TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.१३

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.१३
दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् ।
सत्त्वपातनं अनेकयोगतो द्वंद्वमेलं अभिषेकं आर्यकम् ॥१३.१॥
{अभ्रः: शोधन}
मुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् ।
शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः ॥१३.२॥
पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् ।
इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत् ॥१३.३॥
दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित् ॥१३.४॥
{कान्तलोह, माक्षिक, उपरसः: सत्त्वः: पातन}
गुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् ।
क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ॥१३.५॥
भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा ।
धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम् ॥१३.६॥
गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु ।
षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च ॥१३.७॥
पारावतमलं त्र्यूषं इंद्रगोपं च शिग्रुकम् ।
गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥१३.८॥
एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् ।
अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम् ॥१३.९॥
पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् ।
कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः ॥१३.१०॥
खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन्क्षिपन् ।
वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन् ॥१३.११॥
समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् ।
वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत् ॥१३.१२॥
चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ।
एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत् ॥१३.१३॥
इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति ।
अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम् ॥१३.१४॥
कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका ।
मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक्पृथक् ॥१३.१५॥
{अभ्रः: सत्त्वः: मृदूकरण}
अभ्रसत्त्वं समादाय समांशं काचटंकणम् ।
दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत् ॥१३.१६॥
अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् ।
कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् ॥१३.१७॥
मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत् ॥१३.१८॥
{अभ्रः: सत्त्वः: पातन}
धान्याभ्रं दशभागं स्यात्शुद्धनागं त्रिभागकम् ।
टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम् ॥१३.१९॥
ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् ।
मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि ॥१३.२०॥
अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ।
कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः ॥१३.२१॥
{माक्षिकः: सत्त्वमः: पातन}
दोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ।
चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत् ॥१३.२२॥
आदाय भावयेद्घर्मे वज्रीक्षीरैर्दिनावधि ।
गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम् ॥१३.२३॥
अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत् ॥१३.२४॥
{माक्षिकः: सत्त्वः: पातन}
कदलीकंदतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ।
पूर्ववद्धमनात्सत्त्वं इंद्रगोपनिभं भवेत् ॥१३.२५॥
{माक्षिकः: सत्त्वमः: पातन}
स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् ।
कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम् ॥१३.२६॥
मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत् ॥१३.२७॥
{माक्षिकः: सत्त्वः: पातन}
कदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ।
रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम् ॥१३.२८॥
{माक्षिकः: सत्त्वः: पातन}
मूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् ।
माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत् ॥१३.२९॥
मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद्दृढम् ।
व्योमवद्वंकनालेन सत्त्वं शुल्बनिभं भवेत् ॥१३.३०॥
{माक्षिकः: सत्त्वः: पातन}
स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥१३.३१॥
भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् ।
सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ॥१३.३२॥
{विमलः: सत्त्वः: पातन}
विमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः ॥१३.३३॥
{माक्षिकः: सत्त्वः: धौतसत्त्व}
सुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत् ॥१३.३४॥
जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् ।
योजयेद्वापने चैव बीजानां यत्र यत्र वै ॥१३.३५॥
{माक्षिकः: सत्त्वः: पातन}
माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।
पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत् ॥१३.३६॥
{मनःशिलाः: सत्त्वः: पातन}
अगस्त्यशिग्रुजैस्तोयैस्त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ।
{मनःशिलाः: सत्त्वः: पातन}
गोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥१३.३७॥
दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् ।
गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।
सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत् ॥१३.३८॥
शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यक्मृल्लवणैर्मुखम् ॥१३.३९॥
चण्डाग्निना पचेत्तावद्यावद्द्वादशयामकम् ।
स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥१३.४०॥
ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम् ॥१३.४१॥
{हरितालः: सत्त्वः: पातन}
भागाः षोडश तालस्य विषं पारदटंकणम् ।
श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत् ॥१३.४२॥
सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् ।
शिलावद्ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥१३.४३॥
{हरितालः: सत्त्वः: पातन}
स्नुक्क्षीरकटुतुम्ब्युत्थैस्तालं भाव्यं द्विसप्तधा ॥१३.४४॥
तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् ।
एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत् ॥१३.४५॥
छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत् ॥१३.४६॥
{हरितालः: सत्त्वः: पातन}
लाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः ।
एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः ॥१३.४७॥
दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा ।
तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत् ॥१३.४८॥
पुटाद्वा धमनाद्ग्राह्यं सत्त्वं पातालयन्त्रके ॥१३.४९॥
{हरितालः: सत्त्वः: पातन}
तालकादष्टमांशेन देयं सूतं च टंकणम् ।
कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् ।
तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत् ॥१३.५०॥
{तुत्थः: सत्त्वः: पातन}
लाक्षाभया च भूनागं गृहधूमं जटाकणा ।
निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम् ॥१३.५१॥
सर्वं मर्द्यमजाक्षीरैरन्धमूषागतं धमेत् ।
सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः ॥१३.५२॥
{तुत्थः: सत्त्वः: पातन}
हरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् ।
मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत् ॥१३.५३॥
स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् ।
रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति ॥१३.५४॥
{तुत्थः: सत्त्वः: पातन}
तुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम् ॥१३.५५॥
{वरनागसत्त्व}
सौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत्समम् ।
हठाद्ध्माते भवेत्सत्त्वं वरनागं तदुच्यते ॥१३.५६॥
{रसकः: सत्त्वः: पातन}
क्षाराम्लं स्नेहपित्तैश्च क्रमाद्भाव्यं दिनं दिनम् ।
पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम् ॥१३.५७॥
रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया ।
टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत् ॥१३.५८॥
एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् ।
याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥१३.५९॥
शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत् ॥१३.६०॥
{रसकः: सत्त्वः: पातन}
रसकस्यैकभागं तु त्रिफलामित्रपंचकम् ।
रजनीगृहधूमं च दशानामेकभागकम् ॥१३.६१॥
अजाक्षीरैर्दिनं मर्द्यं अथवाम्लेन केनचित् ।
पूर्ववद्ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम् ॥१३.६२॥
{वैक्रान्तः: सत्त्वः: पातन}
वन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् ।
अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ॥१३.६३॥
{वैक्रान्तः: सत्त्वः: पातन}
मोक्षमोरटपालाशक्षारं गोमूत्रगालितम् ।
गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम् ॥१३.६४॥
लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् ।
मेषशृंगीद्रवैर्मर्द्यं एतत्सर्वं दिनावधि ॥१३.६५॥
पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना ।
तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम् ॥१३.६६॥
{वैक्रान्तः: सत्त्वः: पातन}
वैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च ।
रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम् ॥१३.६७॥
गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् ।
एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ॥१३.६८॥
शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत् ॥१३.६९॥
{वैक्रान्तः: सत्त्वः: पातन}
वैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ।
पूर्ववद्धमनात्सत्त्वं इंद्रगोपनिभं भवेत् ॥१३.७०॥
{गैरिकः: सत्त्वः: पातन}
गैरिकं रक्तवर्गेण पीतवर्गेण भावितम् ।
सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् ।
तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम् ॥१३.७१॥
{सौराष्ट्रीः: सत्त्वः: पातन}
सिता सिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।
शतवारं प्रयत्नेन मित्रपंचकसंयुतम् ।
धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके ॥१३.७२॥
{सस्यकः: सत्त्वः: पातन}
सस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः ।
स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् ।
मर्द्यं करंजतैलेन यामैकं गोलकं च तत् ॥१३.७३॥
अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना ।
इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥१३.७४॥
{कासीसः: सत्त्वः: पातन}
चतुर्विधं तु कासीसं रक्तं पीतं सितासितम् ।
मर्दयेत्पित्तवर्गेण तिक्तकोशातकीद्रवैः ॥१३.७५॥
कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः ।
तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति ॥१३.७६॥
{राजावर्तः: सत्त्वः: पातन}
राजावर्तमयः पात्रे पाचयेन्माहिषैर्घृतैः ।
पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम् ॥१३.७७॥
रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।
खदिरांगारसंयोगात्कोष्ठ्यां सत्त्वं विमुञ्चति ॥१३.७८॥
{स्रोतोञ्जनः: परीक्षा}
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घर्षणे गैरिकच्छायं स्रोतोंजनमिदं भवेत् ॥१३.७९॥
{स्रोतोञ्जनः: सत्त्वः: पातन}
राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोंजनादपि ॥१३.८०॥
{द्वन्द्वम्. ओफ़् व्योमसत्त्व अन्द्मिनेरल्स्}
व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् ।
द्वन्द्वमेलापलिप्तायां मूषायां तद्द्वयं समम् ॥१३.८१॥
ध्मातव्यं अरिवर्गेण क्षिप्ते मिलति तत्क्षणम् ॥१३.८२॥
{सत्त्वः: मेलापन}
विषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् ।
मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत् ॥१३.८३॥
तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च ।
{द्वन्द्वमेल्.:: लेप फ़ोर्~}
त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् ।
स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः ॥१३.८४॥
{सर्वसत्त्वमेलापन (२)}
वर्षाभूः कदलीकंदः काकमाची पुनर्नवा ।
गुंजा नरकपालं च टंकणं पेषयेत्समम् ।
अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात् ॥१३.८५॥
{मेलापनः: मेतल्स्, सत्त्व अन्द् ।ओर्महारसस्}
तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् ।
लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम् ॥१३.८६॥
भूलतां इंद्रगोपं च पाषाणभेदिका समम् ।
नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत् ॥१३.८७॥
सर्वलोहानि सत्त्वानि तथा चैव महारसाः ।
मिलन्ति नात्र संदेहस्तीव्रध्मानानलेन तु ॥१३.८८॥
{द्वन्द्वमेलापक}
विषं छुछुन्दरीमांसं टंकणं समपेषितम् ।
मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् ।
यत्किंचिद्द्वंद्वयोगं तु धमनेन मिलत्यलम् ॥१३.८९॥
{द्वन्द्वमेलापक}
कङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् ।
तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् ।
मिलत्येव न संदेहस्तत्तन्मारकवापनात् ॥१३.९०॥
{अभ्रः: प्रोदुच्तिओनोफ़् अभ्रमेतल्चोम्पोउन्द्स्}
हेमाभ्रं नागताप्याभ्रं शुल्बाभ्रं गंधकेन च ।
सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद्दृढम् ॥१३.९१॥
नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च ।
ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम् ॥१३.९२॥
{अभ्रः: वङ्गाभ्र}
मिलत्येव न संदेहः पूर्वमूषागतं क्षणात् ।
श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम् ॥१३.९३॥
कदलीकंदतोयेन मर्दयेट्टंकणैः सह ।
अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥१३.९४॥
{अभ्रः: वङ्गाभ्र}
गुंजा नरकपालं च टंकणं वनशिग्रुकम् ।
स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत् ॥१३.९५॥
बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् ।
रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत् ॥१३.९६॥
{अभ्रः: वङ्गाभ्र}
अभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् ।
पारदं टंकणांशं च काकमाचीद्रवैर्दिनम् ॥१३.९७॥
पिष्ट्वा तद्गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः ।
पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥१३.९८॥
{अभिषेक (१)}
सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् ।
पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम् ॥१३.९९॥
अनेन कांजिकेनैव शतवारं विभावयेत् ।
यत्किंचिच्चारणावस्तु ततस्तं जारयेद्रसे ।
अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम् ॥१३.१००॥
{अभिषेक (२)}
त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् ।
माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥१३.१०१॥
स्थितं घर्मे पुनस्तस्मिन्द्रुतं नागं विनिक्षिपेत् ।
तारकर्मणि बंगं वा शतवाराणि सेचयेत् ॥१३.१०२॥
तद्द्रवं ताम्रपात्रस्थं अभिषेकं विदुर्बुधाः ।
अनेन चारणावस्तु शतवाराणि भावयेत् ॥१३.१०३॥
{सारणायां संकेतः}
द्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च ।
द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा ॥१३.१०४॥
स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् ।
तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम् ॥१३.१०५॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:52.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुडकें

  • पुन . १ जुनें वस्त्राचें फडकें ; पटकूर ; चिंधी . २ ( निंदेनें ) म्हातारा मनुष्य . ३ फक्त लंगोटी जवळ असलेला माणूस . - तुगा १८८१ . 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site