TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण १.९

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ९
{इरोनः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}
अशुद्धममृतं लौहं आयुर्हानिरुजाकरम् ।
हृत्पीडां च तृषां जाड्यं तस्माच्छुद्धं च मारयेत् ॥९.१॥
{कान्तलोहः: परीक्षा}
पात्रे यस्मिन्प्रसरति न चेत्तैलबिन्दुर्विसृष्टः ।
हिङ्गुर्गन्धं प्रसरति निजं तिक्ततां निम्बुकश्च ।
पाके दग्धं भवति शिखराकारता नैव भूमौ ।
कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥९.२॥
कान्तं मृदुतरं तारं रुक्माभं तिमिरं करम् ।
स्वादुर्यतो भवेन्निम्बकल्को रात्रिनिवेशितः ॥९.३॥
कान्तं तदुत्तमं यच्च रूप्येनावर्तितं मिलेत् ।
सर्वरोगहरं एतत्सर्वकुष्ठहरं परम् ॥९.४॥
{इरोनः: सुब्त्य्पेसः: शोधन}
शशछागरक्तसंलिप्तं त्रिवारं चाग्नितापितम् ।
कान्तादिमुण्डपर्यन्तं सर्वरोगहरं परम् ॥९.५॥
{इरोनः: शोधनः: अद्रि}
त्रिफलाष्टगुणैस्तोयैस्त्रिफलाषोडशं पलम् ।
तत्क्वाथे पादशेषे तु लौहस्य पत्रपञ्चकम् ॥९.६॥
कृत्वा पत्राणि तप्तानि सप्तवाराणि सेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लौहसम्भवः ॥९.७॥
{इरोनः: शोधन}
त्रिविधं लौहचूर्णं वा गोमूत्रैः षड्गुणैः पचेत् ।
प्रक्षालयेदारनाले शोष्यं शुद्धिं अवाप्नुयात् ॥९.८॥
{इरोनः: सुब्त्य्पेसः: शोधन}
रक्तमाला हंसपादो गोजिह्वा त्रिफलामृता ।
गोपाली तुम्बुरुर्दन्ती तुल्यगोमूत्रपेषितम् ॥९.९॥
अस्मिन्मध्ये लौहपत्त्रं तप्तं तप्तं द्विसप्तधा ।
सेचयेत्कान्तमुण्डान्तं सर्वदोषापनुत्तये ॥९.१०॥
सर्वेष्वौषधकल्पेषु लौहकल्पं प्रशस्यते ।
तस्मात्सर्वं प्रयत्नेन लौहमादौ विमारयेत् ॥९.११॥
अयः पञ्चपलादूर्ध्वं यावत्पलत्रयोदशात् ।
आदौ मन्त्रस्ततः कर्म यथाकर्तव्यं उच्यते ॥९.१२॥
{इरोनः: मारण}
हिङ्गुलस्य पलान्पञ्च नारीस्तन्येन पेषयेत् ।
तेन लौहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥९.१३॥
रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ।
जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥९.१४॥
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तथैवं पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ॥९.१५॥
हो म्रियते त्रालसन्दे दत्त्वा दत्त्वा च हिङ्गुलम् ।
{इरोनः: मारण}
अर्जुनस्य त्वचा पेष्या काञ्जिकेनातिलोहिता ॥९.१६॥
तन्मध्ये लोहचूर्णं च कांस्यपात्रे विनिक्षिपेत् ।
दिनैकं भावयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ॥९.१७॥
अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ।
{इरोनः: मारण}
दन्तीपत्रं द्रवं यच्च लौहचूर्णं विलोडयेत् ॥९.१८॥
दिनैकं भावयेद्घर्मे द्रवं देयं पुनः पुनः ।
रुद्ध्वा रात्रौ पुटैः पच्यादेभिर्द्रावैश्च भावयेत् ॥९.१९॥
एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ।
{इरोनः: मारण}
चिञ्चापत्रनिभां कुर्यात्त्रिविधं लोहपत्रकम् ॥९.२०॥
मृत्पात्रस्थं क्षिपेद्घर्मे दन्त्या द्रावैः प्रपूरयेत् ।
पत्रं पुनः पुनस्तावद्यावज्ज्वरति वै त्वयः ॥९.२१॥
म्रियते तीव्रघर्मेण चूर्णीकृत्य नियोजयेत् ।
{इरोनः: मारण}
कान्तं तीक्ष्णं तथा मुण्डचूर्णं मत्स्याक्षजैर्द्रवैः ॥९.२२॥
आतपे त्रिदिनं भाव्यं द्विदिनं चित्रकद्रवैः ।
त्रिकण्टकद्रवैस्त्र्यहं सहदेव्या द्रवैस्त्र्यहम् ॥९.२३॥
गोमूत्रैस्त्रिफलाक्वाथे भावयेच्च त्र्यहं त्र्यहम् ।
धातक्याश्च ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ॥९.२४॥
रुद्ध्वा गजपुटेनैवं मृतं योगेषु योजयेत् ।
{इरोनः: मारण}
द्रवैः कुरण्टपत्रोत्थैः लौहचूर्णं विमर्दयेत् ॥९.२५॥
दिनैकमातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टकैः ।
वन्ध्याभृङ्गीपुनर्नवयोर्गोमूत्रैश्च दिनं पुनः ॥९.२६॥
गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् ।
त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ॥९.२७॥
रुद्ध्वा गजपुटे पञ्चादिं क्वाथेन मर्दयेत् ।
दिवा मर्द्यं पुटं रात्रावेकविंशतिदिनानि वै ॥९.२८॥
एकविंशद्दिनेनैव म्रियते त्रिविधं ह्ययः ।
{इरोनः: मारण}
माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचानि च ॥९.२९॥
पिष्ट्वा मर्द्यं लोहपत्रं तप्तं तप्तं निषेचयेत् ।
सप्तधा त्रिफलाक्वाथे जलेन क्षालयेत्पुनः ॥९.३०॥
कुट्टयेल्लोहदण्डेन पेषयेत्त्रिफलाजलैः ।
षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ॥९.३१॥
अम्लेन लोडितं रुद्ध्वा गजान्धकपुटे पचेत् ।
निरुत्थं जायते भस्म कान्तं तीक्ष्णादिमुण्डकम् ॥९.३२॥
{इरोनः: मारण}
तिन्दूफलस्य मज्जाभिर्लिप्त्वा स्थाप्यातपे खरे ।
धारयेत्कांस्यपात्रस्थं दिनैकेन पुटत्यलम् ॥९.३३॥
लेप्यं पुनः पुनः कुर्यात्दिनान्तान्तं प्रलेपयेत् ।
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतं भवेत् ॥९.३४॥
{इरोनः: मारण}
स्थाल्यां वा लोहपात्रे वा लौहदर्व्या विलोडयेत् ।
पाचयेत्त्रिफलाक्वाथे दिनैकं लोहचूर्णकम् ॥९.३५॥
तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
षोडशांशेन मूषायां निर्वातेऽहर्निशं पचेत् ॥९.३६॥
एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तरम् ।
भृङ्ग्या द्रावं तालमूली हस्तिकर्णस्य मूलकम् ॥९.३७॥
शतावरी विदार्याश्च मूलक्वाथे च त्रैफले ।
पिष्ट्वा तत्पूर्ववत्स्थाल्यां पाच्यं पेष्यं पुटे त्रिधा ॥९.३८॥
ततः पुनर्नवातोयैर्दशमूलकषायकैः ।
बृहत्याश्च कषायैर्वा बीजपूरस्य तोयतः ॥९.३९॥
ब्रह्मबीजस्तथाशिग्रुक्वाथे गोपयसापि वा ।
प्रत्येकेन प्रपेष्यादौ पूर्वगर्भपुटे पचेत् ॥९.४०॥
भावयेत्तु द्रवेनैव पुटान्ते याममात्रकम् ।
प्रत्येकेन क्रमादेवं पिष्ट्वा पुटैश्च भावयेत् ॥९.४१॥
म्रियते नात्र संदेहः कान्तं तीक्ष्णं च मुण्डकम् ।
सर्वं एतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥९.४२॥
{इरोनः: मारण}
मध्वाज्यं मृतं लौहं च सरूप्यं संपुटे क्षिपेत् ।
रुद्ध्वा दभायं तु संग्राह्यं रूप्यं च पूर्वमानकम् ॥९.४३॥
तदा लौहं मृतं विद्यादमृतं मारयेत्पुनः ॥९.४४॥
{इरोनः: मारणः: निरुत्थ}
गन्धकं तु मृतं लौहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥९.४५॥
इत्येवं सर्वलोहानां कर्तव्योऽयं निरुत्थितः ॥९.४६॥
{इरोनः: मारणः: वारितर}
शुद्धसूतं द्विधा गन्धं कृत्वा खल्वे तु कज्जलीम् ।
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥९.४७॥
यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ।
आच्छाद्यैरण्डपत्रैश्च यामार्द्धेणोष्णतां व्रजेत् ॥९.४८॥
धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ।
सम्पिष्य गालयेद्वस्त्रे सद्यो वारितरं भवेत् ॥९.४९॥
कान्तं तीक्ष्णं तथा मुण्डं निरुत्थं जायते मृतम् ।
स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥९.५०॥
सिद्धयोगमिदं ख्यातं सिद्धानां सम्मुखागतम् ।
{इरोनः: मृतः: मेदिच्. उसे}
अन्नभूतं आयसाद्यं सर्वरोगज्वरापहम् ॥९.५१॥
त्रिफलारससंयुक्तं सर्वरोगेषु योजयेत् ॥९.५२॥
मृतानि लौहानि वशीभवन्ति ।
निघ्नन्ति युक्त्या ह्यखिलामयानि ।
अभ्यासयोगाद्दृढयोगसिद्धम् ।
कुर्वन्ति रुङ्मृत्युजराविनाशम् ॥९.५३॥
{इरोनः: मृतः: अमृतीकरण}
तोयाष्टभागशेषेन त्रिफलापलपञ्चकम् ।
घृतं क्वाथस्य तुल्यं स्याच्चूर्णं तुल्यं मृतायसम् ॥९.५४॥
पाचयेत्ताम्रपात्रे च लौहदर्व्या विचालयेत् ।
मृद्वग्निना पचेत्तावद्यावज्जीर्यति गन्धकम् ॥९.५५॥
लौहतुल्या शिवा योज्या सुपक्वेनैवावतारयेत् ।
योगवाहमिदं ख्यातं मृतं लोहं महामृतम् ॥९.५६॥
एवं कान्तस्य तीक्ष्णस्य मुण्डस्यापि विधिः स्मृतः ।
{इरोनः: मृतः: अमृतीकरण}
गुडस्य कुडवे पक्वं लौहभस्म पलान्वितम् ॥९.५७॥
कोलप्रमाणं रोगेषु तच्च योगेन योजयेत् ।
घृतं तुल्यं मृतं लोहं लोहपात्रगतं पचेत् ॥९.५८॥
जीर्णे घृतं समादाय योगवाहेषु योजयेत् ॥९.५९॥
ओं अमृतेन भक्ष्याय नमः अनेन मनुना लौहं भक्षयेत् ।
{इरोनः: मृतः: मेदिच्. प्रोपेर्तिएस्}
आयुर्वीर्यं बलं दत्ते पाण्डुमेहादिकुष्ठनुत् ।
आमवातहरं लौहं वलीपलितनाशनम् ॥९.६०॥
{उपलोहः: शोधन}
त्रिक्षारं पञ्चलवणं सप्तधाम्लेन मर्दयेत् ।
कांस्यारघोषपत्राणि तिलकल्केन लेपयेत् ॥९.६१॥
रुद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा ।
{उपलोहः: मारण}
ताम्रवन्मारयेत्तेषां कृत्वा सर्वत्र योजयेत् ॥९.६२॥
{ब्रोन्ज़ेः: मेदिच्. प्रोपेर्तिएस्}
कांस्यं कषायमुष्णं च लघु रूक्षं च तिक्तकम् ।
कफपित्तरुजं हन्ति हृद्देहायुष्यवर्धनम् ॥९.६३॥
{ब्रस्सः: मेदिच्. प्रोपेर्तिएस्}
रीतिका च गलं रूक्षं अतिक्तलवणं सरम् ।
शोधनं सर्वरोगघ्नं बलवीर्यायुष्यवर्द्धनम् ॥९.६४॥
{मण्डूरः: प्रोदुच्तिओन्}
अल्पाङ्गारे धमेत्किट्टं लौहजं च गवां जलैः ।
सेचयेदक्षपत्रैश्च सप्तवारं पुनः पुनः ॥९.६५॥
मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।
किट्टाच्छतगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ॥९.६६॥
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ।
तस्मात्कान्तं सदा सेव्यं जरामृत्युहरं परम् ॥९.६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:45.1330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुमति XXII.

  • n. २. वरुणसभा में उपस्थित एक राक्षस [म. स. ९.१३] 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site