TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नाकर - प्रकरण ३.६

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


प्रकरण ३.६
नानारक्तसुपीतपुष्पनिचयादादाय सारं निजम् ।
तस्मिञ्छोधितपन्नगं द्रुतमतः संढाल्यं वारं शतम् ।
पश्चाद्रञ्जनवेधनं च विधिना चन्द्रार्कताम्रस्य यत् ।
तत्सर्वं गुरुशास्त्रतः स्वमतिना संकथ्यते सांप्रतम् ॥६.१॥
{मेर्चुर्यः: रक्तपारदः: प्रोदुच्तिओन्}
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।
तस्याः षोडशभागा वै भागैकं मृतवज्रकम् ॥६.२॥
देवदाल्याः शङ्खपुष्प्या द्रवैर्मर्द्य दिनत्रयम् ।
पचेत्कच्छपयन्त्रस्थं पुटैकेन समुद्धरेत् ॥६.३॥
यामैकं पूर्वजैर्द्रावैर्मर्द्य तत्पूर्ववत्पुटेत् ।
एवं सप्तपुटैः पक्वो यामं मर्द्यश्च तैर्द्रवैः ॥६.४॥
दिनैकं पातनायन्त्रे पाचयेल्लघुनाग्निना ।
पुनर्मर्द्यं पुनः पाच्यं यावदूर्ध्वं न गच्छति ॥६.५॥
अधोयन्त्रे यदा तिष्ठेत्तदा स्याद्रक्तपारदः ।
{लेअद्=> गोल्द्}
रक्तपारदभागैकं द्वयं कृष्णाभ्रसत्त्वकम् ॥६.६॥
टङ्कणस्य च भागैकं सर्वं मर्द्यं दिनावधि ।
वज्रीक्षीरैस्तु तत्पिण्डं रुद्ध्वा गजपुटे पचेत् ॥६.७॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
षोडशांशेन नागस्य वेधे दत्ते च काञ्चनम् ॥६.८॥
जायते दिव्यरूपाढ्यं देवाभरणमुत्तमम् ।
{लेअद्=> गोल्द्}
शाककिंशुककोरण्टद्रवैः कङ्गुणितैलतः ॥६.९॥
मर्दयेन्नागचूर्णं तु दिनं संपुटगं पचेत् ।
सम्यग्गजपुटेनैव मर्द्य पाच्यं पुनः पुनः ॥६.१०॥
चत्वारिंशत्पुटैः सिध्यं दिव्यं भवति काञ्चनम् ।
{लेअद्=> गोल्द्}
रसकं कुङ्कुमं तुत्थं बालवत्सपुरीषकम् ॥६.११॥
पीताभ्रकं विषं तुल्यं मातुलुङ्गद्रवैर्दिनम् ।
मर्दितं छायया शुष्कं मधुना सह कल्कयेत् ॥६.१२॥
तेन नागस्य पत्राणि लिप्त्वा शोष्याणि छायया ।
अन्धमूषागतं ध्मातं शाकपत्रद्रवे ततः ॥६.१३॥
सेचयेदुद्धरेत्पश्चात्प्रकटं द्रावयेत्पुनः ।
शाकपत्रद्रवैः सेच्यं पुनर्द्राव्यं च सेचयेत् ॥६.१४॥
इत्येवं सप्तधा कुर्यात्पुनः पत्राणि कारयेत् ।
लेपयेत्पूर्ववच्छोष्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥६.१५॥
सेचनं द्रावणं चैव सप्तवाराणि कारयेत् ।
इत्येवं सप्तधा कुर्याल्लेपादि द्रावणान्तकम् ॥६.१६॥
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{लेअद्=> गोल्द्}
दग्धं तु चुन्नपाषाणं आरनाले विनिक्षिपेत् ॥६.१७॥
मृत्पात्रे लोलितं स्थाप्यं दिवारात्रं प्रयत्नतः ।
तत्स्वच्छं ग्राहयेद्द्रावं तद्द्रावैः शाककुड्मलान् ॥६.१८॥
पेषयेत्तेन कल्केन नागचूर्णं विमर्दयेत् ।
यामान्ते शोषयेद्घर्मे पुनर्मर्द्य च शोषयेत् ॥६.१९॥
इत्येवं दशधा कुर्यात्तद्गोलं निक्षिपेत्पुनः ।
शाकदण्डस्य सार्द्रस्य गर्भे तेनैव रोधयेत् ॥६.२०॥
मृदा लिप्तं तु तच्छुष्कं सम्यग्गजपुटे पचेत् ।
समुद्धृत्य भवेत्पीतं स्तम्भनं चास्य कथ्यते ॥६.२१॥
{लेअद्=> गोल्द्}
गोमूत्रैः क्षालयेदादौ भूनागाञ्जीवसंयुतान् ।
सौवीराञ्जनमेतेषु तुल्यं क्षिप्त्वा विमर्दयेत् ॥६.२२॥
दिनैकं महिषीमूत्रैर्जातं गोलं समुद्धरेत् ।
तस्मात्पातालयन्त्रेण ग्राह्यं तैलं प्रयत्नतः ॥६.२३॥
तस्मिंस्तैले पूर्वनागमथवा शुद्धनागकम् ।
द्रावितं द्रावितं क्षेप्यमेकविंशतिवारकम् ॥६.२४॥
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{लेअद्=> गोल्द्}
शुद्धनागस्य चूर्णं तु समं भूनागचूर्णकम् ॥६.२५॥
शाककिंशुककोरण्टपुष्पाणां ग्राहयेद्रसम् ।
यथालाभेन तद्द्रावैर्दिनमेकं विमर्दयेत् ॥६.२६॥
अंधमूषागतं धाम्यं ततश्चूर्णं तु कारयेत् ।
पूर्ववन्मर्दितं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥६.२७॥
जायते कनकं दिव्यं तन्नागं देवभूषणम् ।
{चोप्पेर्=> गोल्द्}
शुद्धनागपलैकेन मूषा कार्या सुवर्तुला ॥६.२८॥
पलं शुद्धरसं तस्यां क्षिपेद्गन्धं पलद्वयम् ।
तां मूषां मृण्मये पात्रे धारयेदातपे खरे ॥६.२९॥
दिनं जम्बीरनीरेण काकमाचीद्रवैर्दिनम् ।
कासमर्दरसैश्चाहो दिनं धत्तूरजैर्द्रवैः ॥६.३०॥
क्रमेण भावयेदेवं घर्मे दिनचतुष्टयम् ।
मृत्पात्रात्सर्वमुद्धृत्य यथा किंचिन्न गच्छति ॥६.३१॥
पिष्ट्वा धत्तूरजैर्द्रावैः करञ्जस्य तु बीजकम् ।
तेनैवाङ्गुलमात्रं तु मूषागर्भं प्रलेपयेत् ॥६.३२॥
पूर्वे पिण्डं क्षिपेत्तत्र पलैकं चाथ गन्धकम् ।
भूनागानां द्रवं तत्र निक्षिपेन्निष्कपञ्चकम् ॥६.३३॥
विधाय लेपकल्केन ततो मूषां निरुध्य च ।
भूधरे दिनमेकं तु करीषाग्नौ विपाचयेत् ॥६.३४॥
स्वाङ्गशीतं समुद्धृत्य मूषायां पूर्ववत्क्षिपेत् ।
लेपं गन्धं च भूनागं पूर्ववच्च पुटे पचेत् ॥६.३५॥
एवं विंशगुणं यावज्जार्यं गन्धं सुसाधितम् ।
सार्धं पलद्वयं तालं रसकं चापि तत्समम् ॥६.३६॥
पलैकं टङ्कणं पिष्ट्वा द्विधा कुर्यात्त्रयं पृथक् ।
काचकूप्यन्तरे क्षिप्त्वा तालकार्धं ततः क्षिपेत् ॥६.३७॥
रसकं टङ्कणं पश्चात्सिद्धं पूर्वरसं पुनः ।
टङ्कणं रसकं तालं क्रमाद्दद्यात्पुनस्त्रयम् ॥६.३८॥
काचकूप्या मुखं दीपतप्तं स्वाङ्गन वेष्टयेत् ।
अथवा काचकीलेन रुद्ध्वा मृल्लवणेन च ॥६.३९॥
कूपिकां च मृदा लेप्य सर्वत्राङ्गुलमात्रकम् ।
तां शुष्कां भूधरे यन्त्रे क्षिप्त्वा पूर्वं च खर्परम् ॥६.४०॥
दत्त्वा मृदा लिपेत्संधिं देयं गजपुटं पुनः ।
स्वाङ्गशीतं समुद्धृत्य बलिं पूजां च कारयेत् ॥६.४१॥
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
स्वर्णं भवति रूपाढ्यं सिद्धयोग उदाहृतः ॥६.४२॥
{चन्द्रार्क => गोल्द्}
पलानि दश गन्धस्य सूतकस्यैकविंशतिः ।
महाकालस्य बीजोत्थतैलं पञ्चपलं भवेत् ॥६.४३॥
सर्वं स्निग्धघटे रुद्ध्वा पाचयेन्मृदुवह्निना ।
माषपिष्टप्रलेपेन यथा धूमो न गच्छति ॥६.४४॥
स सूतो जायते खोटश्चन्द्रार्के द्राविते क्षिपेत् ।
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥६.४५॥
{चोप्पेर्=> गोल्द्}
पारदं गंधकं तुल्यं देवदालीद्रवैर्दिनम् ।
मर्दितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥६.४६॥
आवर्त्य चान्धमूषायां समुद्धृत्य ततः पुनः ।
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥६.४७॥
तद्द्रवे पूर्वशुल्बं तु द्रावितं द्रावितं क्षिपेत् ।
इत्येवं शतधा कुर्याद्दिव्यं भवति काञ्चनम् ॥६.४८॥
{चोप्पेर्=> गोल्द्}
पीतगन्धकचूर्णं तु नागवल्ल्या द्रवैस्त्र्यहम् ।
भावितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥६.४९॥
शुष्कं रुद्ध्वा पुटे पच्यादारण्योपलकैः शुभैः ।
शाकवृक्षत्वचा मर्द्यं द्रवै रक्ताश्वमारकैः ॥६.५०॥
पूर्वताम्रस्य पत्राणि कल्केनानेन लेपयेत् ।
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारशते कृते ॥६.५१॥
तत्ताम्रं जायते स्वर्णं जाम्बूनदसमप्रभम् ।
{चोप्पेर्=> गोल्द्}
काञ्चनीमूलचूर्णं तु हरितालं मनःशिला ॥६.५२॥
टङ्कणं माक्षिकं तुल्यं वासापुष्पद्रवैस्त्र्यहम् ।
मर्दितं लेपयेत्तेन ताम्रपात्रं सुशोधितम् ॥६.५३॥
शनैर्मन्दाग्निना ताप्यं शुष्कलेपं च दापयेत् ।
पुनस्ताप्यं पुनर्लेप्यं सप्तधेत्थं प्रयत्नतः ॥६.५४॥
ततस्तीव्राग्निना धाम्यं जायते काञ्चनं शुभम् ।
{चोप्पेर्, सिल्वेर्=> गोल्द्}
तालं ताप्यं दरदकुनटीं सूतकं सार्धभागम् ॥६.५५॥
खल्वे कृत्वा त्रिदिनमथितं काकमाच्या द्रवेत् ।
तेनालेप्यं रविशशिदलं खर्परे वह्निपक्वम् ॥६.५६॥
शुल्बातीतं भवति कनकं सौबलं पान्थिकानाम् ।
{चोप्पेर्=> गोल्द्}
ज्वालामुखीद्रवैर्मर्द्यं पलैकं शुद्धपारदम् ॥६.५७॥
दिनान्ते निक्षिपेत्तस्मिन्पादांशं मृतमभ्रकम् ।
ताम्रचूर्णस्य पादांशं पादांशं फुल्लतोरिका ॥६.५८॥
सर्वं ज्वालामुखीद्रावैर्मर्दयेद्दिनसप्तकम् ।
तद्गोलं वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥६.५९॥
तत्खोटं भागमेकं तु शुद्धताम्रं चतुष्टयम् ।
अंधमूषागतं धाम्यं समुद्धृत्य ततः पुनः ॥६.६०॥
द्राव्यं प्रकटमूषायां पुत्रजीवोत्थतैलके ।
ढालयेच्च पुनर्द्राव्यमेवं कुर्यात्त्रिसप्तधा ॥६.६१॥
जायते कनकं दिव्यं नात्र कार्या विचारणा ।
{चोप्पेर्=> गोल्द्}
गन्धकं श्वेतपालाशफलद्रावैर्विभावयेत् ॥६.६२॥
शतवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।
शतवारं प्रयत्नेन तेन पत्राणि लेपयेत् ॥६.६३॥
सम्यक्शुद्धस्य ताम्रस्य रुद्ध्वा गजपुटे पचेत् ।
समुद्धृत्य पुनर्धाम्यं ततः पत्राणि कारयेत् ॥६.६४॥
पुनर्लेप्यं पुनः पाच्यं पुनरावर्तयेत्क्रमात् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥६.६५॥
{सिल्वेर्, चोप्पेर्=> अष्टवर्ण गोल्द्}
भागा द्वादश तारस्य शुल्वस्य भागषोडश ।
आवर्त्य कारयेत्पत्रं लिप्त्वा रुद्ध्वा पुटे पचेत् ॥६.६६॥
महिन्दीपत्रनिर्यासैरेवं वाराणि षोडश ।
रसगन्धशिला भागान्क्रमवृद्ध्या विमर्दयेत् ॥६.६७॥
दिनमङ्कोलतैलेन पूर्ववच्च क्रमेण तु ।
लिप्त्वा रुद्ध्वा धमेद्गाढं पुनः पत्रं च कारयेत् ॥६.६८॥
पुनर्लेप्यं पुनःपाच्यं यावत्कांस्यं क्षयं व्रजेत् ।
अष्टवर्णं भवेद्धेम नात्र कार्या विचारणा ॥६.६९॥
{मेर्चुर्य्=> गोल्द्}
औषधी करुणी नाम प्रावृट्काले प्रजायते ।
नीलपुष्पा श्वेतपत्रा पिच्छिलातिरसा तु सा ॥६.७०॥
तद्द्रवं पारदे शुद्धे धाम्यमाने विनिक्षिपेत् ।
वज्रमूषास्थिते चैव यावत्सप्तदिनावधि ॥६.७१॥
जायते कनकं दिव्यं रस एव न संशयः ।
{मेर्चुर्य्, लेअद्, गोल्द्=> गोल्द्}
पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैस्त्र्यहम् ॥६.७२॥
मर्दितं वज्रमूषायां रुद्ध्वा वक्त्रं पिधाय च ।
दिनान्ते तत्समुद्धृत्य तद्वन्मर्द्यं च पाचयेत् ॥६.७३॥
एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः ।
तद्रसं पन्नगं स्वर्णं चन्द्रार्कैर्वेष्टयेत्क्रमात् ॥६.७४॥
समांशं चान्धितं धाम्यं दिव्यं भवति काञ्चनम् ।
{चक्रयन्त्र}
गर्तामध्ये रसमूषा बाह्यगर्ते सर्वतोऽग्निः ॥६.७५॥
चक्रयन्त्रमिदं प्रोक्तं सर्वशास्त्रार्थकोविदैः ।
{चोप्पेर्=> गोल्द्}
माक्षिकं रसकं तुल्यं रसकार्धं च सैन्धवम् ।
मातुलुङ्गैर्दिनं मर्द्यं मृद्भाण्डे पाचयेद्दिनम् ॥६.७६॥
यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां विपाचयेत् ।
सिताक्षौद्रेण संयुक्तं तत्कल्कं मर्दयेद्दिनम् ॥६.७७॥
पुनर्मृत्खर्परे पच्याद्गोक्षीरेण समायुतम् ।
चालयन्दिनमेकं तु अवतार्य विलेपयेत् ॥६.७८॥
शुद्धानि शुल्वपत्राणि रुद्ध्वा तीव्राग्निना धमेत् ।
ततः पत्त्रीकृतं लेप्यं तद्वद्धाम्यं दृढाग्निना ॥६.७९॥
इत्येवं च पुनः कुर्यात्पीतवर्णं भवेत्तु तत् ।
मुनिपुष्पैस्त्र्यहं भाव्या अतिरक्ता मनःशिला ॥६.८०॥
अनया पूर्वशुल्बं तु पत्रं कृत्वा प्रलेपयेत् ।
अन्धमूषागतं ध्मातं कङ्गुणीतैलके क्षिपेत् ॥६.८१॥
इत्येवं तु त्रिधा कुर्याद्दिव्यं भवति काञ्चनम् ।
{तारारिष्ट => गोल्द्}
अनेनैव प्रकारेण तारारिष्टं तु रञ्जयेत् ॥६.८२॥
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ।
{सुल्फ़ुरः: पिष्टी}
शुद्धसूतपलकं तु कर्षैकं गन्धकस्य च ॥६.८३॥
स्निग्धखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।
मर्दयेत्तु कराङ्गुल्या जायते गन्धपिष्टिका ॥६.८४॥
{मेर्चुर्य्(खोट), चन्द्रार्क => गोल्द्}
धान्याभ्रकस्य भागैकं भागाष्टौ शुद्धपारदम् ।
कुण्डगोलकसंयुक्तं मर्दनात्पिष्टिका भवेत् ॥६.८५॥
एतत्पिष्टिद्वयं मर्द्य जम्बीरोत्थैर्द्रवैर्दिनम् ।
पालाशमूलक्वाथेन मर्दयेच्च दिनत्रयम् ॥६.८६॥
ब्रह्ममूलं गुडं गुञ्जां ऊर्णा टङ्कणकं समम् ।
पिष्ट्वा क्षौद्रेण संयुक्तं पूर्वपिण्डं विलेपयेत् ॥६.८७॥
रुद्ध्वा तीव्राग्निना धाम्यं खोटो भवति तद्रसः ।
पाच्यं प्रकटमूषायां काचं टङ्कणकं क्षिपेत् ॥६.८८॥
एवं पुनः पुनः शोध्यं यावद्भवति निर्मलम् ।
ततश्च प्रकटं धाम्यं दत्त्वा नागं पुनः पुनः ॥६.८९॥
त्रिगुणं वाहयेदेवं रसराजस्य पन्नगम् ।
कृष्णाभ्रैः पुटितैरेव तत्खोटं रञ्जयेत्क्रमात् ॥६.९०॥
मूषायां धाम्यमानं तच्छतवारं पुनः पुनः ।
दत्त्वा दत्त्वाभ्रकं कृष्णं रञ्जितो जायते ध्रुवम् ॥६.९१॥
सहस्रांशेन तेनैव चन्द्रार्कं काञ्चनं भवेत् ।
{मेर्चुर्य्(खोट), लेअद्=> गोल्द्}
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ॥६.९२॥
पलैकं मर्दयेत्तस्या जम्बीराणां द्रवैर्दिनम् ।
ब्रह्मक्वाथैस्त्र्यहं पश्चात्तत्समं गुडटङ्कणम् ॥६.९३॥
ऊर्णां गुञ्जां क्षिपेत्तस्मिन्सर्वमेकत्र मर्दयेत् ।
छायाशुष्कां वटीं कुर्यान्महदग्निगतां धमेत् ॥६.९४॥
तं खाठं शोधयेत्पश्चात्श्वेतटङ्कणकाचकैः ।
शोधयेद्धमनेनैव खोटो भवति निर्मलः ॥६.९५॥
तं खोटं कुटिलं गन्धं प्रतिकर्षं प्रलेपयेत् ।
अन्धमूषागतं धाम्यं यावत्खोटावशेषितम् ॥६.९६॥
अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम् ।
ततो गन्धं च नागं च वाहयेत्षड्गुणं पुनः ॥६.९७॥
शुल्बचूर्णं पलैकं तु सिद्धचूर्णेन संयुतम् ।
रुद्ध्वा तं च धमेत्खोटं गंधकं तेन मर्दयेत् ॥६.९८॥
रुद्ध्वा गजपुटे पच्यादेवं वारांश्चतुर्दश ।
अनेन पूर्ववत्खोटं द्रावितं योजयेच्छनैः ॥६.९९॥
यावत्कुङ्कुमवर्णं स्यात्तावद्रञ्ज्यं क्षिपन्क्षिपन् ।
ततः स्वर्णं च गन्धं च खोटं तुल्यं पृथक्पृथक् ॥६.१००॥
ततो रुद्ध्वा धमेत्तीव्रं यावत्खोटावशेषितम् ।
इत्येवं त्रिगुणं वाह्यं स्वर्णं गन्धकसंयुतम् ॥६.१०१॥
पुनः स्वर्णेन तुल्येन समावर्तं तु कारयेत् ।
पुनर्द्विगुणहेम्ना तु त्रिगुणेन ततः पुनः ॥६.१०२॥
त्रिधैव सारितः सूतः सहस्रांशेन विध्यते ।
द्रुतं शुल्बं न संदेहो दिव्यं भवति काञ्चनम् ॥६.१०३॥
{गोल्दः: रञ्जनः: सितस्वर्ण => षड्वर्ण}
पूर्वं यच्छोधितं खोटं आवर्त्यं स्वर्णतुल्यकम् ।
सूक्ष्मचूर्णं ततः कृत्वा त्रिगुणे शुद्धपारदे ॥६.१०४॥
दत्त्वा निरुध्य मूषायां स्वेदयेन्मृदुवह्निना ।
तस्यैव द्रवते गर्भे तावत्स्वेद्यं प्रयत्नतः ॥६.१०५॥
अथवा दोलिकायन्त्रे स्वेदयेद्द्रुतसूतकम् ।
अनेन शतमांशेन सितं स्वर्णं विलेपयेत् ॥६.१०६॥
त्रिदिनं दोलिकायन्त्रे अर्कपत्रैश्च वेष्टितम् ।
काञ्जिकैः स्वेदयेत्तं तु अन्धमूषागतं धमेत् ॥६.१०७॥
स्वर्णं भवति रूपाढ्यं षड्वर्णोत्कर्षणं परम् ।
{गोल्दः: रञ्जनः: => षड्वर्ण}
शोधितं सूतखोटं च भागमेकं समाहरेत् ॥६.१०८॥
स्वर्णं षोडशभागं स्यादन्धमूषागतं धमेत् ।
पूर्ववत्क्रमयोगेन वेधयेद्रसगर्भकः ॥६.१०९॥
तेनैव शतमांशेन षड्वर्णं पूर्ववद्भवेत् ।
{रञ्जनः: लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्}
अर्कक्षीरेण धान्याभ्रं यामं पिष्ट्वा तथान्ध्रयेत् ॥६.११०॥
कपोताख्ये पुटे पच्यात्पुनर्मर्द्यं पुनः पचेत् ।
एवं विंशपुटैः पक्वं तदभ्रं षोडशांशकम् ॥६.१११॥
शुद्धसूते प्रदातव्यं पक्वमूषोदरेण तत् ।
अर्कपत्रद्रवैः पूर्वं रुद्ध्वा स्वेद्यं दिनत्रयम् ॥६.११२॥
तुषाग्निना प्रयत्नेन समुद्धृत्याथ निक्षिपेत् ।
तस्मिन्नभ्रं द्रवं चैव दत्त्वा तद्वत्पचेत्त्र्यहम् ॥६.११३॥
इत्येवं जारयेत्सूते यावत्तुल्याभ्रकं भवेत् ।
तिलपर्णीरसेनैव तत्सूतं चाभ्रकं पुनः ॥६.११४॥
मर्दयेत्तप्तखल्वे तु यावद्भवति गोलकः ।
पृथक्सूतेन तुल्येन गन्धपिष्टीं तु कारयेत् ॥६.११५॥
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।
तत्पिष्टी स्वर्णपिष्टी च रसाभ्रं गोलकं तथा ॥६.११६॥
समांशं त्रितयं मर्द्यं द्रवैः कार्पासजैर्दिनम् ।
तद्गोलं वर्तुलं कृत्वा वस्त्रे बद्ध्वाथ शोषयेत् ॥६.११७॥
पाचयेद्गन्धतैलं तु यावत्कुङ्कुमसंनिभम् ।
संजातं तत्समुद्धृत्य पिष्ट्वा निर्गुण्डिजैर्द्रवैः ॥६.११८॥
तेनैव चाष्टमांशेन नागपत्राणि लेपयेत् ।
पिष्ट्वा कार्पासपत्राणि तत्कल्केन च लेपयेत् ॥६.११९॥
नागपत्राणि रुद्ध्वाथ भूधराख्ये पुटे पचेत् ।
समुद्धृत्य पुनर्लेप्यमष्टमांशेन तेन वै ॥६.१२०॥
कार्पासपत्रकल्केन लिप्त्वा रुद्ध्वा पुटे पचेत् ।
ऊर्ध्वाधः परिवर्तेन अहोरात्रात्समुद्धरेत् ॥६.१२१॥
अष्टमांशं पुनर्दत्त्वा पूर्वकल्कं च मर्दयेत् ।
दिनं निर्गुण्डिजैर्द्रावैस्तद्गोलं लेपयेद्बहिः ॥६.१२२॥
कार्पासपत्रकल्केन रुद्ध्वा गजपुटे पचेत् ।
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥६.१२३॥
म्रियते कुङ्कुमाभं तन्नागं दशपुटैः क्रमात् ।
अनेन चाष्टमांशेन द्रुतं शुल्बं तु वेधयेत् ॥६.१२४॥
तेन शुल्बेन तारं तु अष्टमांशेन वेधयेत् ।
जायते कनकं शुल्बं देवाभरणमुत्तमम् ।
नागरञ्जनमिदं विशेषतः शुल्बसूतरविचन्द्रवेधनम् ।
धर्मकामसुखभाजनैर्जनैः साध्यतां अखिललोकरक्षणे ॥६.१२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:49.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

arctic Circle

  • उत्तर धुववृत्त 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site