TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण २.२

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण २.२
धर्मज्ञैः शिववत्सलैर्निर्जरैर्भूपैर्महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि ।
रक्ष्यं गात्रं अनन्तपुण्यनिचये मुक्तिश्च यस्माद्भवेत्तद्वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥२.१॥
अभ्रकं भक्षयेदादौ मारितं चामृतीकृतम् ।
मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे ॥२.२॥
यस्मादभ्रं रसक्षेत्रं ततः कुर्याद्रसायनम् ।
अक्षेत्रीकरणे सूतो ह्यमृतो विषतां व्रजेत् ॥२.३॥
फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ।
वज्रपारदयोर्भस्म समभागं प्रकल्पयेत् ॥२.४॥
सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि ।
हंसपाद्या द्रवैरेव तद्गोलं चान्धितं पुटेत् ॥२.५॥
अर्कक्षीरैः पुनर्मर्द्यं तद्वद्गजपुटे पचेत् ।
भक्षयेत्सर्षपवृद्धं यावन्माषं विवर्धयेत् ॥२.६॥
शरण्यः साधकानां तु रसोऽयं वज्रपञ्जरः ।
चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ॥२.७॥
समं सर्वं सदा चानु भक्ष्यं स्यात्क्रामणे हितम् ।
मासषट्कप्रयोगेण जीवेदाचन्द्रतारकम् ॥२.८॥
वलीपलितनिर्मुक्तो दिव्यकायो महाबलः ।
मृतसूताद्द्वादशांशं मृतं वज्रं प्रकल्पयेत् ॥२.९॥
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।
तत्सर्वं भृङ्गजैर्द्रावैर्मर्दितं भावयेत्त्र्यहम् ॥२.१०॥
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् ।
रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥२.११॥
चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल ।
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥२.१२॥
पलैकं मधुना लेह्यं क्रामकं परमं रसे ।
वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥२.१३॥
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् ।
रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥२.१४॥
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः ।
माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥२.१५॥
मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः ।
वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥२.१६॥
पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥२.१७॥
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।
शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥२.१८॥
त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् ।
भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥२.१९॥
माषैकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् ।
मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥२.२०॥
पलैकैकं पिबेच्चानु क्रामकं परमं हितम् ।
रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥२.२१॥
यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥२.२२॥
जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।
पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत् ॥२.२३॥
धात्रीफलरसैर्वाथ क्रामकं ह्यनुपानकम् ।
मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥२.२४॥
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥२.२५॥
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत्पचेत् ॥२.२६॥
तत्पिण्डं कर्षं एकैकं भक्षयेदमृतार्णवः ।
वर्षमात्राञ् जरां हन्ति जीवेद्वर्षशतत्रयम् ॥२.२७॥
वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत् ॥२.२८॥
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् ॥२.२९॥
वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥२.३०॥
उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् ।
भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥२.३१॥
तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् ।
लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥२.३२॥
रसोऽयं उदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥२.३३॥
मध्वाज्याभ्यां लिहेत्कर्षं अनु स्यात्क्रामणं परम् ।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥२.३४॥
भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् ।
सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥२.३५॥
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलां अनु ॥२.३६॥
रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् ।
जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥२.३७॥
वटक्षीरैस्त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥२.३८॥
क्षिपन्क्षिपन्वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥२.३९॥
उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् ।
चन्द्रवृद्ध्या सदा भक्ष्यं यावत्षोडशगुञ्जकम् ॥२.४०॥
चूर्णं उत्तरवारुण्या वाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥२.४१॥
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥२.४२॥
मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् ।
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥२.४३॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥२.४४॥
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।
सितायुक्तं पिबेच्चानु रसोऽयं अचलेश्वरः ॥२.४५॥
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥२.४६॥
सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनं एकं तु ख्यातः सिद्धरसः परः ॥२.४७॥
माषैकं मधुना लेह्यं वर्षान्मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥२.४८॥
श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् ।
भक्षयेद्वा सिता सार्धं क्रामकं परमे रसे ॥२.४९॥
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥२.५०॥
दिनैकं मधुना पच्यान्निष्कैकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥२.५१॥
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥२.५२॥
एकीकृत्य पलैकैकं भक्षयेदनुपानकम् ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥२.५३॥
तत्सर्वं भृङ्गजैर्द्रावैर्मर्दयेद्दिनसप्तकम् ।
षड्वारं चाङ्कुलीतैलैर्भावयित्वाथ भक्षयेत् ॥२.५४॥
माषमात्रं तु वर्षैकं रसोऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥२.५५॥
जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥२.५६॥
तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा ।
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥२.५७॥
अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।
भागाष्टकं गुडं तस्मिन्क्षिपेद्भागं च पिप्पलीम् ॥२.५८॥
मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत्पलम् ।
क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥२.५९॥
त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् ।
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥२.६०॥
स्नुह्यर्कपयसा मर्द्यं तत्सर्वं दिवसत्रयम् ।
तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥२.६१॥
ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद्दृढम् ।
गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥२.६२॥
अब्दैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥२.६३॥
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।
मृतसूतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥२.६४॥
मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ।
दिव्यौषधदलद्रावैर्दिनं मर्द्यं तं अन्धयेत् ॥२.६५॥
ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।
एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥२.६६॥
जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः ।
काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥२.६७॥
मधुना भक्षयेत्कर्षं अनु स्यात्क्रामकं परम् ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥२.६८॥
शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥२.६९॥
परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥२.७०॥
तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु ।
संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥२.७१॥
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥२.७२॥
तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥२.७३॥
सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥२.७४॥
सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयंकरः ॥२.७५॥
तिलकोरण्टपत्त्राणि गुडेन भक्षयेदनु ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥२.७६॥
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥२.७७॥
तस्मिन्पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥२.७८॥
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥२.७९॥
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥२.८०॥
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥२.८१॥
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥२.८२॥
सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पावयेद्दिनम् ॥२.८३॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् ।
तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा ॥२.८४॥
रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेन जीवेत्कल्पान्तमेव च ॥२.८५॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥२.८६॥
शुद्धताम्रस्य भागैकं द्विषट्शुद्धरसस्य च ।
त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत् ॥२.८७॥
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥२.८८॥
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज्जीर्णं पुटे पच्यादेवं षड्गुणगन्धकम् ॥२.८९॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम् ॥२.९०॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥२.९१॥
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि ।
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥२.९२॥
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥२.९३॥
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।
एव पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥२.९४॥
शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै ।
चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥२.९५॥
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥२.९६॥
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥२.९७॥
ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत्त्र्यहम् ।
वज्रमूषान्धितं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥२.९८॥
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।
रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥२.९९॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
सप्ताहं भृङ्गजैर्द्रावैर्नीलमुण्डीफलत्रयम् ॥२.१००॥
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम् ॥२.१०१॥
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥२.१०२॥
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।
आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥२.१०३॥
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम् ॥२.१०४॥
कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥२.१०५॥
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूर्ण्यं जातीफललवंगकम् ॥२.१०६॥
त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् ।
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥२.१०७॥
वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये ।
स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥२.१०८॥
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥२.१०९॥
शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥२.११०॥
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥२.१११॥
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥२.११२॥
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥२.११३॥
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥२.११४॥
भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।
पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥२.११५॥
मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥२.११६॥
सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥२.११७॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥२.११८॥
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥२.११९॥
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥२.१२०॥
लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥२.१२१॥
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥२.१२२॥
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥२.१२३॥
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः ॥२.१२४॥
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥२.१२५॥
सर्वरोगजरामृत्यून्वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥२.१२६॥
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥२.१२७॥
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात् ॥२.१२८॥
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥२.१२९॥
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥२.१३०॥
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥२.१३१॥
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन्पूर्वोक्तैर्मर्दयेद्दिनम् ॥२.१३२॥
माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥२.१३३॥
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥२.१३४॥
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत् ॥२.१३५॥
रक्तभूमौ तु भूनागान्ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत्तान्स्वीकुर्यात्प्रयत्नतः ॥२.१३६॥
कृष्णवर्णागवाज्येन समेन सह तान्पचेत् ।
लोहजे चालयन्पात्रे यावत्सिन्दूरवर्णकम् ॥२.१३७॥
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन् ॥२.१३८॥
पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर्ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥२.१३९॥
एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद्येषां तु दृष्टं मया ।
तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥२.१४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:46.6030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धुमरा

  • वि. एकदम न पेटतां धुमसणारे ( सरपण ); धुराच , धुमसणारा . [ धूम ] 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site