TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.१४

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१४
सूतेन सत्त्वरचितेन च जारितेन पक्वाख्यबीजगुणसंख्यसुसारितेन ।
विज्ञाय यस्तु मतिमान्स तु वार्तिकेन्द्रश्चंद्रार्कवेधविधिना कनकं करोति ॥१४.१॥
{मेर्चुर्यः: चारण}
स्वर्णे नागं समावर्त्य माषमात्रं तु घर्षयेत् ।
तप्तखल्वे ततस्तस्मिन्पलमेकं रसं क्षिपेत् ॥१४.२॥
सिद्धमूलीद्रवं दत्त्वा मर्दयेत्कांजिकैर्दिनम् ।
घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥१४.३॥
चतुःषष्ट्यंशकं पूर्वं द्वंद्वं सत्त्वं विभावितम् ।
दत्त्वा मर्द्यं दिनैकं तु चारणायंत्रके क्षिपेत् ॥१४.४॥
सजम्बीरैर्दिनं घर्मे धारितं चरति ध्रुवम् ॥१४.५॥
{मेर्चुर्यः: जारण}
जारणं त्रिक्षारं पंचलवणं अम्लवर्गे स्नुहीपयः ।
गोमूत्रैर्लोलयेत्सर्वं तेन वस्त्रं घनं लिपेत् ॥१४.६॥
तन्मध्ये जारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् ।
सिद्धमूल्यम्लसंयुक्तं दोलायंत्रे त्र्यहं पचेत् ॥१४.७॥
उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके ।
वस्त्रपूतं ततः कृत्वा सोष्णपात्रे विमर्दयेत् ॥१४.८॥
हस्तेनैव भवेद्यावत्सुधौतं पारदं पुनः ।
चतुर्गुणेन वस्त्रेण क्षालयेन्निर्मलो भवेत् ॥१४.९॥
अजीर्णे च पुनर्मर्द्यमम्लं दत्त्वा दिनावधि ।
दोलायां स्वेदयेत्तद्वद्भवेज्जीर्णं न संशयः ॥१४.१०॥
{मेर्चुर्यः: प्रेपरतिओन्फ़ोर्ग्रासन}
इष्टिका गुडदग्धोर्णा गृहधूमं च सर्जिका ।
सैंधवेन युतं सर्वं षोडशांशं रसस्य तु ॥१४.११॥
दत्त्वा ततोऽम्लवर्गेण घर्मे मर्द्यं दिनावधि ।
इष्टिकादम्लवर्गेण दोलायंत्रे दिनं पचेत् ।
जीर्णे जीर्णे त्विदं कुर्याद्ग्रासग्राही भवेद्रसः ॥१४.१२॥
{मेर्चुर्यः: जारण ओफ़् बीजस्}
द्वात्रिंशांशं ततो ग्रासं दत्त्वा चार्यं च जारयेत् ।
पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् ॥१४.१३॥
षोडशांशं प्रदातव्यं तज्जीर्णे चाष्टमांशकम् ।
जारयेत्पूर्वयोगेन ह्येवं ग्रासचतुष्टयम् ॥१४.१४॥
ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते ।
ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् ॥१४.१५॥
चतुर्थांशं ततो ग्रासं ग्रासं देयं समं पुनः ।
जीर्णे जीर्णे समं देयमेवं जार्यं च षड्गुणम् ॥१४.१६॥
रागाणां ग्रहणार्थं च ग्रासे ग्रासे तु पूर्ववत् ।
इत्येवं द्वंद्वयोगानां सत्त्वानां च विशेषतः ॥१४.१७॥
स्वर्णादिसर्वलोहानां बीजानां जारणाहितम् ।
कर्तव्यं वक्ष्यते तत्र मात्रायुक्तिश्च पूर्ववत् ॥१४.१८॥
{मेर्चुर्यः: जारण ओफ़् द्वन्द्वस्}
अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् ।
तीक्ष्णपाषाणसत्त्वं वा द्वंद्वितं व्योमसत्त्ववत् ॥१४.१९॥
जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् ।
इत्येवं षड्गुणं द्वंद्वं यत्किंचिज्जारयेद्रसे ॥१४.२०॥
{सिद्धबीजः: प्रेपरतिओन्}
जारितं सिद्धबीजेन सारयेत्तन्निगद्यते ।
ताप्यसत्त्वं घोषताम्रं शुद्धहेम समं समम् ॥१४.२१॥
आवर्त्य द्वंद्वलिप्तायां मूषायामन्धितं पुनः ।
समुद्धृत्य पुनर्धाम्यं मूषायां प्रकटं धमेत् ॥१४.२२॥
माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।
स्वर्णशेषं भवेद्यावत्तावत्पाच्यं च तत्पुनः ॥१४.२३॥
पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् ।
ताप्यसत्त्वेन ताम्रेण द्वंद्वमेवं पुनः पुनः ॥१४.२४॥
षड्वारं धमनेनैव ग्राह्यं स्वर्णावशेषितम् ।
सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद्भवेत् ॥१४.२५॥
अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् ।
कृत्वाथ जारयेत्तद्वज्जीर्णे बद्ध्वा मुखं तथा ॥१४.२६॥
बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् ।
चंद्रार्के द्राविते योज्यं सहस्रांशेन कांचनम् ॥१४.२७॥
{मेर्चुर्यः: जारण ओफ़् सुल्फ़ुर्}
अथातः शुद्धसूतस्य जारणे पूर्वभावितम् ।
अथ शुद्धस्य सत्त्वस्य जारयेत्पूर्वभाषितम् ।
गंधकं तु तुलायन्त्रे पश्चात्सर्वं ग्रसत्यलम् ॥१४.२८॥
मुखनालान्विता ऊर्ध्ववक्त्रा स्याद्द्वादशाङ्गुला ।
दृढा लोहमयी कुर्यादनया सदृशी परा ॥१४.२९॥
एकस्यां निक्षिपेत्सूतं अन्यस्यां गंधकं समम् ।
एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् ॥१४.३०॥
लिप्त्वा मृल्लवणैः संधिं गंधकाधः पुटं लघु ।
रसस्याधो जलं स्थाप्यं गंधधूमं पिबत्यलम् ॥१४.३१॥
जीर्णे गंधे समुद्घाट्य तुल्यं गंधं च दापयेत् ।
इत्येवं षोडशगुणं गंधं जार्यं पुनः पुनः ॥१४.३२॥
जारितः सूतराजोऽयं वासनामुखितो भवेत् ॥१४.३३॥
{मेर्चुर्यः: वासनामुखितः: ?}
व्योमसत्त्वं ताप्यसत्त्वं शुल्बं शुद्धं समं समम् ।
आवर्त्य द्वंद्वलिप्तायां मूषायामथ चूर्णयेत् ॥१४.३४॥
भावयेदभिषेकेण पूर्ववत्शतवारकम् ।
पूर्ववच्चारयेदेतद्वासनामुखिते रसे ॥१४.३५॥
तद्वज्जार्यं प्रयत्नेन यावद्भवति षड्गुणम् ।
तत्सूते सारितं जार्यं सिद्धबीजं तु पूर्ववत् ॥१४.३६॥
मुखं च बंधनं कृत्वा वेधायान्तं प्रदापयेत् ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ।
सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः ॥१४.३७॥
{सिल्वेर्=> गोल्द्}
पूर्ववत्शुद्धसूतस्य पूर्वसंस्कृतगंधकम् ।
जारयेत्षड्गुणं सम्यक्तुलायंत्रेण पूर्ववत् ॥१४.३८॥
तिक्तकोशातकीद्रावं लांगलीद्रावसंयुतम् ।
दापयेत्पूर्वसूतस्य खल्वे मर्द्यं दिनावधि ॥१४.३९॥
पादांशं पक्वबीजं च चारयित्वाथ जारयेत् ।
पूर्ववद्बिडयोगेन एवं जार्यं समक्रमात् ॥१४.४०॥
त्रिधाथ पक्वबीजं तु सारयित्वाथ जारयेत् ।
तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् ॥१४.४१॥
{शतांशविधि; प्रोदुच्तिओनोफ़् गोल्द्}
तारं स्यादष्टानवतिभागाः स्वर्णस्य भागकम् ।
भागैकं वेधकं सूतं संख्येयं शतवेधके ॥१४.४२॥
{गोल्दः: प्रोदुच्तिओन्}
रसकस्य तु यत्सत्त्वं चूर्णितं वाभिषेकितम् ।
पूर्ववत्क्रमयोगेन रसे चार्यं च जारयेत् ॥१४.४३॥
यावदष्टगुणं पश्चात्समं कृष्णाभ्रसत्त्वकम् ।
चार्यं जार्यं क्रमेणैव पक्वबीजं चतुर्गुणम् ॥१४.४४॥
जारयेच्च पुनः सूते कच्छपाख्ये विडान्विते ।
रागग्रहणपर्यन्तं कृत्वा प्रक्षाल्य तं रसम् ॥१४.४५॥
उन्मत्तमुनिपत्राणि रजनी काकमाचिका ।
धान्याम्लैः पेषयेत्तुल्यं तद्द्रवैर्मर्दयेद्रसम् ॥१४.४६॥
सप्ताहं तप्तखल्वे तु कच्छपे तु दिनं पचेत् ।
ततो दिव्यौषधैरेव मर्दयेद्दिवसत्रयम् ॥१४.४७॥
तं रुद्ध्वा वज्रमूषायां त्रिदिनं तुषवह्निना ।
स्वेदितं च पुनर्मर्द्यं तद्वद्रुद्ध्वा धमेद्दृढम् ॥१४.४८॥
कुक्कुटाण्डनिभं बद्धं जायते चूर्णयेत्पुनः ।
ब्रह्मपुष्पद्रवमर्द्यं दिनैकं चान्धयेत्पुनः ॥१४.४९॥
पचेद्गजपुटेऽप्येवं देयं पुटचतुष्टयम् ।
वृश्चिकाल्या द्रवैरेवं तद्वत्पुटचतुष्टयम् ॥१४.५०॥
कुंकुमसुरसेनैव तद्वत्पुटचतुष्टयम् ।
मातुलुङ्गरसेनैकं पुटं दत्त्वा समाहरेत् ॥१४.५१॥
सहस्रांशेन तेनैव तं शुल्बं तु वेधयेत् ।
शुद्धं वा द्रावितं नागं वेधं स्यात्क्रामणेन वै ।
तत्सर्वं जायते स्वर्णं देवाभरणमुत्तमम् ॥१४.५२॥
{बीजः: ओफ़् गोल्द्}
स्वर्णार्कं तीक्ष्णनागं च सम्यक्सस्याभ्रकस्य च ।
वैक्रांतस्य च सत्त्वं च चूर्णं कुर्यात्समं समम् ॥१४.५३॥
द्वन्द्वमेलापलिप्तायां मूषायामन्धितं धमेत् ।
समुद्धृत्य तु तत्खोटं मूषायां प्रकटं धमेत् ॥१४.५४॥
वापो माक्षिकचूर्णेन दत्ते देयः शनैः शनैः ।
यावत्स्वर्णावशेषं स्यादर्कायां दापयेत्पुनः ॥१४.५५॥
पूर्ववत्क्रमयोगेन धमेत्स्वर्णावशेषितम् ।
इत्येवं च पुनः कुर्याज्जायते स्वर्णबीजकम् ॥१४.५६॥
{बीजः: फ़्रों गोल्द्}
अभ्रसत्त्वायसं ताम्रं चूर्णं कृत्वा समं समम् ।
शुद्धताप्यस्य चूर्णं च ताम्रस्य द्विगुणं भवेत् ॥१४.५७॥
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ।
तत्खोटं सूक्ष्मचूर्णं च रुद्ध्वा गजपुटे पचेत् ॥१४.५८॥
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे च वाहयेत् ।
धमेत्प्रकटमूषायां यावद्दशगुणं शनैः ॥१४.५९॥
ताप्यचूर्णं प्रदातव्यं किंचित्किंचित्तु वापयेत् ।
स्वर्णशेषं समुद्धृत्य स्यादिदं स्वर्णबीजकम् ॥१४.६०॥
{चन्द्रार्क => गोल्द्}
स्वर्णबीजं समं सूते जारयेदभ्रसत्त्ववत् ।
ततस्तेन शतांशेन मधुनाक्तेन लेपयेत् ॥१४.६१॥
समं चंद्रार्कपत्राणि वेष्टयेच्चार्कपत्रकैः ।
दोलायंत्रे सारनाले दशाहं पाचयेच्छनैः ॥१४.६२॥
उद्धृत्यावर्तयेत्तानि दिव्यं भवति कांचनम् ॥१४.६३॥
{बीजः: फ़्रों गोल्द्}
मृततीक्ष्णार्कभागं च ताप्यचूर्णं समम् ।
एतद्वाह्यं द्रुते स्वर्णे यावद्दशगुणं शनैः ।
स्वर्णशेषं समादाय स्यादिदं स्वर्णबीजकम् ॥१४.६४॥
{बीजः: फ़्रों गोल्द्}
तीक्ष्णं कांतं मृतं चैव शुल्वं तारं समं समम् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥१४.६५॥
तत्खोटं द्राविते स्वर्णे वाह्यं दशगुणैः शनैः ।
पूर्ववत्ताप्यचूर्णेन स्वर्णबीजमिदं परम् ॥१४.६६॥
{सिल्वेर्=> गोल्द्}
यथेष्टं स्वर्णबीजैकं पादांशं जारयेद्रसे ।
पूर्ववत्क्रमयोगेन सत्त्वबीजेन सारयेत् ॥१४.६७॥
सारिते जारयेत्तद्वदनुसार्येण जारयेत् ।
प्रतिसार्य ततो जार्यं मुखं बद्ध्वा च बन्धयेत् ॥१४.६८॥
पञ्चांशं दशयोगेन तारे वेधं प्रदापयेत् ।
क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥१४.६९॥
{सिल्वेर्=> गोल्द्}
नागं रसकसत्त्वं च ताम्रं भागं क्रमोत्तरम् ।
ध्मापितं वाहयेत्स्वर्णे षड्गुणं वापयेच्छनैः ॥१४.७०॥
स्वर्णशेषं तु तज्जार्यं समांशं पारदे क्रमात् ।
यथापूर्वं मारणादिबंधनान्तं च कारयेत् ॥१४.७१॥
अनेन षष्टिभागेन पूर्ववत्कांचनं भवेत् ॥१४.७२॥
{चन्द्रार्क => स्वर्ण}
ताप्येन मारयेच्छुल्बं यथागंधेन मारितम् ।
तत्ताम्रं वाहयेन्नागे मूषामध्ये धमन्धमन् ॥१४.७३॥
शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन्क्षिपन् ।
तत्ताम्रं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥१४.७४॥
स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे ।
अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥१४.७५॥
पूर्ववत्क्रमयोगेन बंधनान्तं च कारयेत् ।
क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् ।
चंद्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् ॥१४.७६॥
{सिल्वेर्=> गोल्द्}
रसकाभ्रकयोः सत्त्वं ताम्रचूर्णं क्रमोत्तरम् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा ध्माते समुद्धरन् ॥१४.७७॥
तत्खोटांशं ताप्यचूर्णं दत्त्वा चाम्लेन मर्दयेत् ।
रुद्ध्वा लघुपुटे पच्यादेवं पञ्चपुटैः पचेत् ॥१४.७८॥
तच्चूर्णं वाहयेत्स्वर्णे धाम्यमाने शनैः शनैः ।
सहस्रगुणितं यावत्तद्बीजं जारयेद्रसे ॥१४.७९॥
यावच्छतगुणं यत्नादनेनैव तु सारयेत् ।
जारणं सारणं चैव बंधनान्तं च पूर्ववत् ॥१४.८०॥
कृत्वाथ लक्षभागेन तारं भवति कांचनम् ॥१४.८१॥
{सिल्वेर्=> गोल्द्}
अभ्रसत्त्वं रविं नागं क्रमवृद्ध्या विचूर्णयेत् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥१४.८२॥
तत्समं ताप्यचूर्णं तु सर्वमम्लेन मर्दयेत् ।
रुद्ध्वा पञ्चपुटैः पच्यात्तच्चूर्णं वाहयेद्द्रुतम् ॥१४.८३॥
स्वर्णे शतं यावत्तावत्स्वर्णं च जारयेत् ।
युक्त्या शतगुणं यावत्त्रिधानेनैव सारयेत् ॥१४.८४॥
सारिते जारणं कुर्याद्बंधनान्तं च पूर्ववत् ।
अयुतांशेन तेनैव तारं भवति कांचनम् ॥१४.८५॥
{चन्द्रार्क => गोल्द्}
अथवा पूर्वचूर्णं तु सहस्रगुणितं द्रुते ।
स्वर्णे वाह्यं क्रमेणैव तद्बीजं जारयेद्रसे ॥१४.८६॥
सहस्रगुणितं यावत्त्रिधा तेनैव सारयेत् ।
सारितं जारयेत्पश्चात्पुनः सार्यं च जारयेत् ॥१४.८७॥
सप्तशृङ्खलिकायोगात्सारितं जारयेद्बुधः ।
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥१४.८८॥
{चोप्पेर्=> सिल्वेर्}
विमला तालकं तीक्ष्णं भागवृद्ध्या विचूर्णयेत् ।
मूषायां द्वंद्वलिप्तायां तत्खोटं सुविचूर्णयेत् ॥१४.८९॥
अम्लैर्मर्द्यं पुटे पच्यादित्येवं पंचधा पुटेत् ।
तारे दशगुणं वाह्यं तालचूर्णं क्षिपन्क्षिपन् ॥१४.९०॥
एतद्बीजं समं सूते जारयेत्पूर्ववत्क्रमात् ।
ततस्तु तारबीजेन सारयेत्सारणात्रयम् ॥१४.९१॥
तेनैव तु शतांशेन द्रुतं ताम्रं तु वेधयेत् ।
शंखकुंदेन्दुसंकाशं तारं भवति शोभनम् ॥१४.९२॥
{चोप्पेर्=> सिल्वेर्}
मृतबंगं तालसत्त्वं समं चूर्णं प्रकल्पयेत् ।
द्विरष्टगुणितं तारे वाहयेत्तं धमन्धमन् ॥१४.९३॥
तद्बीजं जारयेत्सूते यावद्दशगुणं क्रमात् ।
ततस्तं तारबीजेन सारयेत्सारणात्रयम् ॥१४.९४॥
सहस्रांशेन चानेन ताम्रवेधं प्रदापयेत् ।
तत्ताम्रं जायते तारं शंखकुंदेन्दुसन्निभम् ॥१४.९५॥
{मेर्चुर्यः: शतवेधिन्}
श्वेताभ्रतालयोः सत्त्वं रसकस्य च सत्त्वकम् ।
चतुर्थं तारमाक्षीकं समं चूर्णं प्रकल्पयेत् ॥१४.९६॥
चूर्णतुल्यं बंगचूर्णं सर्वमेकत्र तं धमेत् ।
द्वंद्वमेलापलिप्तायां जातं खोटं विचूर्णयेत् ॥१४.९७॥
अम्लपिष्टं पुटे पच्यादित्येवं पंचधा पुटेत् ।
तच्चूर्णं वाहयेत्तारे यावद्दशगुणं धमेत् ॥१४.९८॥
तत्तारं रसराजस्य समं जार्यं क्रमेण वै ।
पूर्ववच्च त्रिधा सार्यं शतवेधी भवेद्रसः ॥१४.९९॥
{चोप्पेर्=> सिल्वेर्}
एवं सत्त्वाभ्रसत्त्वं च चूर्णं द्वंद्वं च पूर्ववत् ।
पादांशं तालकं दत्त्वा अम्लैः पिष्ट्वा निरुध्य च ॥१४.१००॥
पचेत्पञ्चपुटैरेवं तारे वाह्यं द्विषड्गुणम् ।
एतद्बीजं समं जार्यं प्रत्येकं दशभागकम् ॥१४.१०१॥
बंगं श्वेताभ्रसत्त्वं च प्रत्येकं दशभागकम् ।
ताराख्या विमला तीक्ष्णं प्रत्येकं पञ्चभागिकम् ॥१४.१०२॥
द्वंद्वमेलापलिप्तायां मूषायां तं धमेद्दृढम् ।
अम्लपिष्टं पुटे पाच्यं पञ्चवारं पुनः पुनः ॥१४.१०३॥
तद्वाह्यं तारभागस्य तारचूर्णं क्षिपन्क्षिपन् ।
तद्बीजं रसराजस्य जार्यं शतगुणं क्रमात् ॥१४.१०४॥
सारयेत्तारबीजेन विधिना सारणात्रयम् ।
अनेनैवायुतांशेन द्रुतं ताम्रं तु वेधयेत् ।
जायते रजतं दिव्यं शंखकुन्देन्दुसन्निभम् ॥१४.१०५॥
इत्थं रसे कनकबीजमनन्तयोगैः कृत्वा भिषक्तमखिलं विधिवच्च जार्यम् ।
तेनैव हेमनिचयं रजतं च कृत्वा दारिद्र्यदाहमखिलेषु जनेषु कुर्यात् ॥१४.१०६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:52.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pierin

  • पायपरिन 
  • काळ्या व पांढऱ्या मिरीत आढळणारे तिखट द्रव्य, त्यावरून piperatus (piperitus) तिक्त (तिखट) ही संज्ञा. 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site