TransLiteral Foundation

रसरत्नाकर - प्रकरण ३.८

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.८
{तिनः: शोधन}
कार्पासार्ककरञ्जधूर्तमुनिजैर्भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः ।
तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर्यावत्पञ्चदिनं तदेव विमलं वादे सदा योजयेत् ॥८.१॥
{तिनः: शोधन}
अथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः ।
समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम् ॥८.२॥
तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे ।
पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत् ॥८.३॥
इत्येवं सप्तधा कुर्यात्खोटं पाकं च मर्दनम् ।
तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत् ॥८.४॥
{तिनः: स्तम्भन}
तीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् ।
चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम् ॥८.५॥
{तिन्=> सिल्वेर्}
श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका ।
विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा ॥८.६॥
काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे ।
द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत् ॥८.७॥
पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः ।
तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम् ॥८.८॥
{तिन्=> सिल्वेर्}
श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् ।
स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम् ॥८.९॥
लेप्यं पादांशकल्केन चांधमूषागतं धमेत् ।
आदाय द्रावयेद्भूमौ पूर्वतैलेन सेचयेत् ॥८.१०॥
पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् ।
तद्वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम् ॥८.११॥
{तिन्=> सिल्वेर्}
समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् ।
द्रवैरीश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत् ॥८.१२॥
नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् ।
पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत् ॥८.१३॥
एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् ।
भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम् ॥८.१४॥
शतमांशेन दातव्यं वेधात्तारं करोत्यलम् ॥८.१५॥
{तिन्=> सिल्वेर्}
सूतकं तालमेकैकं नृकपालं द्विभागकम् ।
सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात् ॥८.१६॥
विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् ।
मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः ॥८.१७॥
दत्ते वारत्रयं वङ्गे तारं भवति शोभनम् ॥८.१८॥
{तिन्=> सिल्वेर्}
गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् ।
तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत् ॥८.१९॥
क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् ।
क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत् ॥८.२०॥
मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् ।
एवं वारत्रयं कुर्यात्तारं भवति शोभनम् ॥८.२१॥
वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका ।
तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत् ॥८.२२॥
वसन्तपुष्पिकां वापि तदभावे नियोजयेत् ।
बाला नाम समाख्याता कट्या धूलीसमा तथा ॥८.२३॥
{तिन्=> सिल्वेर्}
श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् ।
एकविंशतिवारेण मेषीक्षीरेण भावयेत् ॥८.२४॥
तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ।
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ॥८.२५॥
{तिन्=> सिल्वेर्}
तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् ।
तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ॥८.२६॥
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ।
{तिन्=> सिल्वेर्}
तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा ॥८.२७॥
तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् ।
अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥८.२८॥
तत्तारं जायते दिव्यं धर्मकामफलप्रदम् ।
{तिन्=> सिल्वेर्}
रसो मूषकपाषाणं फट्किरी नीलं अञ्जनम् ॥८.२९॥
अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि ।
भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना ॥८.३०॥
अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् ।
दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत् ॥८.३१॥
त्रिंशदंशेन तत्तारं जायते देवभूषणम् ।
{तिन्=> सिल्वेर्}
तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा ॥८.३२॥
अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् ।
अम्लेन मर्दयेत्तावद्यावद्भवति गोलकम् ॥८.३३॥
मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेष्टयेद्गोलं तद्बहिर्निगडेन च ॥८.३४॥
स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् ।
उत्तरावारुणीक्षीरैस्तत्खोटं च प्रलेपयेत् ॥८.३५॥
मूषामध्ये निधायाथ तारं दत्त्वा समं समम् ।
दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम् ॥८.३६॥
एवं पुनः पुनस्ताप्यं एकविंशतिवारकम् ।
दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत् ॥८.३७॥
इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् ।
तद्वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम् ॥८.३८॥
{तिन्=> सिल्वेर्}
रक्तपारदभागैकं भागैकं शंखचूर्णकम् ।
श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत् ॥८.३९॥
टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् ।
वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश ॥८.४०॥
अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् ।
स्तम्भते नात्र संदेहस्तारं भवति शोभनम् ॥८.४१॥
{तिन्=> सिल्वेर्}
हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् ।
तथैव तारसूतेन पिष्टीखोटं तु कारयेत् ॥८.४२॥
तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् ।
जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम् ॥८.४३॥
जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् ।
शतांशेन तु तत्तारं जायते शंभुभाषितम् ॥८.४४॥
{तिन्=> सिल्वेर्}
द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके ।
टेण्टूछल्लीद्रवैर्मर्द्यं यावद्भवति गोलकम् ॥८.४५॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर्नवैः ॥८.४६॥
अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् ।
पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत् ॥८.४७॥
पूर्ववद्भूधरे पच्यादित्येवं सप्तधा क्रमात् ।
द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात् ॥८.४८॥
अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् ।
जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम् ॥८.४९॥
{तिन्=> सिल्वेर्}
षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः ।
तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते ॥८.५०॥
तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् ।
ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके ॥८.५१॥
मर्दयेट्टेण्टुजद्रावैर्यावद्भवति गोलकम् ।
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ॥८.५२॥
पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् ।
तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥८.५३॥
अंधमूषागतं धाम्यं तत्खोटं जायते रसः ।
तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत् ॥८.५४॥
अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः ।
यावत्सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत् ॥८.५५॥
तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् ।
लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् ।
शंखकुन्देन्दुसंकाशं तारं भवति शोभनम् ॥८.५६॥
{चोप्पेर्=> सिल्वेर्}
मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः ।
सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः ॥८.५७॥
तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् ।
तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत् ॥८.५८॥
तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते ।
वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम् ॥८.५९॥
मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् ।
मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥८.६०॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम् ॥८.६१॥
यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः ।
रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत् ॥८.६२॥
द्रुतसूतेन संयुक्तं द्रावयेत्पूर्ववत्क्रमात् ।
द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः ॥८.६३॥
त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे ।
सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत् ॥८.६४॥
द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम् ॥८.६५॥
{चोप्पेर्=> सिल्वेर्}
श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् ।
वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च ॥८.६६॥
तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् ।
द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम् ॥८.६७॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥८.६८॥
रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा ।
तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत् ॥८.६९॥
रजतेन समावर्त्य सारणात्रयसारितम् ।
सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत् ॥८.७०॥
तत्तारं जायते दिव्यं पुटे दत्ते न हीयते ॥८.७१॥
{चोप्पेर्Oऱ् तिन्=> सिल्वेर्}
वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् ।
तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम् ॥८.७२॥
लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत् ॥८.७३॥
एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् ।
तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् ।
अथवा द्रावितं वङ्गं तारं भवति शोभनम् ॥८.७४॥
{चोप्पेर्=> सिल्वेर्}
तारवन्मारयेद्वङ्गं तेन ताम्रं तु वेधयेत् ।
तत्तारं जायते दिव्यं षोडशांशे न संशयः ॥८.७५॥
{चोप्पेर्=> सिल्वेर्}
शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः ।
त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे ॥८.७६॥
चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः ।
त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम् ॥८.७७॥
दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् ।
चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः ॥८.७८॥
अधःस्थितं समादद्यात्शुद्धः स्यात्पारदः शुभः ।
एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम् ॥८.७९॥
विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् ।
मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम् ॥८.८०॥
तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् ।
सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत् ॥८.८१॥
शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् ।
स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् ।
चतुःषष्टितमांशेन तारं भवति शोभनम् ॥८.८२॥
{तिन्+ सिल्वेर्+ चोप्पेर्=> सिल्वेर्}
पलं सूतं पलं तालं तालस्थानेऽथवा शिला ।
कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ॥८.८३॥
वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते ॥८.८४॥
तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः ।
रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम् ॥८.८५॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् ।
स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका ॥८.८६॥
बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् ।
तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत् ॥८.८७॥
दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् ।
इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद्दृढः ॥८.८८॥
द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम् ॥८.८९॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः ।
पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत् ॥८.९०॥
शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् ।
मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत् ॥८.९१॥
तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत् ॥८.९२॥
{चोप्पेरः: दलयोग्य}
अर्कापामार्गकदलीक्षारमम्लेन लोलितम् ।
तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः ॥८.९३॥
पत्रं कृत्वा प्रलिप्याथ तद्वद्धाम्यं पुनः पुनः ।
इत्येवं सप्तधा कुर्यात्वादे स्याद्दलयोग्यकम् ॥८.९४॥
{चोप्पेरः: दलयोग्य}
अथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् ।
लोणारनालमध्ये तु शतधा पूर्ववद्भवेत् ॥८.९५॥
पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् ।
ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः ॥८.९६॥
इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत् ॥८.९७॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
सुशुद्धं तालकं सूतं सामुद्रलवणं समम् ।
द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत् ॥८.९८॥
मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् ।
ततः समुद्रलवणं तालांशं मर्दयेत्पृथक् ॥८.९९॥
यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् ।
चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत् ॥८.१००॥
तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् ।
क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत् ॥८.१०१॥
यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना ।
तत्सत्त्वं मृतसूताभं ऊर्ध्वलग्नं समाहरेत् ॥८.१०२॥
बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् ।
दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये ।
तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम् ॥८.१०३॥
{सिल्वेरः: प्रोदुच्तिओन्}
इत्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् ।
मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् ।
तत्खोटं समतारेण द्रावितं तारतां व्रजेत् ॥८.१०४॥
{सिल्वेरः: रञ्जन}
ताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् ।
तारार्धेन समावर्त्य तारं भवति शोभनम् ॥८.१०५॥
{सिल्वेरः: रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्}
तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् ।
अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम् ॥८.१०६॥
समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् ।
तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम् ॥८.१०७॥
{सिल्वेरः: रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्}
मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् ।
तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत् ॥८.१०८॥
टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् ।
ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत् ॥८.१०९॥
काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् ।
इत्येवं पञ्चधा कुर्यात्सत्त्वं दत्त्वा पुनः पुनः ॥८.११०॥
तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् ।
त्रितयं तु समावर्त्य ताम्रारे द्राविते समे ॥८.१११॥
वेधो देयो दशांशेन बीजं पादं च योजयेत् ।
तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम् ॥८.११२॥
{सिल्वेरः: रञ्जन}
शुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् ।
तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम् ॥८.११३॥
योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् ।
सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत् ॥८.११४॥
सम्यङ्मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः ।
सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत् ॥८.११५॥
शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् ।
ततश्चण्डाग्निना पच्याद्यावत्षोडशयामकम् ॥८.११६॥
स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् ।
ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत् ॥८.११७॥
षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये ।
ततः शुद्धेन तारेण समावर्त्य समेन तु ।
तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् ।
{चोप्पेर्=> सिल्वेर्}
तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे ॥८.११८॥
चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् ।
मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः ॥८.११९॥
भर्जितं लवणं चैव तालकाद्दशमांशकम् ।
पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत् ॥८.१२०॥
साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः ।
पूर्ववद्वालुकायन्त्रे कूपिकामष्टयामकम् ॥८.१२१॥
तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् ।
चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते ॥८.१२२॥
इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः ।
तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम् ॥८.१२३॥
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
वेधयेत्कुन्तवेधेन ढालयेद्दधिगोमये ।
पादांशं दापयेद्बीजं तारं भवति शोभनम् ॥८.१२४॥
{सिल्वेरः: शोधन (?); चोप्पेर्+ सिल्वेर्=> सिल्वेर्(?)}
टंकणं शुद्धतालस्य दशांशेन दापयेत् ।
मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम् ॥८.१२५॥
दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् ।
पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत् ॥८.१२६॥
ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् ।
षोडशांशेन तेनैव शुल्बकं तेन वेधयेत् ॥८.१२७॥
तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत् ॥८.१२८॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
षण् निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् ।
प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम् ॥८.१२९॥
तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् ।
वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम् ॥८.१३०॥
अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् ।
अंधमूषागतं ध्मातं एवं वारत्रये कृते ।
तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत् ॥८.१३१॥
{चोप्पेर्=> सिल्वेर्}
गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् ।
तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा ॥८.१३२॥
षडंशं दापयेद्बीजं शुद्धतारं भवेत्तु तत् ।
शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः ॥८.१३३॥
{सिल्वेर्, गोल्दः: मृदूकरण}
अर्कापामार्गकदलीभस्मतोयेन लोलयेत् ।
तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे ॥८.१३४॥
शोषितं लवणं तस्मात्समादाय प्रयत्नतः ।
रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः ॥८.१३५॥
तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके ।
इत्येवं तु त्रिधा कुर्यादत्यन्तं मृदुतां व्रजेत् ॥८.१३६॥
{मृदूकरण}
अश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् ।
तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत् ॥८.१३७॥
{मृदूकरण}
गजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् ।
कठिने दापयेद्वापं भवेन्मृदुतरं महत् ॥८.१३८॥
{दल (?):: निर्मलीकरण (?)}
नानाविधानि कार्याणि भूषणानि दलेन वै ।
श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः ॥८.१३९॥
पिष्ट्वाथ लवणं किंचित्क्षिप्त्वा तत्रैव पेषयेत् ।
तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत् ॥८.१४०॥
घर्षयन्लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् ।
इत्येवं तु त्रिधा कुर्यात्दलं भवति निर्मलम् ॥८.१४१॥
{दल (?):: निर्मलीकरण (?)}
फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् ।
दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत् ॥८.१४२॥
आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् ।
चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत् ॥८.१४३॥
अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे ।
सुगममपि च तारं सूतशुल्बारयोगैः दलं अतिमलहीनं वार्तिकानां हितार्थम् ॥८.१४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:50.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सत्वत् II.

  • n. यादववंशीय सात्वत राजा का नामांतर (सात्वत देखिये) । 
RANDOM WORD

Did you know?

What are the names for Ekadashi (11th day in fortnight)?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site