TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.१९

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१९
संसारे सारभूतं सकलसुखकरं सुप्रभूतं धनं वै तत्साध्यं साधकेन्द्रैर्गुरुमुखविधिना वक्ष्यते तस्य सिद्ध्यै ।
रत्नादीनां विशेषात्करणमिह शुभं गंधवादं समग्रं ज्ञात्वा तत्तत्सुसिद्धं ह्यनुभवपथगं पावनं पण्डितानाम् ॥१९.१॥
{पद्मरागकरणम्}
चतुर्गुणेन तोयेन लाक्षां पिष्ट्वा तु तद्द्रवैः ।
वस्त्रपूतं शतपलं गृह्य मृद्भाण्डगं पचेत् ॥१९.२॥
मृद्वग्निना पादशेषं जातं यावच्च तस्य वै ।
क्षिपेत्पलं पलं चूर्णं सर्जिटंकणलोध्रकम् ॥१९.३॥
किंचित्पच्यात्ततः शीतं काचकूप्यां सुरक्षयेत् ।
स्थूलमत्स्यत्वचं पच्याद्दिवारात्रं जलेन तत् ॥१९.४॥
घनीभूतं समुत्तार्य ख्यातोऽयं मत्स्यकज्जलम् ।
एतत्कर्षद्वयं तस्याः काचकूप्यां विनिक्षिपेत् ॥१९.५॥
वर्षोपलास्तु तेनैव लालयित्वा सुपाचिते ।
मधूकतैलमध्ये तु क्षणं पक्त्वा समुद्धरेत् ।
जायन्ते पद्मरागाणि दिव्यतेजोमयानि च ॥१९.६॥
{इन्द्रनीलकरणम्}
नीलीचूर्णं पलैकं तु पूर्वकूप्यां तु तद्द्रवम् ।
तद्द्रवं द्विपलं चूर्णे क्षिप्त्वा सर्वं विलोलयेत् ॥१९.७॥
क्षिप्त्वा वर्षोत्पलांस्तेन पूर्वतैलगतान्पचेत् ।
इन्द्रनीलानि तान्येव जायन्ते नात्र संशयः ॥१९.८॥
{मरकतमणिकरणम्}
मञ्जिष्ठां तालकं नीली समचूर्णं प्रकल्पयेत् ।
काचकूप्यां स्थितैर्द्रावैः सर्वमेतत्सुलोलयेत् ॥१९.९॥
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ।
सर्वे मरकतास्तेन समीचीना भवन्ति वै ॥१९.१०॥
{गोमेदमणिकरणम्}
मञ्जिष्ठायाः कषायेण पेषयेन्मत्स्यकज्जलम् ।
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ॥१९.११॥
गोमेदानि तु तान्येव प्रवर्तन्ते न संशयः ॥१९.१२॥
{पुष्परागकरणम्}
पिष्ट्वा तालकतुल्यं तु जलैके रसकुङ्कुमम् ।
तन्मध्ये चाष्टमांशं तु क्षिपेन्मत्स्योत्थकज्जलम् ॥१९.१३॥
तत्सर्वं पाचयेद्यामं अवतार्य सुरक्षयेत् ।
वर्षोपलांस्तु तेनैव सिक्तान्पच्याच्च पूर्ववत् ।
भवन्ति पुष्परागास्ते यथा खन्युत्थितानि च ॥१९.१४॥
{नीलमाणिक्यकरणम्}
नीलीचूर्णस्य तुल्यांशं क्षिपेन्मत्स्योत्थकज्जलम् ।
बीजकाष्ठं च तुल्यांशं जले स्थाप्यं दिनावधि ॥१९.१५॥
तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् ।
वर्षोपलांस्तु तेनैव सिक्ताः पच्याच्च पूर्ववत् ।
नीलमाणिक्यसदृशास्ते भवन्ति न संशयः ॥१९.१६॥
{मुक्ताकरणं (१)}
प्रोक्तानि रङ्गद्रव्याणि काचकूप्यां पृथक्पृथक् ।
रक्षयित्वा प्रयत्नेन प्राप्ते कार्ये नियोजयेत् ॥१९.१७॥
सूर्यकांतस्य मध्ये तु बिलं कुर्यात्सुवर्तुलम् ।
तथान्यं सूर्यकान्तं च कुर्यादाच्छादने हितम् ॥१९.१८॥
सूक्ष्ममुक्ताफलान्यादौ द्रावयेत्पूर्वयोगतः ।
तद्द्रुतं सूर्यकांतस्य बिले पूर्यं प्रयत्नतः ॥१९.१९॥
सूर्यकान्तेनापरेण छादितं घर्मधारितम् ।
याममात्राद्भवेद्बद्धं मौक्तिकं चातिशोभनम् ॥१९.२०॥
छिद्रं कृत्वा निबध्याथ सुशुभ्रे वस्त्रखण्डके ।
सुशुभ्रैस्तण्डुलैः सार्धं कण्डयेत्तदुलूखले ॥१९.२१॥
लघुहस्तेन यामैकं तत उद्धृत्य क्षालयेत् ।
त्वचारिष्टफलानां तु जलेन सह पेषयेत् ।
तेनैव क्षालिते मुक्ताफलं भवति शोभनम् ॥१९.२२॥
{मुक्ताकरणं (२)}
मौक्तिकानि सुसूक्ष्माणि चूर्णितानि विनिक्षिपेत् ।
प्रसूताया इडायास्तु सद्यः क्षीरैः क्षणावधि ॥१९.२३॥
तेनैव वर्तुलाकारा गुटिकाः कारयेत्ततः ।
काचपात्रे स्थिताः शोष्याः छायायां दिनमात्रकम् ॥१९.२४॥
प्रोतयेदश्ववालेन मालां कृत्वाथ शोषयेत् ।
छायायां कठिना यावत्तावत्स्थाप्या विलम्बिताः ॥१९.२५॥
स्थूलस्य कृष्णमत्स्यस्य एककण्टस्य चोदरात् ।
निवार्यान्त्राणि तत्रैव पूर्वमालां निवेशयेत् ॥१९.२६॥
उदरं सीवयेत्सूत्रेणैव भाण्डे निरुध्य तत् ।
मासमात्रात्समुद्धृत्य छायायां शोषयेत्पुनः ॥१९.२७॥
कण्डनं क्षालनं चैव पूर्ववत्कारयेच्छनैः ।
भवन्ति तानि शुभ्राणि सम्यङ्मुक्ताफलानि वै ॥१९.२८॥
{मुक्ताकरणं (३)}
मुक्ताशुक्तिं समादाय जलशुक्तिमथापि वा ।
घर्षयेत्पृष्ठभागं तु तस्य कार्ष्ण्यापनुत्तये ॥१९.२९॥
ताः शुभ्राश्चूर्णयेच्छ्लक्ष्णं ईडाक्षीरादिपूर्ववत् ।
कारयेत्क्षालनान्तं च मौक्तिकानि भवन्ति वै ॥१९.३०॥
{मुक्ताकरणं (४)}
सद्य उद्धृत्य मत्स्यस्य स्थूलस्य चक्षुषी हरेत् ।
एकैकं बन्धयेद्वस्त्रे ईडाक्षीरैर्दिनं पचेत् ॥१९.३१॥
छायायां शोषयेत्पश्चात्कण्डनं क्षालनं ततः ।
कारयेत्पूर्ववत्तानि मौक्तिकानि भवन्ति वै ॥१९.३२॥
{प्रवालकरणं (१)}
दग्धशंखं च दरदं समं चूर्णं प्रकल्पयेत् ।
प्रसूताया महिष्यास्तु पञ्चमे दिवसे हरेत् ॥१९.३३॥
क्षीरं तेनैव तन्मर्द्यं यामैकं पूर्वचूर्णकम् ।
वर्तुलां गुटिकां कृत्वा प्रोतयेत्ताम्रसूत्रके ॥१९.३४॥
रम्भागर्भदलेनैव मध्यमांगुष्ठतर्जनी ।
वेष्टयित्वा तु तैर्ग्राह्या गुलिकास्ताः पृथक्पृथक् ॥१९.३५॥
आवर्त्यावर्त्य संस्थाप्या रंभापत्रैः प्रयत्नतः ।
छायाशुष्काः शुभाः प्रोत्यास्ताम्रसूत्रेण वै पुनः ॥१९.३६॥
मधुकं तप्ततैलाक्तं धूमेन स्वेदयेच्छनैः ।
जायते पद्मरागाभं प्रवालं नात्र संशयः ॥१९.३७॥
{प्रवालकरणं (२)}
दग्धः शंखः ससिन्दूरं समांशं चूर्णयेत्ततः ।
क्षीरैः सद्यःप्रसूताया एडाया मर्दयेद्दृढम् ॥१९.३८॥
पूरयेच्च तृणोत्थे वा नाले वंशादिसंभवे ।
सुपक्वे चान्नभाण्डे तु यवागूवर्जिते क्षिपेत् ॥१९.३९॥
आच्छाद्य पच्यान्मन्दाग्नौ घटिकान्ते समुद्धरेत् ।
प्रवाला नलिकागर्भे जायन्ते पद्मरागवत् ॥१९.४०॥
{हिङ्गुलकरणम्}
अशुद्धं पारदं भागं चतुर्भागं च टंकणम् ।
उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥१९.४१॥
तस्मिन्मनःशिलाचूर्णं पारदाद्दशमांशतः ।
क्षिप्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥१९.४२॥
कृत्वाथ खण्डशः क्षिप्त्वा काचकूप्यां निरुध्य च ।
वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥१९.४३॥
सर्वतोऽङ्गुलमानेन छायाशुष्कं तु कारयेत् ।
वालुकायंत्रगर्भे तु द्विदिनं मृदुनाग्निना ॥१९.४४॥
क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् ।
सप्ताहात्तत्समुद्धृत्य हिंगुलं स्यान्मनोहरम् ॥१९.४५॥
{सिन्दूरकरणं (१)}
चिंचात्वग्भस्मपादांशं द्रुते नागे विनिक्षिपेत् ।
पाचयेल्लोहजे पात्रे लोहदर्व्या निघर्षयेत् ।
चण्डाग्निना दिनैकं तु सिन्दूरं जायते शुभम् ॥१९.४६॥
{सिन्दूरकरणं (२)}
रक्तशाखिन्यपामार्गकुटजस्य तु भस्मकम् ।
चतुर्थांशं द्रुते नागे दत्त्वा मर्द्यं दिनद्वयम् ॥१९.४७॥
पूर्ववल्लोहपात्रे तु सिन्दूरं जायते शुभम् ॥१९.४८॥
{सिन्दूरकरणं (३)}
भस्मना पूर्ववन्नागं शाकस्य वारिजस्य वा ।
सिन्दूरं जायते दिव्यं यथेष्टं नात्र संशयः ॥१९.४९॥
{सिन्दूरकरणं (४)}
पलानां द्विशतं नागं द्रावयेल्लोहभाजने ।
समूलवासकाभस्म पादांशं तत्र निक्षिपेत् ॥१९.५०॥
पीतवर्णं भवेद्यावत्तावत्पच्यात्प्रचालयेत् ।
ततः सुशीतलं कृत्वा जलेन चालयेत्पुनः ॥१९.५१॥
पलमात्रा वटी कृत्वा वासाभस्मोपरि क्षिपेत् ।
छायाशुष्का समाहृत्य मृद्भाण्डे नूतने क्षिपेत् ॥१९.५२॥
क्षिप्त्वा रुद्ध्वा पचेच्चुल्ल्यां निर्वाते तीव्रवह्निना ।
छिद्रं कुर्याद्भाण्डवक्त्रे शलाकां लोहजां क्षिपेत् ॥१९.५३॥
रक्तवर्णा यदा स्यात्सा तावत्पच्यात्परीक्षयेत् ।
सिन्दूरं जायते दिव्यं सिद्धयोग उदाहृतः ॥१९.५४॥
{सैन्धवकरणम्}
नवभाण्डे पलशतं सामुद्रलवणं क्षिपेत् ।
निष्कं निष्कं सूतगंधौ क्षिप्त्वा चण्डाग्निना पचेत् ॥१९.५५॥
द्वियामान्ते क्षिपेत्तस्मिंल्लोहनाराचकं यदि ।
रक्तवर्णं भवेत्तद्वै तदा वह्निं निवारयेत् ॥१९.५६॥
स्वभावशीतलं ग्राह्यं सिन्धूत्थं लवणं भवेत् ॥१९.५७॥
{सुवर्चलकरणम्}
आरनालं पलैकं तु द्विनिष्कं च सुवर्चलम् ।
माषैकं गंधकं पिष्ट्वा सर्वं पात्रे तु धारयेत् ॥१९.५८॥
पलैकं सैंधवं तप्तं कृत्वा तत्र निषेचयेत् ।
पुनस्ताप्यं पुनः सेच्यं द्रवो यावद्विशुष्यति ।
सुवर्चलं भवेत्तावन्नात्र कार्या विचारणा ॥१९.५९॥
{हिङ्गुकरणं (१)}
हिङ्गुनागरमेकैकं लशुनस्य पलद्वयम् ।
चतुष्पलं निम्बबीजं माषचूर्णं पलाष्टकम् ॥१९.६०॥
सर्वतुल्यां बिल्वमज्जां अजाक्षीरेण पेषयेत् ।
तत्सर्वं बन्धयेद्गाढं सार्द्रगोचर्मगर्भतः ।
पक्षत्रयं धान्यराशौ क्षिपेद्धिंगु भवेत्ततः ॥१९.६१॥
{हिङ्गुकरणं (२)}
बब्बूलवृक्षनिर्यासं सामुद्रलवणं तथा ।
त्वग्वर्ज्यं च कणा तुल्यं मेषीक्षीरेण पेषयेत् ॥१९.६२॥
अस्य पिण्डस्य पादांशं शुद्धहिंगु नियोजयेत् ।
तत्सर्वं पूर्ववद्बद्धं चर्मणा दिवसत्रयम् ॥१९.६३॥
निर्वाते लम्बितं रक्षेत्हिंगु स्याच्छुद्धहिंगुवत् ॥१९.६४॥
{हिङ्गुकरणं (३)}
पलैकैकं गुडं शुण्ठी द्विकं टंकणगुग्गुलुम् ।
एरण्डबीजमज्जा च तुषवर्ज्यं पलद्वयम् ॥१९.६५॥
निस्त्वङ्माषा पलद्वंद्वं एकीकृत्य प्रपेषयेत् ।
त्रिकर्षं हिङ्गु तन्मध्ये क्षिप्त्वा तोयेन लोलयेत् ॥१९.६६॥
तत्सर्वं पूर्ववद्बद्ध्वा सप्ताहाद्धिङ्गुतां व्रजेत् ॥१९.६७॥
{हिङ्गुकरणं (४)}
द्विपले शुद्धहिंगु स्यादेडाक्षीरं च विंशतिः ।
गोधूममाषयोश्चूर्णं प्रत्येकं तु चतुष्पलम् ॥१९.६८॥
अलाबुपात्रमध्यस्थं तत्सर्वं लोलितं क्षिपेत् ।
छायाशुष्कं भवेत्तावद्यावद्धिंगु शुभं भवेत् ॥१९.६९॥
{वङ्गकरणं (१)}
धत्तूरबीजचूर्णं तु वज्रीक्षीरेण भावयेत् ।
शोष्यं पेष्यं पुनर्भाव्यं एवं घर्मे त्रिसप्तधा ॥१९.७०॥
तद्वाप्यं द्रुतनागस्य दशमांशेन दापयेत् ।
ढालयेत्स्नुक्पयोमध्ये तद्वङ्गं जायते शुभम् ।
भावयेद्रजनीमध्ये तद्बंगं जायते शुभम् ॥१९.७१॥
{वङ्गकरणं (२)}
भावयेद्रजनीचूर्णं वज्रीदुग्धेन सप्तधा ।
तद्वापं दशमांशेन द्रुते नागे प्रदापयेत् ॥१९.७२॥
तद्वापं द्रुतनागस्य दशमांशेन दापयेत् ।
तत्ढाल्यं त्रिफलाक्वाथे पुनस्तद्वच्च वापयेत् ॥१९.७३॥
टंकणं नवसारं च दत्त्वा सेच्यं नृमूत्रके ।
द्रावितं च पुनर्ढाल्यं नृमूत्रे वङ्गतां व्रजेत् ॥१९.७४॥
{अम्लवेतसकरणम्}
त्वग्बीजरहितं चिंचाफलं कांजिकसंयुतम् ।
पक्त्वा कुर्याद्वस्त्रपूतं जम्बीराम्लं तु तत्समम् ॥१९.७५॥
चाङ्गेरीमातुलिंगाम्लैर्यथाप्राप्तं समाहरेत् ।
वस्त्रपूतं तु तत्सर्वं पचेत्पादावशेषितम् ॥१९.७६॥
सौराष्ट्री तुत्थकासीसं त्रिक्षारं पटुपञ्चकम् ।
मूलसारं च तुल्यांशं सर्वं चूर्णं विनिक्षिपेत् ॥१९.७७॥
पूर्वपक्वे तु पादांशं पुनर्मृद्वग्निना पचेत् ।
घनीभूतं भवेद्यावच्चट्टकेनैव चालयेत् ।
अम्लवेतसमित्येतज्जायते शोभनं परम् ॥१९.७८॥
{साहीकरणम्}
त्रिफला भृङ्गकोरण्टभल्लातकरवीरकम् ।
बीजाम्रसममेतेषां समांशं बोलकज्जले ॥१९.७९॥
क्षिप्त्वा मर्द्यं ताम्रपात्रे पञ्चाहाज्जायते मषी ।
तालपत्त्रेषु भूर्जेषु लिख्यते परमं दृढम् ॥१९.८०॥
{घृतकरणम्}
नारिकेलात्फलरसं ग्राह्यं भागचतुष्टयम् ।
तन्मध्ये घृतमेकं तु क्षिप्त्वा भाण्डे विलोलयेत् ॥१९.८१॥
शतांशेन क्षिपेत्तस्मिन्रक्तशाकिनिमूलकम् ।
मृद्वग्निना पचेत्किंचित्तत्सर्वं जायते घृतम् ॥१९.८२॥
{घृतकरणं (२)}
घृतं तोयं समं कृत्वा विंशत्यंशेन चुन्नकम् ।
क्षिप्त्वा सर्वं तु मृद्भांडे क्षणं हस्तेन मर्दयेत् ।
घृतं तज्जायते सर्वं न चाग्निं सहते क्वचित् ॥१९.८३॥
{घृतकरणं (३)}
मेषीमेदः पञ्चपलं तिलतैलं च तत्समम् ।
पचेन्मृद्वग्निना तावद्यावत्फेनं निवर्तते ॥१९.८४॥
द्विनिष्कं कांजिकं तस्मिन्क्षिप्त्वा वस्त्रेण चालयेत् ।
पादांशं च घृतं तस्मिन्दद्यात्सर्वं घृतं भवेत् ॥१९.८५॥
{घृतकरणं (४)}
तिलतैलं विपच्यादौ यावत्फेनं निवर्तते ।
गुग्गुलुं निक्षिपेत्तस्मिन्किंचिद्गंधनिवृत्तये ॥१९.८६॥
विंशत्यंशेन तोयस्य क्षिप्त्वा चुन्नं विलोलयेत् ।
जलतुल्यं पूर्वतैलं मिश्रयेत्तत्सुशीतलम् ॥१९.८७॥
मर्दयेन्मृण्मये पात्रे हस्तेन क्षणमात्रकम् ।
घनीभूते घृतं चार्धं क्षिप्त्वा सर्वं घृतं भवेत् ॥१९.८८॥
{चन्दनकरणम्}
संछेद्य निम्बवृक्षं तु हस्तैकं रक्षयेदधः ।
तस्य मूर्ध्नि बिलं कुर्यात्तत्रैव नवगुग्गुलुम् ॥१९.८९॥
पूरयेत्तेन काष्ठेन बिलं रुद्ध्वाथ लेपयेत् ।
संधिं मृल्लवणेनैव शुष्कं गजपुटे पचेत् ॥१९.९०॥
स्वभावशीतलं ग्राह्यं तन्मूलं चन्दनं भवेत् ॥१९.९१॥
{कर्पूरकरणम्}
पलत्रयं पचेद्भक्तं सम्यग्राजान्नतण्डुलम् ।
तद्भक्तं शीतलं कृत्वा गवां क्षीरैः प्रयत्नतः ॥१९.९२॥
निष्कमात्रं च कर्पूरं क्षिप्त्वा तस्मिंश्च पेषयेत् ।
शुष्कस्य वंशनालस्य स्थूलस्य तेन चोदरम् ॥१९.९३॥
लेप्यमङ्गुलमानेन छायाशुष्कं च कारयेत् ।
छित्त्वाथ कदलीपुष्पं तन्निर्यासेन पूरयेत् ॥१९.९४॥
वंशनालं पुनर्वस्त्रखण्डे रुद्ध्वा च तन्मुखम् ।
आतपे त्रिदिनं शोष्यं भूगर्ते निखनेत्ततः ॥१९.९५॥
त्रिसप्ताहात्समुद्धृत्य शोषयित्वा समाहरेत् ।
कर्पूरं तस्य गर्भस्थं रक्षेत्कर्पूरभाजने ।
कर्पूरं जायते दिव्यं यथा बीजं न संशयः ॥१९.९६॥
{जवादीयाङ्कस्तूरीकरणम्}
पनसस्यार्धं पक्वस्य बीजान्येकस्य खण्डयेत् ।
नवभाण्डे विनिक्षिप्य निष्कं शुण्ठी पलं तथा ॥१९.९७॥
चूर्णयित्वा क्षिपेत्तस्मिन्तत्सर्वं द्रवतां व्रजेत् ।
तेन घृष्ट्वा क्षिपेत्तस्मिन्चतुर्निष्कं च चन्दनम् ॥१९.९८॥
मृद्वग्नौ पाचयेत्तावद्यावदारक्ततां गतम् ।
तच्छीतलं काचपात्रे क्षिप्त्वा तस्योपरि क्षिपेत् ॥१९.९९॥
चम्पकं केतकीमल्लीजातीपुष्पाणि तत्पुनः ।
दिनं शुभ्रपटे बद्ध्वा मुखं तस्यैव रक्षयेत् ॥१९.१००॥
ततः पुष्पाणि संत्यक्त्वा कस्तूरीं माषमात्रकाम् ।
माषैकं शुद्धकर्पूरे तस्मिन्नेव विनिक्षिपेत् ॥१९.१०१॥
निक्षिपेद्विंशदंशेन सम्यग्जावादिकामपि ।
तत्सर्वं मथितं पूर्वं सम्यग्जावादिभाजने ॥१९.१०२॥
वेष्टयेन्मल्लिकापुष्पैस्तद्भांडं दिवसत्रयम् ।
सम्यग्भवति जावादि वर्णैः परिमलैरपि ॥१९.१०३॥
{कस्तूरीकरणम्}
मधूकतैलं तैलं वा तिलोत्थं पलपञ्चकम् ।
मुण्डीद्रावं दशपलं सर्वमेकत्र योजयेत् ॥१९.१०४॥
मल्लिका मालती जाती केतकी शतपत्त्रिका ।
अन्यानि च सुगन्धीनि पुष्पाणि तत्र निक्षिपेत् ॥१९.१०५॥
दिनैकं मुद्रितं रक्षेत्पुष्पं निष्पीड्य संत्यजेत् ।
सिक्थकं विंशतिर्निष्कान्क्षिप्त्वा तस्मिन्पचेच्छनैः ॥१९.१०६॥
यावत्तैलावशेषं स्यात्कर्पूरं चार्धनिष्ककम् ।
निष्कं मार्जारजावादिं क्षिप्त्वा तदवतारयेत् ॥१९.१०७॥
अन्यपात्रे विनिक्षिप्य शीतलं तत्पुनः पचेत् ।
क्षणमात्रात्तदुत्तार्य क्षिपेज्जावादि भाजने ॥१९.१०८॥
सान्द्रं भवति तत्सर्वं यथा बीजं न संशयः ।
पुष्पाणि बकुलस्यैव रत्नमालां समं समम् ॥१९.१०९॥
तच्चूर्णमिक्षुदण्डस्य कृतनालस्य चोदरे ।
क्षिप्त्वा तस्य मुखं रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ॥१९.११०॥
पुटेत्तृणाग्निना तावद्यावद्गंधो न दह्यते ।
द्रवन्ति तानि पुष्पाणि मुखं भित्त्वा द्रवं हरेत् ॥१९.१११॥
कस्तूरीचर्म निर्लोमं मुस्तातुल्यं विचूर्णयेत् ।
चूर्णस्य दशमांशेन सम्यक्कस्तूरिकां क्षिपेत् ॥१९.११२॥
पूर्वद्रावेण तत्सर्वं पेषितं गोलकीकृतम् ।
कस्तूरीमदनाकारा किंचित्कार्या प्रयत्नतः ॥१९.११३॥
तत्सर्वं छायया शोष्यं मदना रक्षयेत्पृथक् ।
गुटिकाः खण्डशः कृत्वा मदनैः सह मिश्रयेत् ।
कस्तूरीचर्मणा बद्ध्वा सम्यङ्मृगमदो भवेत् ॥१९.११४॥
{कुण्कुमकरणं (१)}
नारिकेलकपालं वा घृष्टं वा निम्बकाष्ठकम् ।
यत्किंचिच्छुभ्रकाष्ठं वा तोयेन सह कारयेत् ॥१९.११५॥
तत्पादं रजनी चाथ तस्मिन्मध्ये विनिक्षिपेत् ।
गैरिकं वा रजन्यर्धं तत्सर्वं कुंकुमं भवेत् ॥१९.११६॥
{कुङ्कुमकरणं (२)}
पालाशपुष्पजं क्वाथं घर्मे धार्यं तु खर्परे ।
विंशत्यंशं क्षिपेत्तस्मिन्पेषितं शुभ्रतण्डुलम् ॥१९.११७॥
तण्डुलार्धं तथा चुन्नं सर्वं काष्ठेन लोलयेत् ।
घनीभूतं भवेद्यावत्तावद्घर्मे प्रचालयेत् ।
ततस्तेनैव वटिकाः कृत्वा स्युः कुङ्कुमोपमाः ॥१९.११८॥
{कुङ्कुमकरणं (३)}
पालाशपुष्पपादांशं सम्यक्शुभ्रं च तण्डुलम् ।
पिष्ट्वाथ वटिकाः कार्या शोष्याः स्युः कुंकुमोपमाः ॥१९.११९॥
{दिव्यधूप (१)}
क्रमात्तरगुणं कुर्यात्कस्तूरी शशिकुङ्कुमम् ।
नखमांसी सर्जरसमुस्ता कृष्णागुरुः सिता ॥१९.१२०॥
चन्दनं च दशैतानि चूर्णितानि विमिश्रयेत् ।
चूर्णतुल्यैर्गुग्गुलुभिः सर्वमेकत्र कुट्टयेत् ॥१९.१२१॥
स्तोकं स्तोकं क्षिपेत्तैलं शिलायां लोहमुष्टिना ।
दिनमेकं प्रयत्नेन वर्तिकां तेन कारयेत् ॥१९.१२२॥
तदग्रज्वलितं कुर्याज्ज्वालां निवार्य तत्क्षणात् ।
देवानां दिव्यधूपोऽयं मन्त्राणां साधने हितः ॥१९.१२३॥
{दिव्यधूप (२)}
पाषाणभेदचूर्णं तु गुग्गुलुं च पलं पलम् ।
मांसी मुस्ता नखं बोलचन्दनागुरुवालकम् ॥१९.१२४॥
लाक्षागुडं सर्जरसं सिताकर्पूरसंयुतम् ।
प्रति निष्कद्वयं चूर्ण्य कस्तूरी कुंकुमं तथा ॥१९.१२५॥
माषैकैकं क्षिपेत्तस्मिन्सर्वं कुट्यादुलूखले ।
तिलतैलं क्षिपेत्किंचिल्लोहदण्डेन तद्दृढम् ॥१९.१२६॥
यामैकं कुट्टयेत्सिद्धो दिव्यो धूपः शिवोदितः ।
देवादेवाकरो देयः पूर्ववद्वर्तकीकृतः ।
सर्वसौभाग्यजनकः सर्वमन्त्रोऽघनायकः ॥१९.१२७॥
{पुष्पद्रुति}
वज्रीक्षीरेण संयुक्तं शुद्धं वस्त्रं पुनः पुनः ।
आतपे शोषितं कुर्यादित्येवं दिनसप्तकम् ॥१९.१२८॥
जातीपुष्पपलैकं तु निष्कं चूर्णितटंकणम् ।
क्षौद्रं निष्कत्रयं योज्यं सर्वमेकत्र लोलयेत् ॥१९.१२९॥
मृत्पात्रे धारयेद्घर्मे रम्ये वा काचभाजने ।
आच्छादयेत्तु वस्त्रेण जलसिक्तेन तत्क्षणात् ॥१९.१३०॥
द्रवन्ति तानि पुष्पाणि युञ्ज्याद्योगेषु तद्द्रवम् ।
अनेनैव प्रकारेण पुष्पाणां च पृथक्पृथक् ।
द्रुतिः कार्या सुगन्धानां गंधवादेषु योजयेत् ॥१९.१३१॥
{धान्यवृद्धिकरणं (१)}
मन्दारमूलमार्द्रायां भरण्यां वा कुशोद्भवम् ।
ऊर्ध्वं संग्राह्य यत्नेन धवमाल्ये विनिक्षिपेत् ॥१९.१३२॥
प्रवातातिमुखं यत्तु तत्काष्ठं तु समाहरेत् ।
धान्यस्य राशिगं कुर्याद्धान्यवृद्धिकरं परम् ॥१९.१३३॥
{धान्यवृद्धिकरणं (२)}
कृकलासस्य वामाक्षि हेम्नावेष्ट्याभिमन्त्रितम् ।
धान्यराशौ विनिक्षिप्य धान्यवृद्धिकरं परम् ॥१९.१३४॥
{धनधान्यवृद्धिकरणं (३)}
तस्यैव दक्षिणं नेत्रं हेम्नावेष्ट्य ततः क्षिपेत् ।
यस्मिन्कस्मिन्भवे द्रव्ये धान्ये वा वृद्धिकारकम् ॥१९.१३५॥
{द्रव्यादिवृद्धिकरणम्}
कृष्णचित्रकमूलं तु क्षिप्तं यस्मिन्सुवस्तुनि ।
तत्सर्वं चाक्षयं नित्यं व्ययीकृत्य न क्षीयते ॥१९.१३६॥
धनं धान्यं घृतं तैलं सुवर्णं नवरत्नकम् ।
यत्किंचिद्द्रव्यजातं तदक्षय्यं तिष्ठति ध्रुवम् ॥१९.१३७॥
{धान्यवृद्धिकरणं (४)}
मूलं सुश्वेतगुंजाया जलमध्ये विनिक्षिपेत् ।
तन्मूलं धान्यराशौ च क्षिप्त्वा मन्त्रविधानतः ॥१९.१३८॥
तद्धान्यं वर्धते नित्यं भक्ष्यमाणं सहस्रशः ।
मन्त्रखण्डे यथा प्रोक्तं गुञ्जामूलस्य साधनम् ।
तथैवात्र प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥१९.१३९॥
आदौ सर्वदिशान्तरेषु गमनं कृत्वा गुरोः संमुखात्प्राप्तं भक्तिबलेन युक्तिविधिना सारातिसारं महत् ।
तत्सर्वं धनवर्धनं निगदितं भूयिष्ठमध्वां क्वचिद्भूपानां विदुषां महामतिमतां विद्वान्भवेत्पालनैः ॥१९.१४०॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:53.6970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

थोपटवाईक

  • वि. कोणीही जातां येतां ज्याला चपराक माराव्यात असा माणूस . 
RANDOM WORD

Did you know?

कांही धर्मात प्रेताचे दहन तर कांहीत दफन कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.