधयेत् ॥९.१०॥
मूषायां द्वन्द्वलिप्तायां हठाद्ध्माते मिलत्यलम् ॥९.११॥
{स्वर्णवज्रमेलापन (२)}
क्षारैरुत्पलसारिण्या मृतं वज्रं विभावयेत् ।
दिनैकं शोधितं पिष्टं एकैकां कारयेद्वटीम् ॥९.१२॥
त्रिभागं पारदं चैव भागाश्चत्वारि हाटकम् ।
अम्लेन कारयेत्पिष्टीं तद्गर्भे तां क्षिपेद्वटीम् ॥९.१३॥
भूर्जपत्रेण तद्बद्ध्वा धान्यराशौ विनिक्षिपेत् ।
पक्षमात्रात्समुद्धृत्य पूर्वमूषागतं धमेत् ॥९.१४॥
मिलत्येव न संदेहो धाम्यमानं पुनः पुनः ॥९.१५॥
{स्वर्णवज्रमेलापन (द्वन्द्वखोट, २)}
मृतवज्रस्य भागैकं स्वर्णपत्रेण वेष्टयेत् ।
सम्यक्षोडशभागेन मूषायां पूर्ववत्क्षिपेत् ॥९.१६॥
स्वर्णतुल्यं सितं काचं अथवा नृकपालकम् ।
चूर्णयित्वा क्षिपेत्तस्यां रुद्ध्वा तीव्राग्निना धमेत् ॥९.१७॥
समुद्धृत्य पुनर्देयं काचं वा नृकपालकम् ।
लिप्त्वा मूषां धमेत्तदेवं मूषासु सप्तसु ॥९.१८॥
हेम्ना मिलति तद्वज्रं इत्येवं मेलयेत्पुनः ।
यावन्मिलति पादांशं सुवर्णे मृतवज्रकम् ॥९.१९॥
{चोप्पेर्=> गोल्द्}
द्विभागं द्वंद्वखोटस्य त्रिभागं द्रुतसूतकम् ।
मर्दयेदम्लयोगेन दिनान्ते तं च गोलकम् ॥९.२०॥
मेषशृंग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेधयेद्गोलं तद्बहिर्निगलेन च ॥९.२१॥
स्वेदादिमेलनान्तं च कारयेद्धेमपिष्टिवत् ।
मेषशृंगीभवैः क्षारैस्तत्खोटं मर्दयेत्क्षणम् ॥९.२२॥
मूषान्तर्लेपयेत्तेन तत्तुल्यं हाटकं क्षिपेत् ।
यावज्जीर्णं धमेत्तावत्पुनः स्वर्णं च दापयेत् ॥९.२३॥
जारयेद्धमनेनैव दत्त्वा विडवटीं क्रमात् ।
एवं विंशगुणं यावत्तावत्स्वर्णं च जारयेत् ॥९.२४॥
स्वर्णेन तु समावर्त्य सारणात्रययोगतः ।
तेनैव वेधयेच्छुल्बं सहस्रांशेन कांचनम् ।
जायते दिव्यरूपाढ्यं जांबूनदसमप्रभम् ॥९.२५॥
{सितस्वर्ण => गोल्द्}
वज्रमूषागतं ध्मातं द्वंद्वखोटं हठाग्निना ।
माक्षिकाद्धौतसत्त्वं वा सत्त्वं वा माक्षिकोद्भवम् ॥९.२६॥
स्तोकं स्तोकं क्षिपेत्तस्मिन्ध्माते जीर्णे पुनः पुनः ।
यावत्तत्कुंकुमाभं स्यात्तावद्वज्रं समुद्धरेत् ॥९.२७॥
लक्षांशेन तु तेनैव सितहेमं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥९.२८॥
{सितस्वर्ण => गोल्द्}
वैक्रांतं माक्षिकं तुत्थं रसकाञ्जनगैरिकम् ।
विमला चैव वैडूर्यं एतेष्वेकं पलार्धकम् ॥९.२९॥
नागबंगार्ककेष्वेकं यथालाभं पलार्धकम् ।
द्वंद्वचूर्णं ततो रुद्ध्वा वज्रमूषागतं धमेत् ॥९.३०॥
पूर्ववद्गंधकाम्लेन मर्द्यं रुद्ध्वा पुटे पचेत् ।
चतुर्दशपुटैरेवं बालार्कसदृशं भवेत् ॥९.३१॥
अनेन वज्रखोटं तु यथापूर्वं तु रञ्जयेत् ।
तद्वद्वध्यं सितं हेम लक्षांशात्कांचनं भवेत् ॥९.३२॥
अथवा द्वंद्वखोटं तु सूक्ष्मचूर्णं तु कारयेत् ।
एतत्खोटं शुद्धचूर्णं अंधमूषागतं धमेत् ॥९.३३॥
आरोटरसतस्तुल्यं जम्बीरैर्मर्दयेत्दिनम् ।
वस्त्रे बद्ध्वा दिनं स्वेद्यं दोलायंत्रे सकांजिके ॥९.३४॥
सवस्त्रं पाचयेत्पश्चाद्गन्धतैले दिनावधि ।
ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् ॥९.३५॥
स्वेदादिधमनान्तं च कारयेद्धेमपिष्टिवत् ।
तत्खोटं तु समुद्धृत्य रञ्जयेत्तन्निगद्यते ॥९.३६॥
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥९.३७॥
चूर्णं रुद्ध्वा धमेद्गाढं तत्खोटं मर्दयेत्पुनः ।
पूर्ववद्गंधकाम्लेन पुटान्दद्याच्चतुर्दश ॥९.३८॥
अनेन पूर्वखोटं तु मूषामध्ये च पूर्ववत् ।
यावत्कुंकुमवर्णं स्यात्तावद्वारं शनैः शनैः ॥९.३९॥
स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।
अनेन लक्षभागेन द्रुतं शुल्वं तु वेधयेत् ॥९.४०॥
जायते कनकं दिव्यं सत्यं शंकरभाषितम् ॥९.४१॥
{मेर्चुर्यः: रेद्भस्मन्}
कर्षैकं द्रुतसूतस्य ह्यष्टगुंजं तु हाटकम् ।
चतुर्गुंजं मृतं वज्रं हंसपाद्या द्रवैर्दिनम् ॥९.४२॥
मर्दयेत्तप्तखल्वे तु वज्रमूषान्धितं पचेत् ।
भूधराख्यपुटैकेन समुद्धृत्याथ मर्दयेत् ॥९.४३॥
हंसपाद्या द्रवैरेवं तप्तखल्वे दिनावधि ।
पूर्ववद्भूधरे पच्यादेवं शतपुटैः पचेत् ॥९.४४॥
रक्तवर्णं भवेद्भस्म सर्वयोगेषु योजयेत् ॥९.४५॥
{मेर्चुर्यः: जारणः: ओफ़् अभ्र}
द्रवैर्वर्तुलपत्रायाः सोमवल्ल्या द्रवैश्च वा ।
धान्याभ्रं सप्तधा भाव्यं ततो जारणमारभेत् ॥९.४६॥
गोस्तनाकारमूषायां सूतं शुद्धं विनिक्षिपेत् ।
पूर्वाभ्रं षोडशांशं च मूषायां चणकद्रवैः ॥९.४७॥
वालुकाभाण्डमध्ये तु चुल्ल्यां मृद्वग्निना पचेत् ।
अभ्रके चणकद्रावं जीर्णे जीर्णे क्षिपेत्पुनः ॥९.४८॥
इत्येवं जारयेत्तुल्यं पारदे गगनं क्रमात् ।
{अभ्रः: पिष्टी}
सोमवल्लीरसैर्यामं मर्द्यं धान्याभ्रकं ततः ॥९.४९॥
रुद्ध्वा वनोत्पलैर्दद्यात्क्रमादेवं पुटत्रयम् ।
सप्तधा भावयेद्घर्मे सोमवल्ल्या द्रवैर्दिनम् ॥९.५०॥
श्वेतायाः शरपुङ्खाया मूलैर्गोक्षीरघर्षितैः ।
कल्कितैर्मृण्मयं पात्रं लिप्त्वा तत्राभ्रकं क्षिपेत् ॥९.५१॥
तन्मध्ये निक्षिपेत्सूतं तत्पृष्ठे चाभ्रकं पुनः ।
सोमवल्लीद्रवैः पूर्वं तत्पात्रं चातपे खरे ॥९.५२॥
धारयेच्चरते दीर्घं जायते व्योमपिष्टिका ।
{चोप्पेर्=> गोल्द्;  कोटिवेध}
पूर्वोक्ता गन्धपिष्टी या स्तम्भिता जारणं विना ॥९.५३॥
तथा ह्यभ्रकपिष्टी च अभ्रसत्त्वं तृतीयकम् ।
चतुर्थं रक्तभस्मापि पूर्वं वज्रेण यत्कृतम् ॥९.५४॥
चत्वारः प्रतिकर्षांशं जारितं पारदं पलम् ।
सर्वमेतत्तप्तखल्वे हंसपाद्या द्रवैर्दिनम् ॥९.५५॥
मर्दितं तत्समुद्धृत्य पचेत्कच्छपयंत्रके ।
यावत्सूतावशेषं तु तावज्जार्यं पुटेन वै ॥९.५६॥
अस्य सूतस्य तुल्यांशं वज्रद्वंद्वं नियोजयेत् ।
दोलास्वेदेन पक्तव्यं यावद्भवति गोलकम् ॥९.५७॥
जारयेत्कच्छपे यंत्रे यावत्सूतावशेषितम् ।
इत्येवं षड्गुणं जार्यं वज्रद्वंद्वं प्रयत्नतः ॥९.५८॥
तेनैव वज्रद्वंद्वेन सारयेत्सारणात्रयम् ।
अनेन कोटिभागेन द्रुतं शुल्बं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.५९॥
{चन्द्रार्क => गोल्द्}
भागैकं मृतवज्रस्य शुद्धसूतस्य षोडश ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनावधि ॥९.६०॥
पक्वबीजस्य पत्राणि तुल्यान्येतेन लेपयेत् ।
सुपक्वभानुपत्रैस्तु लिप्तपत्राणि वेष्टयेत् ॥९.६१॥
शरावसंपुटे रुद्ध्वा निखनेच्चुल्लिमध्यतः ।
त्रिदिनं ज्वालयेत्तत्र वह्निमल्पाल्पशः क्रमात् ॥९.६२॥
ततो निगडलिप्तायां मूषायां तेन रोधयेत् ।
कारीषवह्निना पच्यातहोरात्रात्समुद्धरेत् ॥९.६३॥
मधुना मर्दयेत्किंचित्ततस्तेन शतांशतः ।
लिप्त्वा चन्द्रार्कपत्राणि ह्यंधमूषागतं धमेत् ।
स्वर्णं भवति रूपाढ्यं सत्यं शंकरभाषितम् ॥९.६४॥
{चोप्पेर्=> गोल्द्}
मृतवज्रस्य भागैकं भागैकं हाटकस्य च ।
त्रिभागं द्रुतसूतस्य सर्वं स्तन्येन मर्दयेत् ॥९.६५॥
तद्गोलं बन्धयेद्वस्त्रे गन्धतैले त्र्यहं पचेत् ।
ततस्तुल्येन स्वर्णेन समावर्तं तु कारयेत् ॥९.६६॥
दत्त्वा विडवटीं चैव एकविंशतिवारकम् ।
एकविंशगुणे जीर्णे सारयेत्सारणात्रयम् ॥९.६७॥
सहस्रांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.६८॥
{सिल्वेर्, चोप्पेर्=> गोल्द्}
शुद्धसूतं मृतं वज्रं हंसपाद्या द्रवैः समम् ।
मर्दयेत्तप्तखल्वे तु त्रिदिनान्ते समुद्धरेत् ॥९.६९॥
बीजैर्दिव्यौषधानां च पिष्ट्वा मूषां प्रलेपयेत् ।
तत्र पूर्वरसं क्षिप्त्वा रुद्ध्वा तत्करिषाग्निना ॥९.७०॥
समुद्धृत्य पुनस्तस्मिन्शुद्धसूतं समं क्षिपेत् ।
हंसपाद्या द्रवैर्मर्द्यं पूर्ववद्दिवसत्रयम् ॥९.७१॥
तद्गोलं पूर्वमूषायां रुद्ध्वा गजपुटे पचेत् ।
जायते भस्म सूतोऽयं सर्वकर्मसु योजयेत् ॥९.७२॥
अस्य तुल्यं शुद्धसूतं सूतपादं च टंकणम् ।
सर्वमम्लैर्दिनं मर्द्यं कृत्वा गोलं समुद्धरेत् ॥९.७३॥
रक्तकार्पासयोर्बीजं राजिका यवचिञ्चिका ।
वन्ध्याकर्कोटकी चैव पिष्ट्वा गोलं प्रलेपयेत् ॥९.७४॥
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा मूषां विशोषयेत् ।
कारीषाग्नौ दिवारात्रौ पाचयित्वा समुद्धरेत् ॥९.७५॥
पूर्वकल्केन तद्गोलं क्षिप्त्वा रुद्ध्वाथ पूर्ववत् ।
पुटे पच्याद्दिवारात्रौ एवं कुर्याच्च सप्तधा ॥९.७६॥
ततस्तेनैव कल्केन लिप्त्वा रुद्ध्वाथ शोषयेत् ।
सम्यग्गजपुटे पच्यात्ततो मूषागतं धमेत् ॥९.७७॥
शतमांशेन तेनैव चन्द्रार्कौ वेधयेद्द्रुतम् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.७८॥
{चन्द्रार्क => गोल्द्}
अथवा भस्मसूतं तत्कार्यं टंकणसंयुतम् ।
अंधमूषागतं ध्मातं खोटं भवति शोभनम् ॥९.७९॥
खोटतुल्यं शुद्धहेम सर्वमेकत्र द्रावयेत् ।
चन्द्रार्कं वेधयेत्तेन पूर्ववत्कांचनं भवेत् ॥९.८०॥
{शतवेधिकल्कः  तारे ताम्रे}
वज्रभस्म स्नुहीक्षीरैर्दिनं एकं विमर्दयेत् ।
रुद्ध्वा गजपुटे पच्यातेवं शतपुटैः पचेत् ॥९.८१॥
तत्तुल्यं पारदं शुद्धं क्षिप्त्वा मर्द्यं दिनत्रयम् ।
देवदाल्या द्रवैरेवं तद्गोलं चान्धितं पुटेत् ॥९.८२॥
कारीषाग्नौ दिवारात्रौ समुद्धृत्याथ मर्दयेत् ।
देवदाल्या द्रवैस्त्र्यहं तद्वद्रुद्ध्वा पुटे पचेत् ॥९.८३॥
एवं दशपुटैः पाच्यं वज्रतुल्यं च हाटकम् ।
क्षिप्त्वा कांचनकद्रावैर्मर्दयेद्दिवसत्रयम् ॥९.८४॥
पूर्ववत्पुटपाकेन एवं दशपुटैः पचेत् ।
स्वर्णतुल्यं ततस्तीक्ष्णं चूर्णं कृत्वा नियोजयेत् ॥९.८५॥
मर्दयेत्त्रिफलाद्रावैस्तत्सर्वं दिवसत्रयम् ।
पुटयेत्पूर्वयोगेन एवं दशपुटैः पचेत् ॥९.८६॥
तीक्ष्णतुल्यं मृतं नागं दत्त्वा सर्वं विमर्दयेत् ।
वासारक्ताश्वमारोत्थद्रावैः खल्वे दिनत्रयम् ॥९.८७॥
रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।
एवं दशपुटैः पक्वं समुद्धृत्याथ मर्दयेत् ॥९.८८॥
अम्लवर्गेण तत्सर्वं मर्द्यं यामचतुष्टयम् ।
रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ॥९.८९॥
एवं दशपुटैः पाच्यं सिन्दूरसदृशं भवेत् ।
अनेन शतमांशेन चन्द्रार्कं वेधयेद्द्रुतम् ॥९.९०॥
अथवा मधुनाक्तेन चन्द्रार्कौ लेपयेत्ततः ।
जायते कनकं दिव्यं पुटे दत्ते न हीयते ॥९.९१॥
अथवा तारपत्राणि मधुनाक्तेन लेपयेत् ।
चतुःषष्टितमांशेन दिव्यं भवति कांचनम् ॥९.९२॥
{चन्द्रार्क => गोल्द्(शतवेधिकल्कः)}
चतुःषष्टिगुणं सूतं भागैकं मृतवज्रकम् ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥९.९३॥
भागत्रयं हेमपत्रं अनेनैव प्रलेपयेत् ।
रुद्ध्वाथ भूधरे पच्यात्समुद्धृत्याथ मर्दयेत् ॥९.९४॥
शुद्धेन सूतराजेन त्रिगुणेन च संयुतम् ।
अम्लवर्गैस्त्र्यहं मर्द्यं रुद्ध्वाथ भूधरे पुटेत् ॥९.९५॥
पुनर्मर्द्यं पुनः पाच्यं एकविंशतिवारकम् ।
अनेन शतमांशेन चंद्रार्कं मधुना सह ॥९.९६॥
लिप्त्वा रुद्ध्वा धमेद्गाढं दिव्यं भवति काञ्चनम् ॥९.९७॥
{सिल्वेर्=> गोल्द्(षोडशवेधिकल्कः)}
पूर्वोक्तभस्मसूतेन अम्लपिष्टेन लेपयेत् ।
चतुर्गुणं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ।
पादांशेन पुनस्तस्मिन्भस्मसूतं नियोजयेत् ॥९.९८॥
मर्दयेदम्लवर्गेण तद्वद्रुद्ध्वा पुटे पचेत् ।
एवं चतुःपुटैः पक्वं म्रियते हाटकं शुभम् ॥९.९९॥
तेनैव षोडशांशेन द्रुतं तारं तु वेधयेत् ।
अथवा पत्रलेपेन दिव्यं भवति कांचनम् ॥९.१००॥
{चोप्पेर्=> गोल्द्; शतवेधिकल्कः}
मृतवज्रस्य भागैकं शुद्धसूतस्य षोडश ।
देवदालीशङ्खपुष्पीरसैर्मर्द्यं दिनत्रयम् ॥९.१०१॥
वज्रमूषागतं रुद्ध्वा दिनैकं भूधरे पचेत् ।
समुद्धृत्याथ तद्द्रावैर्दिनं मर्द्यं निरुध्य च ॥९.१०२॥
दिनैकं भूधरे पच्यात्तद्वन्मर्द्यं च पाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते भस्मसूतकम् ॥९.१०३॥
तद्भस्मसूतकं तुल्यं वज्रमूषान्धितं धमेत् ।
तत्खोटं जायते दिव्यं रञ्जयेत्तन्निगद्यते ॥९.१०४॥
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।
तत्खोटं सिद्धचूर्णं तु गंधकाम्लेन मर्दयेत् ॥९.१०५॥
पूर्ववत्क्रमयोगेन पुटान्दद्याच्चतुर्दश ।
अनेन पूर्वखोटं तु द्रुतं वाप्यं पुनः पुनः ॥९.१०६॥
तद्भस्म गंधकं तुल्यं वज्रमूषान्धितं धमेत् ।
दशवारेण तत्खोटं जायते कुंकुमप्रभम् ॥९.१०७॥
स्वर्णेन च त्रिधा सार्यं शतवेधी भवेच्च तत् ।
द्रुतशुल्बे प्रदातव्यं दिव्यं भवति कांचनम् ॥९.१०८॥
{तारारिष्ट => गोल्द्(सहस्रवेधिकल्कः)}
पूर्वोक्तं भस्मसूतं तु पलैकं समपन्नगम् ।
कांतपात्रगतं मर्द्यं दिनैकं लोहमुष्टिना ॥९.१०९॥
मृद्वग्निना तु तत्पात्रे मर्दयेत्पाचयेच्छनैः ।
यावन्मिश्रं समुद्धृत्य रुद्ध्वा गजपुटे पचेत् ॥९.११०॥
मर्द्यं वासारसैः पच्यादेवं वारचतुर्दश ।
गोपित्तेन पुनर्मर्द्यं देयं पुटचतुर्दश ॥९.१११॥
तत्तुल्यं स्वर्णचूर्णं च दत्त्वा पित्तेन मर्दयेत् ।
दिनान्ते तत्समुद्धृत्य क्रामणेन समायुतम् ॥९.११२॥
सहस्रांशेन तेनैवं तारारिष्टं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥९.११३॥
नागस्थाने यदा बंगं पूर्ववत्क्रमयोगतः ।
तारचूर्णेन संयुक्तं शुल्बे वेधं प्रदापयेत् ।
सहस्रांशेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥९.११४॥
{चोप्पेर्=> गोल्द्}
द्रुतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ।
मृतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ॥९.११५॥
दिव्ययोगवरैः खोटं पूर्वं नानाविधं तु यत् ।
प्रोक्तं तत्खोटमेकं तु द्रावयेत्पिष्टिखोटवत् ॥९.११६॥
द्रुतं तु पारदं दिव्यं मृत्युदारिद्र्यनाशनम् ।
अथास्य द्रुतसूतस्य जारयेत्पक्वबीजकम् ॥९.११७॥
क्रमेण षड्गुणं यावत्कच्छपाख्ये विडान्विते ।
वक्ष्यमाणप्रकारेण व्योमसत्त्वं यथा जरेत् ॥९.११८॥
जारितं तत्त्रिधा सार्यं पक्वबीजेन वै क्रमात् ।
अनेन कोटिमांशेन द्रुतशुल्बं तु वेधयेत् ॥९.११९॥
जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.१२०॥
{वज्रः: द्रावण}
अथास्य कोटिवेधस्य रसेन्द्रस्यापरो विधिः ।
विष्णुक्रान्ता च चक्राङ्का कण्टारी चैव चिञ्चिका ॥९.१२१॥
एतासां द्रवमादाय मूषालेपं तु कारयेत् ।
तस्यां पूर्वरसं क्षिप्त्वा धमेद्द्रावं क्षिपन्क्षिपन् ॥९.१२२॥
वज्रं तत्रैव दातव्यं द्रवत्येव न संशयः ।
{मेर्चुर्यः: शब्दवेधिन्}
ततस्तस्मात्समुद्धृत्य दोलायंत्रे त्र्यहं पचेत् ॥९.१२३॥
उद्धृत्य विडलिप्तायां मूषायां प्रकटं धमेत् ।
ग्रसन्त्येव न संदेहस्तीव्रध्मातानलेन च ॥९.१२४॥
वज्रं वा पद्मरागं वा जार्यं दशगुणे रसे ।
कारयेद्वज्रबीजेन शब्दवेधी भवेद्रसः ॥९.१२५॥
{सप्फिरेः: द्रावण}
अथवा मारिते तस्मिन्जारणं सारयेत्पुनः ।
उच्चटा मीननयना सर्पाक्षी रक्तचित्रकम् ॥९.१२६॥
एतासां निक्षिपेद्द्रावं द्रुते मूषागते रसे ।
इन्द्रनीलं क्षिपेत्तत्र द्रवत्येव न संशयः ॥९.१२७॥
{सप्फिरेः: => खेचरी}
पूर्ववत्स्वेदनेनैव विडयोगेन जारयेत् ।
इत्येवं त्रिगुणं जार्यं इन्द्रनीलं क्रमेण तु ॥९.१२८॥
तद्रसं वक्त्रमध्ये तु यः करोति नरोत्तमः ।
स पूज्यो देवदेवानां खेचरत्वेन मोदते ॥९.१२९॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ।
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ॥९.१३०॥
इत्येवं विष्टिखोटं परिरसं अपरं संकरैः खोटबद्धं जातं तद्द्रावितं वै मृतमथ विमलं स्वर्णराशिं करोति ।
किंवा सा पक्वबीजं ग्रसति यदि द्रुतो जायते कोटिवेधी वज्राभ्रं रत्नजातं चरति यदि रसः खेचरत्वं प्रदत्ते ॥९.१३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:50.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

विविध देवदेवतांचे आकार, रंग, रूप ही कल्पना कशी आणि कोणी निर्माण केली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site